Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

तत्त्वचिन्तामणौ शब्दाप्रामाण्यवादः

 

अथ शब्दो निरूप्यते ।

प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम् ।

करणञ्च तत् यस्मिन् सति क्रिया भवत्येव ।

 

न च शब्दे सति प्रमा भवत्येवेति नायं शब्दः प्रामणम् ।

न च शब्दो न प्रमाणमिति वाक्यस्य प्रामाण्याप्रमाण्ययोर्व्याघातः , अस्याप्रामाण्येऽपि एतदुत्थाप्यमानाविसंवादादिति चेत् न, आकाङ्क्षादिमतः पदार्थस्मरणादिव्यापारवतः प्रमाणत्वेन तथाभूतात् प्रमोत्पत्तेरावश्यकत्वात् अतथाभूतत्वे च फलाजनकत्वस्य करणान्तरसाम्यात् ।

 

तथापि शब्दो न प्रमाणान्तरं पदार्थसंसर्गस्यानुमानादेव सिद्धेः ।

तथापि गामाभ्याज दण्डेति पदानि वैदिकपदानि वा तात्पर्य्यविषयस्मारितपदार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बत्वात् घटमानयेतिवत् ।

योग्यतासत्तिमत्त्वे सति संसृष्टार्थपरत्वात् तत्परसन्निमत्त्वाद्देति न हेतुः, संसृष्टोहि योर्&थस्तत्परत्वं तत्परसन्निधिमत्त्वं वा असिद्धं संसर्ङ्गस्य प्रागप्रतीतेः ।

संसृंष्टत्वप्रकारकप्रतीतिपरत्वं तत्प्रकारकप्रतीतिपरसन्निधिमत्त्वं वा अनाप्तोक्ते निराकाङ्क्षे च व्यभिचारि ।

संसर्गस्य बहुप्रकारकत्वेऽपि नानाभिमतसंसर्गसिद्धिस्तस्य तात्पर्य्याविषयत्वात् ।

अन्यथा शब्दादप्यभिमतान्वयबोधो न स्यात् ।

अत एव विशेषण-विशेष्यभाववदर्थकानि तद्बोधपूर्वकाणि वेति न साध्यम् ।

 

यत्तु स्मारितार्थसंसर्गवन्तोति साध्यं, मत्वर्थश्च लिङ्गतया ज्ञापकत्वं ।

न चान्योन्याश्रयः, पूर्वपूर्वानुमितिहेतुत्वेन अनादित्वात् ।

तन्न ।

ज्ञापकत्वमात्रेणार्थासिद्धेः ।

प्रमापकत्वे तेनैव व्यभिचारात् ।

ज्ञानावच्छेदकतया च संसर्गसिद्धिः ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात् ।

 

 

संसर्गे च सम्बन्धिन एव विशेषकत्वात् ।

पक्षधर्मताबलात् व्यपकत्वेनागृहीतस्यापि संसर्गविशेषस्य सिद्धिः ।

अथैवं भ्रान्तिज्ञानमपि भ्रमः स्यात् ।

न चेष्टापत्तिः., ईश्वरस्यापि स्रभ्रान्तत्वापत्तेः ।

इदं रजतमिति भ्रमादिव शुक्तौ रजतज्ञानवानयमिति भ्रमस्य ज्ञानात् भ्रान्तिज्ञप्रवृत्त्यापत्तेश्च ।

यत्तु भ्रमविषयकत्वेन न प्रमत्वं भ्रमविषयाणां सिद्ध्यसिद्धिपराहतत्वात् इति, तच्च वक्ष्यामः ।

मैवं, असद्विषयकत्वेन न भ्रमत्वं भ्रमविषयाणां सत्त्वात् किन्तु व्यधिकरणप्रकारकतत्वेन ।

न च भ्रमस्य ज्ञाने व्यधिकरणं प्रकारः, रजतत्वप्रकारकत्व भ्रमेऽपि सत्त्वात् अन्यथा भ्रान्त्युच्छेदः प्रमाणाभावात् ।

ननु प्रकारकवाक्ये व्यभिचारः विशेषदर्शनेन तच्च संसर्गज्ञानाभावात् ।

न च संसर्गमप्रतीत्य वाक्यरचना न सम्भवतीत्याहार्य्यं तस्य संसर्गज्ञानं सम्भवतीति वाच्यम् ।

तावत्पदज्ञानादेव एकस्येव वाक्यरचनोपपत्तेः ।

अन्यच्चापि तस्यैव तन्त्रत्वादिति चेत् , , एतद्वाक्यमेतस्य पदार्थसंसर्गं बोधयिष्यतीत्याशयेन वाक्यप्रयोगात् तस्यापि संसर्गज्ञानात् योग्यताविरहाच्च ।

अत एव विसम्बादिवाक्ये एकवदुच्चरिते न व्यभिचारः ।

शब्दात् संसर्गप्रत्ययस्तु योग्यताभ्रमात् ।

अथ संसर्गज्ञानं विना एकस्यान्यस्य वा सम्बादिवाक्ये भ्रान्तप्रकारकवाक्ये च व्यभिचारः कथं वा तच्च संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति चेत् न ।

यदि तच्च संसर्गप्रमा तदा वेदतुल्यतेत्युक्तम् ।

आकाङ्क्षा - योग्यतासत्तिश्च ज्ञातोपयुज्यते, अन्यथा शाब्दभ्रमानुपपत्तेरिति ।

 

 

उच्यते ।

अर्थज्ञानं प्रवर्त्तकं न तु तज्ज्ञानज्ञानं गौरवात् व्यभिचाराच्च, अतो रजतविषयकमिति चेत् सत्यं, न तु रजतत्वप्रकारकं प्रवर्त्तकञ्च तथा, तदुभयसङ्करापत्तिश्च ।

एतेन लक्षणाद्यनुरोधात्तात्पर्य्यग्रहो वाक्यर्थधीहेतुः तात्पर्यञ्च पदार्थसंसर्गविशेषप्रतीत्युद्धेश्यकत्वं, तथाच तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् ।

किञ्च व्यापकतावच्छेदकप्रकारिकानुमितिरतः स्मारिपदार्थसंसर्गज्ञानपूर्वकाणीति तस्मात् प्रवर्त्तकं ज्ञानं शब्दादेव ।

अत एव प्रवृत्त्यर्थमनुवादकता शब्दस्येत्यपास्तं ।

शाब्दानुमित्योर्भिन्नप्रकारकत्वात् एकविषयत्वाभावेन स्तात्पर्यविषयमिथःसंसर्गवन्तः आकाङ्क्षादिमत्पदस्मारितत्वात् योग्यतासत्तिमत्त्वे सति ससर्ङ्गपरपदस्मारितत्वाद्वा, अनाप्तोक्ते योग्यताविरहात् न व्यभिचारः, तच्च बाधकसत्त्वात्, तज्जन्यज्ञानस्य भ्रमत्वात् एकाकारवाक्यस्यापि बाधकसत्त्वासत्त्वाभ्यां योग्यायोग्यत्वात् ।

 

 

अथ प्रतिपत्तुर्जिज्ञासां प्रति योग्यता सा च श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावरूपाकाङ्का बाधकप्रमाविरहा योग्यता अव्यवहितसंसर्गप्रतियोगिज्ञानमासत्तिः ताश्च स्वरूपसत्यो हेतवो ।

न तु ज्ञाताः गौरवात् तद्बोधं विनान्वयानुभवे विलम्बाभावात् संसर्गनिरूप्यत्वेन प्रथमं दुरवधारणत्वाच्चेति न तानि लिङ्गविशेषणानेति चेत्, , योग्यतादिशून्यत्वेऽपि तदभिमानेन संसर्गप्रत्ययादन्यथा शाब्दभासोच्छेदप्रसङ्गः ।

राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये विपर्यये च

 

वाक्यार्थधीप्रतिबन्धाच्च, योग्यतायाश्च संशयसाधारणं ज्ञानमात्रं हेतुः, स्व- परबाधकप्रमाविरहः क्वचित् निश्चीयतेऽपि यथेह घटो नस्तीत्यच्च स्वयोग्यानुपलब्धा घटाभावनिश्चयेनान्यसस्यापि घटप्रमाविरहो निश्चीयते ।

क्वचिद्बाधकप्रमामात्रविरहसंशयेऽप्यन्वयबोधः बाधसंशयस्यादूषणत्वात् ।

 

 

किञ्च तवापि योग्यतादिकं प्रमाण्ये प्रयोजकं आप्तोक्तत्वस्य तथात्वे गौरवात् अनाप्तोऽक्तेऽपि संवादेन प्रमाण्याच्च ।

एवञ्च ज्ञायमानकरणे प्रमाण्यप्रयोजनकतया ज्ञानमावश्यकमिति तासां ज्ञानं हेतुः, तच्च समभिव्याहारविशेषादिनेति ।

मैवं ।

यत्र विमलं जलं इत्यश्रुत्वैव नद्याः कच्छे महिषश्चरतीति शृणोति तत्राकाङ्कादिकमस्ति ।

न च नदौ-कच्छयोः संसर्ग इति, व्यभिचारात् ।

अत एव तन्मात्रं प्रयोजकं प्रमाण्ये ।

अथ यावात्समभिव्याहृतेत्यपि लिङ्गविशेषणं कतिपयपदस्मारिणस्तु संसर्गप्रत्ययोलिङ्गाभिमानादिति चेत् ।

न ।

तत्सन्देहेऽपि वाक्यार्थावगमात् ।

तत्र संसर्गभ्रान्तिरिति चेत् न ।

अन्यकारणाभावेन पदमेव भ्रान्तिजनकं तथाचादुष्टं सत्तदेवाभ्रान्तिं जनयत् केन वारणीयम् ।

असंसर्गाग्रहस्तचेति चेत् ।

न ।

संसर्गे बाधकाभावात् ।

अथाप्तोक्तत्वं लिङ्गविशेषणं तदेव वा लिङ्गम् ।

न च नदी- कच्छयोः संसर्गे आप्तोक्तत्वं, आप्तोक्तत्वञ्च प्रमाण्ये तन्त्रमिति तद्धत्तया ज्ञायमानस्य हेतुत्वेन तत्र ज्ञानमावशयकं व्याप्तिमत्तया ज्ञातस्येव लिङ्गस्य, तदवगमश्च लोके भ्रमाद्यमूलकतया महाजनपरिग्रहेण वेदे स्मृतौ चेति चेत् ।

न ।

यत्र कुत्रचिदाप्तत्वमनाप्तस्यापि सर्वचाप्तमप्रमितं, भ्रान्तेः पुरुषधर्मत्वात् प्रकृतवाक्यार्थयथार्थज्ञानवत्त्वञ्चाप्तत्वं प्रथमं दुर्ग्रहं, भ्रमाद्यमूलकत्वस्य प्रवृत्तिसंवादादेश्च तद्ग्राहस्याज्ञानात् प्रवृत्तिश्च सन्देहादपि ।

 

 

 

किञ्च पकृतसंसर्गे अयमाभ्रान्तो यथार्थज्ञानवान्वेति संसर्गमप्रतीत्य ज्ञातुमशक्यं वाक्यार्थस्यापूर्वत्वात् ।

वयन्तु बूमः बाधकप्रमाणाभावो योग्यता

 

सा च न लिङ्गविशेषणं बाधकप्रमाणमात्रविरहस्य सर्वत्र निश्चातुमशक्यत्वात् , तत्संशयेऽपि शब्दादन्वयबोधाच्च, शब्दप्रामाण्ये तु योग्यतायाः संशय-निश्चयसाधारणं ज्ञानमात्रं प्रयोजकमिति शब्दः प्रमाणमिति ।

 

 

जरन्मीमांसकास्तु लोके वक्तृज्ञानानुमानात्तदुपजीवसंसर्गानुमानाद्वा वाक्यर्थसिद्धौ शब्दस्यानुवादकत्वं वेदे तु तदभावात् स्वातन्त्रेण प्रामाण्यमिति वदन्ति ।

तन्न ।

वेदे क्प्तसामग्रीतो लोकेऽपि संसर्गप्रत्ययादन्यथानुवादकतापि न स्यात् लिङ्गस्य पूर्वत्वेऽपि व्याप्तिस्मृतिविलम्बेन तद्विलम्बात् ।

अनाप्तोक्तौ व्यभिचारात् वेदतुल्यापि सामग्रौ न निश्चायिकेति चेत् ।

न ।

चक्षुरादेस्तथात्वेन तच्छङ्कायामपि प्रमापकत्वात् ।

ज्ञायमानं करणं सन्देहे न निश्चायकं लिङ्गवदिति चेत् ।

न ।

संशयो हि न वाक्ये तस्य निश्चयात्, न तज्जनयज्ञानप्रमाण्ये तस्य तदुत्तरकालीनत्वात् , नाप्तोक्तत्वे तन्निश्चयस्यानङ्गत्वात् ।

ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थधीर्नेति तन्निश्चयोहेतुः तथा च वाक्यार्तगोचरयथार्थज्ञानजन्यत्वग्राहकात् ।

तदुपजीविनोऽनुमानात् वाक्यर्थधीरिति चेत् ।

न ।

वेदेतद्रहितस्यापि सामर्थ्यावधारणात् तदनिश्चयेऽपि वेदानुकारेण पठ्यमानमन्वादिवाक्येऽपौरुषेयत्वाभिमानि नोगौडमीमांसकस्यार्थनिश्चयात् ।

न चासौ भ्रान्तिः, बाधकाभावात् पौरुषेयत्वनिश्चयदशायामपि तस्य तथात्वात् ।

 

 

 

न चासंसर्गाग्रहमात्रं तत् अर्थस्य तथाभावेऽपि असंसर्गाहत्वे संसर्गोच्छेदापत्तेः ।

न चाप्तोक्तत्वन्निश्चयरूपकारणाबाधात् संसर्गज्ञानबाधः, व्यभिचारेण हेतुतायामेव बाधात् लौकिकत्वेन ज्ञाते तदङ्गमिति चेत् ।

न ।

मानाभावात् वाक्यार्थस्यापूर्वत्वेन लिङ्गाभावेन तद्ग्रहासम्भात् । यदि चापौरुषेयत्वनिश्चये सत्येव वेदादर्थप्रत्ययः तदा दोषवत्पुरुषाप्रणीतत्वे सत्याकाङ्क्षादिमत्पदस्मारितत्वेन वेदे पदार्थसंसर्गसिद्धिरस्त्विति वेदेऽप्युनुवादकः स्यात् ।

तदुक्तं, व्यस्तपुन्दूषणाशङ्कैः स्मारिततत्वात् पदैरमी ।

अन्विता इति निर्णीते वेदस्यापि न तत् कुतः&&

न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यर्थप्रमोत्पत्तेरिति ।

 

प्राभाकरास्तु व्यभिचारिशब्दव्यावृत्तमव्यभिचार्यनुगतप्रमाप्रयोजकमुपेयं यदभावादनाप्तोक्तवाक्यादप्रमा अन्यथा कार्यवैचित्र्यं न स्यात्, तच्च ज्ञातमुपयुज्यते ज्ञामानकरणे ज्ञनोपयोगिव्यभिचारिवैलक्षण्यत्वात् प्रमाहेतुत्वाद्वा व्याप्तिवच्छब्दशक्तिवच्चेति, अन्यथा शब्दाभासोच्छेदप्रसङ्गः ।

न चाप्तोक्तत्वं तथा, संवादात् प्रमाणे शुकोदीरिते भ्रान्तप्रतारकसंवादिवाक्ये वेदे च तदभावादाप्तोक्तत्वानुमाने व्यभिचारिव्यावृत्तलिङ्गाभावाच्च ।

भावे वा तद्वत एव शब्दस्य प्रत्यायकत्वात् ।

 

 

एतेनाप्रमाहेतुत्वं न भ्रम-पमाद-विप्रलिप्सा-करणापटवानां परस्परं व्यभिचारात् मिलितस्याव्यापकत्वात् ।

किन्त्वाप्तोक्तत्वाभावस्याप्रमाहेतुत्वं तदभावश्चाप्तोक्तत्वं प्रमाहेतुरित्यपास्तं ।

आप्तोक्तत्वस्य प्रथमं लिङ्गाभावेन ज्ञातुमशक्यत्वात् ।

अत एव व्यभिचारशङ्काविरहो हेतुः सा च लोके भ्रमादिमूलेत्याप्तोक्तत्वानुमानादुच्छिद्यते, वेदे च पौरुषेयत्वनिश्चयेनेति निरस्तं ।

अभिमतवाक्यार्थस्यापूर्वत्वेन साध्याप्रसिद्धेः वेदे सदोषपुरुषाप्रणीतपदस्मारितत्वेन संसर्गसिद्धेरनुवादकतापत्तेश्च ।

नापि दोषाभावः भ्रान्तप्रतारकवाक्यजन्यज्ञाने प्रत्यक्षेणागृहीतसंवादे तदभावात् ।

दोषभावस्य हेतुत्वात् तत्र वाक्यं मूकमेव व्यवहारस्तु प्रत्यक्षादिति चेत् ।

न ।

अनुभवापलापापात् तद्धेतुत्वे विवादात् वेदेऽप्यनुवादकतापत्तेश्च ।

किञ्च दोषाभावस्य प्रमाहेतुत्वेऽप्रमायां दोषः कारणं तस्य च प्रत्येकं हेतुत्वे व्यभिचारः मिलितस्य तत्त्वे एकस्मादप्रमा न स्यात् भ्रमादीनां प्रत्येकं दोषत्वेऽननुगमः मिलितस्य तु तत्त्वे एकस्मादप्रमानुदयप्रसङ्गः ।

तस्मात् लाघवात् यथार्थतात्पर्यकत्वं शाब्दप्रमाप्रयोजकं तच्च यथार्थवाक्यर्थवाक्यर्थप्रतीतिप्रयोजनकत्वं लोक-वेदसाधारणं तदभावादप्रमा स एव दोषः, न हि जात्यैव कश्चिद्दोषः, तद्विघातकत्वाच्च भ्रमादीनां दोषत्वं ।

अत एव भ्रान्तप्रतारकवाङ्क्यं शुकादिवाक्यञ्च प्रमाणं संवादात् ।

अत एवान्यघटाभिप्रायेण गेहे घटोऽस्तीत्युक्ते यत्र धटान्तरं दृष्ट्वा तमानयति तत्रान्यपरत्वाच्छब्दो न प्रमाणं व्यवारस्तु प्रत्यक्षादेव यष्टीः प्रवेशयेति च मुख्यार्थबोधे तच्च तात्पर्यं ज्ञातमुपयुज्यते ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद्व्याप्तिवच्छक्तिवच्च, अन्यथा अन्यपरादन्यान्वयबोधोन स्यात् इति शब्दाभासोच्छेदप्रसङ्गः, तदभ्रमाच्च शाब्दभ्रमः ।

अत एव यष्टीः प्रवेशयेत्यच लक्षणा नानार्थे विनिगमना च तयोस्तात्पर्यग्रहमूलकत्वात् ।

यदि च यत्र वास्तवं तात्पर्यं तं शाब्दोबोधयति तदा लक्षणानां मुख्यार्थान्वयानुपपत्त्युपयोगो न स्यात् ।

अत एव पचतीत्युक्तेऽयोक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्यानिश्चयात् ।

न च तात्पर्यग्राहकस्य प्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्यग्रहस्येति वाच्यम् ।

तेषामननुगतत्वेन परस्परव्यभिचारादहेतुत्वात् तात्पर्यग्राहकतात्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव ।

तच्च तात्पर्य वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्यमवधार्यते स एव वेदार्थः, लोके च न केवलं न्यायानुसारि तात्पर्यं इति न न्यायगम्यं किन्तु पुमभिप्रायनियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिजनकत्वात् पुंवचसां ।

वक्ता च परकीयवाक्यार्थज्ञानोत्पादनेच्छाया वाक्यमुच्चारयति ।

सा चेच्छा यदि वक्त्रुर्यथार्थवाक्यार्थज्ञानपूर्विका भवति तदैव परं तदुच्चारणस्य तदैव परं तदुच्चारणस्य पुमभिप्रेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निर्वहतीति वक्तुर्यथार्थवाक्यार्थज्ञानवत्तामविज्ञाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थप्रतीतिपरत्वं ज्ञातुं न शक्यत इति प्रथममाप्तवाक्याद्वक्तृज्ञानानुमानपूर्वकमर्थतथात्वमनुसन्धाय यथार्थतात्पर्यनिश्चयः ।

अनुमानच्चेदं वाक्यं भ्रमादि-विशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति ।

ततो भ्रमादिनिरासे सति परिशेषाद्वाक्यार्थज्ञानानुमानं अयं स्वप्रयुक्तवाक्यार्थर्यथार्थज्ञानवान् भ्रमाद्यजन्यवाक्यप्रयोक्तुत्वात् अहमिव, न त्वाप्तत्वात् साध्यविशेषात् ।

तत एते पदार्था यथोचितसंसर्गवन्तः यथार्थज्ञानविषयत्वात् आप्तोक्तपदस्मारितत्वाद्वा मन्दुक्तपदार्थवदिति ।

ननु वक्तुर्ज्ञानविशेषोऽनुमेयः ज्ञाने चार्थ एव विशेषः न त्वर्थाधीनोऽन्यः अर्थेनैव विशेषः इत्यौपचारिको तृतीया तथाच वाक्यार्थज्ञानविशेषोऽनुमेयः तस्य चाप्रसिद्ध्या न व्याप्तिग्रहः ।

अत एवास्मिन् वाक्यर्थे अयमभ्रान्त आप्तो वेति ज्ञातुमशक्यमिति शब्द एव तमर्यं बोधयेदिति चेत्, , तात्पर्यावधारणार्थं त्वयाप्यशाब्दा एव संसर्गविशेषप्रतीतेरवश्याभ्युपेयत्वात् अन्यथा क्व तात्पर्यनिरूपणं । अत एव आप्तोत्कत्वभ्रमाद्यन्यत्वनिरूपणमपि सुकरं ।

शाब्दन्तु संसर्गज्ञानं प्रथमं न भवति ज्ञानान्तरन्तु भवत्येव ।

न चैवं शब्दो न प्रमाणं तदर्थस्य प्रागेव सिद्धेरिति वाच्यम् ।

तवापि तुल्यत्वात् ।

ननु तथापि कथमर्थविशेषसिद्धिः विशेषेण व्याप्त्यग्रहादिति चेत् ।

न ।

यथा यो यत्र प्रवर्त्तते स तज्ज्ञानातीति सामान्यतोव्याप्तिज्ञाने पाकादौ प्रवृत्तिदर्शनात् पाकविषयकार्यताज्ञानानुमानं, यथा चेष्टाविशेषदर्शनात् दशसंख्याभिप्रायमात्रज्ञाने घटे तच्चेष्टादर्शनात् घटे दशत्वज्ञानं तथा सामान्यतोव्याप्त्यावापि विशेषसिद्धिः ।

 

 

यद्वा इदं वाक्यं साकाङ्क्षैवतदर्थविषयकैकज्ञानहेतुकं आप्तोक्तत्वे सति एतदर्थप्रतिपादकत्वात् मद्वाक्यवत्, तत एते पदार्थाः परस्परसंसर्गवन्तः साकाङ्कत्वे सत्येकज्ञानविषयत्वात् सत्यरजतज्ञानविषयवत्, एवं वक्तुर्यथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थवाक्यार्थज्ञानेऽनुमिते प्रकरणादिना वक्त्रभिप्रेतयथार्थप्रतीतिपरत्वज्ञानं ततो वेदतुल्यतया शब्दादर्थप्रत्यय इत्यनुवादक शब्दः वक्तृज्ञानावच्छेदकतया संसर्गज्ञानानुमानात् तदुपजीविसंसर्गानुमानाद्वा वाक्यार्थस्य प्रागेव सिद्धेः ।

यत्तु संसर्गाग्रहो भ्रमः तदभावश्च संसर्गग्रह एवेति भमाभावेऽनुमीयमाने संसर्गज्ञानमेवानुमितं इत्याप्तत्वानुमानान्तर्गतमेव वक्तृज्ञानानुमानं न तु वक्तृज्ञानानुमाने तलिङ्गं इति ।

तन्न, भ्रमोहि ज्ञानद्वयं अगृहीतभेदं तदभावश्च गृहीतभेदज्ञानं, न हि ज्ञानाभावे सुषुप्तौ भ्रमव्यवहारः, ततो भ्रमाभावनिश्चयानन्तरं वक्तृज्ञानानुमानं, तर्हि यादृशं लिङ्गं तादृशमेव गमकमस्त्विति ।

 

अत्रोच्यते ।

यथार्थवाक्यर्थदीपरत्वं न ज्ञातं प्रमोत्पादकं गौरवात् वाक्यर्थनिरूप्यत्वेन प्रथमं ज्ञातमशक्यत्वाच्च तस्यापूर्वत्वात् ।

 

 

यच्च लोके भ्रमादि निरासानन्तरं वक्तृज्ञानाच्छेदकतया तदग्रे स्वातन्त्रेण वा पुमभिप्रेतवाक्यार्थज्ञाने तत्प्रतीतिपरत्वं प्रकरणादिना ज्ञायत इत्युक्तं, तन्न, वाक्यार्थमज्ञात्वा अत्रायभ्रान्त इति ज्ञातुं पुरुषत्वाद्वक्तुर्भ्रम - प्रमादसम्भवेन प्रथमं भ्रमाद्यजन्यत्वस्य ग्रहीतुमशक्यत्वात् प्रवृत्तिसंवादादेर्ज्ञानोत्तरकालीनत्वात् भ्रमादिजन्यविलक्षणत्वेन च शब्दस्याज्ञानात् ज्ञाने वा यादृशोलिङ्गत्वं तस्यैव प्रत्यायकत्वं अव्यभिचारात् वेदेऽपि वाक्यार्थमविज्ञाय तद्यथार्थप्रतीतिपरत्वं न्यायेनापि ज्ञातुमशक्यं विषयनिरूप्यत्वात् प्रतीतेः लोके तात्पर्यनिरूपणार्थमशाब्दवाक्यार्थप्रतीतेः प्रथमं त्वयापि स्वीकारात् ।

अन्यथा वक्तृज्ञानानुमानं न स्यात् ।

न च लोकवत्मानान्तरात्तदवगमः, वेदार्थस्य तदविषयत्वात् वेदस्य प्रथमं मूकत्वत्, न च न्यायसिद्धे वेदार्थे मानान्तरातात्पर्यग्रहः, वेदस्यानुवादकतापत्तेः शब्दस्याप्रमाणत्वापत्तेर्वा ।

अज्ञाते वाक्यर्थे तर्क - संशययोरप्यभावात् अयं पदार्थोऽपरपदार्थसंसृष्टो न वेति संशये तर्के वा एककोटौ संसर्ग उपस्थित इति चेत्, , अनिश्चिते तात्पर्यानिश्चयात् तयोरगृहीततासंसर्गविषत्वेनासदर्थविषयकत्वेन वा वाक्यर्थाविषयत्वाच्च ।

अन्यथा लाकेऽपि ताभ्यामेवोपस्थितिरिति किं वक्तृज्ञानानुमानेन ।

वस्तुतस्तु यदि यथार्थतात्पर्यकत्वं ज्ञानं शब्दप्रमोत्पादकं तदा लोक-वेदयास्तादृशपदस्मारितत्वेन पदार्थसंसर्गानुमितिसम्भवात् न शब्दः प्रमाणं स्यात् ।

अपि च पुंवाक्यस्य दोष-विशिष्टज्ञानान्यतरजन्यत्वेऽनुमिते परिशेषाद्दोषाजन्यत्वनिश्चयदशायां वेदतुल्या सामाग्री पुंवाक्येऽपि वृत्तेति तत एवार्थनिश्चयात् वेदवत्तस्यापि प्रामाण्यं, अनुमितानुमानस्य व्याप्तिस्मृत्यादिविलम्बितत्वात् ।

एतेनाबाधितार्थपरत्वं लोके वेदे च प्रमापकं लोके वाक्यर्थो बाधितोऽपि दृष्ट इति श्रोतुः प्रमाणावतारं विना न बाधाभावनिश्चयः स च क्वचिच्छृतुरिन्द्रियेण क्वचिद्वक्तुराप्तत्वानुमानेन वेदे तु न्यायात्तन्निश्चयः तदर्थस्य प्रमाणान्तराविषयत्वात् न तत्र शङ्केति सामाग्रीभेद इति निरस्तं ।

प्रथमभ्रमाद्यभावस्याप्तस्य वा निश्चेतुमशक्यत्वात् वेदस्यानुवादकतापत्तेश्च ।

 

 

तस्मात् भ्रमाद्यजन्यत्वं आप्तोकत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यद्वा व्यभिचारिव्यावृत्तं यत्प्रमोत्पादकं तत् स्वरूपसत् न ज्ञातं ।

अन्यथा तादृशस्य वाक्यार्थाव्यभिचारितया तादृशपदस्मारितत्वात् लिङ्गादेव संसर्गसिद्धिः स्यादिति जितं वैशिषिकैः ।

अथ व्यवहारानुमितव्यवहर्त्तृकार्यान्वितज्ञाने उपस्थितत्वेन पदानां हेतुत्वग्रहादन्विताभिधायकत्वं तदानीं शब्दस्य लिङ्गत्वेनोनुपस्थितेरिति चेत् ।

न ।

लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्तेर्नाकाङ्क्षादिमच्छब्देन कारणता गौरवात् । शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्य दोषो न वस्तुन इत्यादि वक्ष्यते ।

किञ्चैवं लोकवद्वेदेऽपि अनुवादकता स्यात् ।

एतेन वाक्यार्थतात्पर्यग्राहकानुमानात् तात्पर्यावच्छेदकतया तदुपजीविनोऽनुमानात् स्वातन्त्रेण वाक्यार्थसिद्धेर्न शब्दः प्रमाणमिति वैशेषिकमतपास्तम् ।

यथार्थतात्पर्यग्रहस्य वाक्यार्थबोधाहेतुत्वात् ।

यत्तु ज्ञायमानकरणे इति, तन्न, यथार्थतात्पर्यकत्वादेः प्रथमं ज्ञातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्च ।

न हि व्याप्तिः शब्दशक्तिश्च कारणं, किन्तु तद्धीः, अतीतेऽनुमितिदर्शनात् ।

अपभ्रंशादौ शक्तिभ्रमादन्वयबोधाच्च ।

न च सैवापयुज्यत इति साध्यं, प्रथमं तदसम्भवात् ।

तस्मात् यत् अर्थाव्यभिचारित्वेन ज्ञातं कारणं तत्र व्यभिचारिवैलक्षण्यज्ञानमुपयुजन्यते अन्यथा शब्दस्यार्थव्यभिचारितया ज्ञातस्य ज्ञापकत्वे लिङ्गतापत्तेर्वज्जलेपायमानत्वात् ।

स्यादेतदनाप्तोक्ते बाधकेनार्थाभावदर्शनात् आकाङ्क्षादिमद्वाक्यत्वेन सदर्थकं बाधितार्थकं वेति संशयान्न तावन्मात्रादर्थनिश्चयः, न हि संशायकमेव निश्चायकं, इत्यधिकमपेक्षणीयमिति चेत् ।

 

 

न । अर्थसंशयस्य तद्बाधसंशयस्य वा प्रमाणाप्रतिबन्धकत्वात् ।

वह्नि-तद्बाधयोः संशयेऽपि प्रत्यक्षानुमानादिना अर्थनिश्चयात् अन्यथा प्रमाणमात्रोच्छेदः, तत्पूर्वमर्थ-तद्बाधसंशयात् ।

विनाप्यर्थं वाक्यरचना सम्भत्यत एतस्यायमर्थो न वा, एतत्सदर्थकं न वा, एतज्जन्यज्ञानं सद्विषयकं न वेति संशयस्यार्थावगमोत्तरकालीनत्वाच्च ।

तस्मादाप्तोक्तत्वं भ्रमाद्यजन्यत्वं अबाधितार्थकत्वं यथार्थवाक्यार्थप्रतीतिपरत्वं वा ज्ञातं अनुगतमपि न हेतुः प्रथमं ग्रहीतुमशक्यत्वात्, किन्तु तात्पर्यग्राहकत्वेनाभिमतानां न्यायजन्यज्ञान-प्रकरणादीनामन्यतरत् तात्पर्यव्याप्यत्वेनानुगतं, तथाकाङ्क्षासत्तिनिश्चयः, तद्विपर्यये संशये च शाब्दज्ञानाभावात् ।

योग्यतायाश्च ज्ञानमत्रं हेतुः तत्संशये विपर्यये प्रमायाञ्च वाक्यार्थज्ञानात् , तथा विभक्त्यादिसमभिव्याहरः सम्भूयोच्चारणञ्च शाब्दज्ञानमात्रे कारणानि नानार्थे श्र्लिष्टे चानेकोपस्थितावपि प्रकरणादिवशादेकमर्थमादयान्वयबोधः ।

लक्षणा च न तात्पर्यानुपपत्त्या किन्त्वन्वयानुपपत्त्यैव प्रकरणाद्भोजनप्रजनकत्वेनावगतप्रवेशनस्य यष्ट्यन्वयानुपपत्तेः ।

अजहत्स्वार्थायां प्रकरणादेव छत्रि तदितरस्य यान्तीत्यनेन गमनकर्त्तृत्वमवगतं तदन्वयानुपपत्तिच्छत्रिमात्रे, पचतीत्यस्य कलायमित्यन्योक्तेन समं नार्थप्रत्याकत्वं समभिव्याहाराभावात्, तवापि तस्य तात्पर्यग्राहकत्वात् सहोच्चरितानां सम्भूयार्थप्रत्यायकत्वस्य व्युत्पत्तिसिद्धत्वात् ।

 

अन्ये तु नानार्थे लक्षणायाञ्च नियतोपस्थित्यर्थं पदार्थे तात्पर्यग्रहापेक्षा तेन विना तदभावात् न वाक्यार्थे, तदज्ञानेऽपि प्रकरणादिना सैन्धवपदं तुरगपरं काकपदं उपघातकपरमिति हि प्रतियन्ति ।

अन्यत्रान्वयप्रतियोग्युपस्थितिः तात्पर्यग्रहं विनैवेति न तदपेक्षा ।

वस्तुतस्तु इतरपदस्य इतरपदार्थसंसर्गज्ञानपरत्वं तात्पर्यं तच्च वेदे न्यायादवधार्यते लोके न्यायात् प्रकरणादेर्वा ।

अत एव शाब्दबोधे नानियतहेतुकत्वं तच्चेतरपदार्थसंसर्गज्ञानं वाक्यर्थज्ञानमेवेति सामान्यकारेण तत्परत्वग्रहः हेतुर्न तु विशिष्य, तच्च स्वपरपदार्थयोः संसर्गानुभवजननं विना अनुपपन्नमिति पदानि सम्भूय जनयन्ति, अत एव नानार्थे विनिगमना, तदनुपपत्तिरेव लक्षणाबीजं तदभावादेव पचतिपदे न स्मृतकलायान्वयबोध इति सिद्धं शब्दस्य प्रमाणान्तरत्वं ।

तस्य च निराकाङ्क्षादौ संसर्गज्ञानाजनकत्वात् आङ्क्षादिकं सहकारीति ।

 

 

_________________________________________________________________________

 

 

 

तत्त्वचिन्तामणौ शब्दाकाङ्क्षावादपूर्वपक्षः

 

 

अथ केयमाकङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात् ।

विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्तेः ।

नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यर्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोप्यधिकारिणोऽप्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः ।

अथ जिज्ञासायोग्यता, सा जिज्ञासा च विशेषाज्ञाने भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात् तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रगाभावः, घटः कर्मत्वमानयनमित्यत्रापि तथेति चेत् ।

न ।

निराकाङ्क्षे तदुच्चारणजन्यसंसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् ।

किञ्च यत्रैकोविमलं जलमित्यश्रुत्वैव तात्पर्यभ्रमेणा वा नद्याः कच्छान्वयपरत्वमवैति, अपरः समस्तेन श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकाङ्क्षं स्यात् ।

 

अपि च प्रगाभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया ।

एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात् ।

न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्रहेतुत्वात् ।

शब्दे नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात् ।

 

अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति ।

घटः कर्मत्वमाननयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात्, घटस्यानयनमिति तु नान्वयबोधः घट इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थितेः ।

राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नाम-विभक्ति-धात्वाख्यातार्थानां घट-कर्मत्वानयन-कृतीनां स्वरूपेणोपस्थितिर्नान्वयन्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात् ।

घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोधः स्यात्, न हि तत्र पदार्थस्वरूपाणां एतद्वैलक्षण्येनोपस्थितिः, त्रयाणां तुल्यवत् स्मरणे प्रथमं

 

यतो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण तत एवाग्र्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति ।

 

 

_________________________________________________________________________

 

 

शब्दाकाङ्क्षावादसिद्धान्तः

 

उच्यते ।

अभिधानापर्यवसानमाकाङ्क्षा यस्य येन विना न स्वार्थान्वयानुभावकत्वं तस्य तदपर्यवसानं, नाम-विभकि-धत्वाख्यात-क्रिया-कारकपदानां परस्परं विना न परस्परस्य स्वार्थान्वयानुभवजनकत्वं ।

परमते नीलघटोऽस्ति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोधः विशेषणान्वितविभक्त्यर्थानन्वयादिति न विशिष्टवैशिष्ट्येनान्वयः किन्त्वार्थः समाजः ।

अस्माकन्तु नील-घटयोरभेदानुभवबलादभेद एव संसर्गः विशेषविभक्तिः साधुत्वार्थं ।

 

यद्वा समानविभक्तिकयोरभेदानुभवबलात् विशेषणान्वितविभक्तेरभेदार्थकत्वं अतो विशेषण-विशेष्यभावानुभावकत्वं तत्पदयोः, न परस्परं विना ।

द्वारमित्यत्राध्याहारं विना प्रतियोग्यलाभात् न स्वार्थान्वयानुभावकत्वं, विश्वजिता यजेतेत्यत्र ममेदं कार्यमिति प्रवर्त्तकतात्पर्यविषयज्ञानं नाधिकारिणां विनेति तदाकाङ्क्षा ।

 

यद्वा कर्त्तुरिवाधिकारिणोऽपि आक्षेपादेव लाभ इति तदन्वयो न शाब्दः किन्त्वानुमानिकः, गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्याध्याहृतस्येवेतरपदं विना नानुभावकत्वं ।

घटः कर्मत्वं आनयनं कृतिरित्यादौ अभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव । घटमानयतीत्यत्रेव भ्रमेण तथान्वयतात्पर्येऽपि क्रिया -कारकभावेन नान्वयः नाम-विभकि-धात्वाख्यात-क्रिया-कारकपदानां अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि ।

अग्निः करणत्वं ओदनः कर्मता पाकः कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निर्नोदनं पचेतेत्यत्रेव अन्वयाबोधात्, अग्निकरणकौदनकर्मकपाकविषयककृतिरिष्टसाधनं इति तु वाक्यं न पदं, अत एव द्वारमित्यत्र पिधेहिपदाध्याहारः, क्रियापदार्थस्यान्यत उपस्थितौ अपि कारकानन्वयात् असामर्थ्यञ्च स्वभावात् ।

अनासन्नमपि आसन्नतादशायां आसन्नत्वभ्रमेण वा अन्वयबोधसमर्थमेव ।

वह्निना सिञ्चतीत्यत्र क्रिया-कारकपदयोरन्वयबोधे सामर्थ्येऽपि अयोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याप्यग्नेर्मणिरिव ।

अत एव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः ।

नहि स्वभावतोऽसमर्थं आरोपितसामर्थ्यं वा दहति पचति वेति, प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि ।

पुरूषपदं विनापि राज्ञा इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न तदाकाङ्क्षा ।

 

यद्वा त्रयाणां स्मरणोऽजनितान्वयबोधदशायां पुरुषान्वये तात्पर्याभावात् नान्वयबोध इत्यग्रेऽपि तथा ।

न च पुत्रस्योत्थिताकाङ्क्षत्वात् तेनैवान्वयबोध इति ।

वाच्यम् ।

तात्पर्यवशात् पुरुषेणैव प्रथममन्वयबोधात् ।

अत एवान्वयबोधसमर्थत्वे सति अजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित् ।

प्रकृति-प्रत्ययाभ्यामन्वयबोधे जनितेऽपि वाक्यैकवाक्यतावत् क्रिया-कारकपदयोरजनितान्वयबोधत्वमाकाङ्क्षा ।

 

नव्यास्तु पदविशेषजन्यपदार्थोपस्थितिः घटः कर्मत्वं आनयनं कृतिरित्येवम्बिधपदाजन्यपदार्थोपस्थितिर्वा

 

आसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवम्बिधशब्दान्नान्वयबोधः त्वयाप्येवम्बिपदार्थोपस्थिते राकाङ्क्षाहेतुत्वेनावश्यमभ्युपेयत्वात्, जनितान्वयबोधात् नान्वयान्तरबोधः तात्पर्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थितेः परिचायकत्वमात्रमिति ।

 

 

 

 

_________________________________________________________________________

 

 

 

तत्त्वचिन्तामणौ योग्यतावादः

 

पूर्वपक्षः

 

 

 

ननु का योग्यता, न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याव्यावर्त्तकत्वात् ।

पदार्थतावच्छेदकेन साजात्यस्याद्यजातः पयः पिबतीत्यदावभावात् वाक्यार्थस्यापूर्वत्वाच्च ।

नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयत्वापत्तेः ।

न च वस्तुगत्या संसर्गव्याप्यो यो धर्मस्तद्वस्तं तच्च न ज्ञातुमुपयुज्यते इति नानुमेयः संसर्ग इति वाच्यम् ।

योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः ।

अत एवान्वयनिश्चयविरह एव योग्यता स्वरूपसत्ती हेतुः तत्र तद्धर्माभावनिश्चये तत्प्रकारकशाब्दज्ञानानुदयात् इति परास्तम् ।

नापि समभिव्याहृतपदार्थसंसर्गाभावव्याप्यधर्मश्रून्यत्वम्, प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्या तदनिरूपणात् गेहनिष्ठघटाभावे प्रमिते घटोऽस्तीतिवाक्यात्तन्निश्चयेऽप्यन्वयज्ञानानुदयाच्च ।

नापि बाधकप्रमाणाभावः, अन्यच्च यद्बाधकं तदभावस्यायोग्येऽपि सत्त्वात् । नापि प्रकृतसंसर्गबाधकस्याभावः, प्रतियोगिसिद्ध्यसिद्धिव्याघातात् ।

न च प्रकृतसंसर्गे अन्यत्र सिद्धस्य बाधकप्रमाणस्याभावः, प्रकृतसंसर्गस्य प्रथमप्रतीतेः अयोग्येऽपि तत्सत्वाच्च ।

 

 

तत्र बाधकमप्यस्तीति चेत्, तर्हि प्रकृतसंसर्गबाधकस्याभावः तच्चाप्रसिद्धम् ।

अत एव तत्र बाधकस्याप्यनिरूपणम् ।

नापीतरपदार्थसंसर्गाभावप्रमाविषयत्वाभावोऽपदपदार्थे, केवलान्वयिन्यप्रसिद्धेः ।

एतेन यत्रासम्बन्धग्राहकं प्रमाणं नास्ति तद्योग्यमिति निरस्तम् ।

नापि बोधनीयसंसर्गाभावप्रमाविरहः, प्रतियोग्यप्रसिद्धेः, बोधनीयसंसर्गस्य प्रागप्रतीतेः योग्यता च न स्वरूपसत्युपयुज्यते इत्युक्तम्, अयोग्ये तत् सत्त्वस्यानिरूपणाच्च ।

अपि च स्वीयबाधकप्रमाविरहस्यायोग्येऽपि सत्त्वात् बाधकप्रमामात्रविरहस्य योग्येऽपि ज्ञातुमशक्यत्वात् परप्रमाया अयोग्यत्वात् ।

न च स्वरूपसन्नेवायं हेतुः, स्वीयबाधकप्रमाविरहदाशायां योग्यताभ्रमेण शाब्दभ्रमानुपपत्तेः, अन्वयप्रयोजकरूपवत्त्वेन बाधकप्रमामात्रविरहोऽनुमेय इति चेत् । न ।

सेकानान्विततोये द्रवद्रव्यत्वे सत्यपि बाधकसत्त्वेन व्यभिचारात् उपजीव्यत्वेन तस्यैव योग्यतात्वापत्तेश्च ।

न चैवमेवेति वाच्यम् ।

आकाङ्क्षासत्त्यन्वयप्रयोजकरूपवत्त्वे सत्यप्यनाप्तवाक्ये बाधकप्रमायामन्वाबोधात्, बाधकप्रमाविरहो हेतुरिति चेत्तर्ह्यावश्यकत्वात् सैव योग्यता ।

 

 

 

_________________________________________________________________________

 

 

 

योग्यतावादसिद्धान्तः

 

उच्यते बाधकप्रमाविरहो योग्यता, सा चेतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः । प्रमेयं वाच्यमित्यत्र प्रमेयनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्धं वाच्यत्वसंसर्गे तदभावः ।

 

वस्तुतस्त्वितरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावप्रतियोग् इतावच्छेदकधर्मशून्यत्वं योग्यता लाघवात् शक्यज्ञानत्वाञ्च ।

 

 

न च नरशिरःशौचानुमानबाधात् तदशौचबोधकशब्दात् अन्वयाबोध इति वाच्यम् ।

उपजीव्यजातीयत्वेन शब्दस्य बलवत्त्वात् तेनैव तदनुमानबाधात् ।

नन्वाकाङ्क्षासत्तिमत्त्वेन शब्दस्य प्रमाणता न तु योग्यतापि तन्निवेशिनो बाधाभावस्य प्रमामात्रहेतुत्वादिति चेत् ।

न ।

बाधे हि प्रमाणदोषोऽवश्यं वक्तव्यः, अन्यथा प्रमाणविषये बाधासम्भवात् यथानुमाने बाधादुपाधिकल्पनद्वारा व्याप्तिविघातः, निरूपाधौ बाधानवकाशात् ।

 

सेयं न स्वरूपसतो प्रयोजिका शाब्दभासोच्छेदप्रसङ्गात् ।

तन्निश्चयश्च न भवत्युपायाभावात् इति चेत् ।

न ।

संशय-विपर्य-प्रमासाधारणस्य योग्यताज्ञानमात्रस्य कारणत्वात् ।

अयोग्यताज्ञानस्य प्रतिबन्धकस्य सर्वत्राभावात् क्वचित्तन्निश्चयोऽपि योग्यतानुपलब्धा यथेह घटो नास्तीति ।

 

 

 

_________________________________________________________________________

 

 

आसत्तिवादपर्वपक्षः

 

आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः, सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः ।

अथ नानाविशेषणक-कर्म-कर्त्तृ-करणाधिकरण-क्रियादिक्रमिकपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत्, श्रौत्रप्रत्येकपदानुभवजन्यसंस्कारमेलकादेकदैव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः ।

न चान्यविषयकसंस्कारेण नान्यत्र स्मरणमिति वाच्यम् ।

वक्यार्थानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् ।

प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे ।

अथ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।

तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते&&

न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यम् ।

एवमपि प्रथममनन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरमं तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात् ।

अत्र वदन्ति, सन्निधिर्न पदजन्यैवान्यवबोधहेतुः द्वारमित्यादौ अध्याहृतेनापि पिधानादिना अन्वयबोधदर्शनात् ।

न च पिधेहीति शब्द एवाध्याह्रियते, अनुपयोगात् ।

अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् आवश्यकत्वाच्च ।

अर्थापत्तेरुपपादकविषयत्वात् ।

न च शब्दमात्रमुपपादकं, अपि तु तदर्थः, अवश्यकल्प्यार्थसाहचर्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः, अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशकिकल्पनापत्तेः ।

स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् ।

न ।

लक्षणानां व्यभिचारात् तवाप्याक्षिप्तेन कर्त्रान्वयबोधाच्च ।

अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात् ।

न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरहः, संस्कारतारतम्यात् पदविशेषस्मृतेरिति चेत् ।

न ।

आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य क्रृप्तत्वात् लाघवेनार्थाध्याहारात् ।

न च श्रुतपदानि लब्धप्रयोजनानीति कथमप्यध्याहृते तेषां तात्पर्यमिति वाच्यम् ।

श्रुतार्थान्वयानुपपत्त्या अध्याहृते

 

तात्पर्यात् ।

कथं तर्ह्येदनं पचतीत्यत्र समभिव्याहृतमात्रान्वयः कलायादेरपि स्मृतत्वात् इति चेत् ।

न ।

तात्पर्यनियमादित्यवेहि यत्परः शब्दः स हि शब्दार्थः, अन्यथा तवापि दैववशस्मृतकलायपदोपस्थापितेनान्वयबोधः स्यात् अयं देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहारभावेन कर्त्तुरनभिधानात् तृतीया स्यात् इति चेत् ।

न ।

अध्याहृतपचतिपदेनापि कर्त्तुरनभिधानात्, कर्त्तुसंख्याभिहितेति चेत् ।

न ।

देवदत्तस्य पाक इत्यत्रापि तृतीयापत्तेः, तात्पर्यतस्तच्च व्यवस्थेति चेत्, तुल्यम् ।

ननु द्वारं पिधेहीत्यादौ पिधानशब्दानुभवे पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् ।

न ।

अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावतत्पदत्वेन गौरवात् ।

एवं पिधानान्वयबोधेऽपि ।

 

अन्यथा गौण-लाक्षणिकयोरन्वयबोधो न स्यात् तयोरननुभावकत्वादिति ।।

 

 

_________________________________________________________________________

 

 

 

 

आसत्तिवादसिद्धान्तः

 

उच्यते, क्रियापदोपस्थापिता क्रिया, कारकपदोपस्थापितञ्च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रं अन्यथा द्वारं कर्मता पिधेहि, द्वारं पिधानं कृतिरित्यत्रापि क्रिया-कर्माध्याहार इवान्वयबोधप्रसङ्गः

 

क्रियायाः कर्मणश्चोपस्थितेस्तुल्यत्वात् ।

एवं विधपदोपस्थापिते परस्परमाकाङ्क्षा नस्तीति चेत्, तर्ह्याकाङ्क्षायां पदविशेषोपस्थापितत्वं तन्त्रं न तूपस्थितिमात्रं, अर्थविशेषेऽसाधुत्वान्नात्रान्वयबोध इति चेत्, , पिधेहीति पदं विना द्वारमित्यस्याप्यसाधुत्वात् तदर्थयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गौरवादपभ्रंशादप्यन्वयबोधाच्च ।

न चात्रासंसर्गाग्रहः, बाधकाभावात् ।

तस्मात् क्रिया पदस्य कारकपदेन कारकपदस्य क्रियापदेन सहान्वयबोधकत्वं न त्वेकं विना तृतीयानुपपत्तिः, नहि क्रियापदार्थयोगे द्वितीया, घट आनयनं कृतिरित्यत्रापि द्वितीयापत्तेः, तथा च पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं विना चतुर्थ्यनुपपत्तिः ।

यदि स्पृहयति पदार्थयोगे चतुर्थो तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पृहयतीच्छतिपदयोरेकार्थत्वात् ।

अथ साधुत्वार्थ द्वारं पुष्पेभ्य इत्यत्र पिधेहि-स्पृहयतिपदाध्याहारोऽनुमन्यते न त्वन्वयबोधार्थं तस्यान्वयप्रतियोगिविज्ञानादेवोपपत्तेरिति चेत्, तर्हि क्रियापदयोगं विना न कारकविभकिः, कारकपदयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहारः, केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्योपस्थितिरन्वयबोधौपयिको तस्मात् क्रिया-कारकपदोपस्थापितयोरेव क्रिया-कारकयोः परस्परमन्वय इति शब्दाध्याहार एव ।

कर्त्राक्षेपे तु वक्ष्यामः ।।

 

 

 

_________________________________________________________________________

 

 

 

तात्पर्यवादः

 

तात्पर्यधीनं शब्दप्रमाण्यं तत्र तत्परत्वं न तत्साध्यकत्वं पदार्थ-तत्संसर्गयोः शब्दासाध्यत्वात् ।

अथ तङ्गोचरप्रवृत्तिनिवृत्तिसाध्यकत्वं तत्परत्वं, तच्च भाव्यार्थस्य साक्षात् भूतार्थस्य तु प्रशंसा-निन्दावाक्यस्य प्रशस्तनिन्दितार्थप्रतिपादनद्वारा लाक्षणिकस्य लक्षणीयविषयप्रवृत्ति-निवृत्तिजनकत्वं तत्परत्वमिति चेत्, , तत्परत्वे तज्ज्ञानं जनयित्वा तत्र प्रवर्त्तकत्वं तत्प्रवर्त्तकत्वञ्च तत्परत्वमिति परस्पराश्रयात् ।

लाक्षणिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः स्वरूपाख्यानमात्रपरत्वेनापि पर्यवसानाञ्च ।

ननु तत्बुद्धिजनकत्वं तत्परत्वं प्रशंसा-निन्दावाक्यमपि प्रशस्त-निन्दितस्वार्थधीहेतुत्वेन तत्परमेव, तच्च ज्ञानं प्रशस्ते सर्वः प्रवर्तते निन्दिताञ्च निवर्तते इति स्वविषये प्रवृत्तिनिवृत्तौ जनयतीति तत्परमुच्यत इति चेत् ।

न ।

गौण-लाक्षणिकयोरनुभावकत्वात् तद्बुद्धिजनने तत्परत्वमित्यन्योन्याश्रयाच्च ।

तज्जननयोग्यत्वमिति चेत्, तर्ह्येकत्रोच्चारणे नानार्थे नानार्थपरत्वं लक्षणायाञ्च मुख्यार्थपरत्वं स्यात् योग्यतायाः सत्त्वात् ।

नापि तत्प्रतिपाद्यकत्वं, तात्पर्यं विना न तथेत्यन्योन्याश्रयात् ।

प्रशंसा-निन्दावाक्यस्य प्रवृत्त्याद्यप्रतिपादकत्वात् लाक्षणिकस्याप्रतिपादकत्वाच्च ।

अथ गङ्गापदं स्वार्थाविनाभावि तीरं प्रतिपादयत्तत्परमिति चेत् ।

न ।

मञ्चाः क्रोशन्तीत्यत्र तेन विनापि पुरुषे तात्पर्यात् गङ्गादिपदं मत्स्यादिपरं मुख्ये तीरपरञ्च स्यात् अविनाभावस्य तादवस्थ्यात् ।

मुख्ये बाधके सतीति चेत्, तर्हि मुख्यार्थपरतैव न स्यात् न स्याच्च गच्छ गच्छसीत्यत्र गमनाभावपरत्वं ।

उच्यते ।

तत्प्रयोजनकत्वं तत्परत्वं तदर्थश्च प्रतीतिः प्रवृत्ति-निवृत्ती च, प्रयोजनत्वञ्च न साध्यत्वंअन्योन्याश्रयात् ।

नापि प्रतिपाद्येच्छाविषयत्वं, यस्य यदिच्छाविषयः तं प्रतितत्परत्वापत्तेः ।

तदर्थसाथ्यत्वेन इच्छानियम इति चेत् ।

न ।

इह धूम इत्यत्र जन्य-ज्ञाप्यभेदेन साध्यस्य बहु विधतया वाक्यभेदप्रसङ्गात् पुमिच्छया नियन्तुमशक्यत्वात्, किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं, यः शब्दः वक्ता यदिच्छया प्रयुक्तः स तत्परः, सा चेच्छा

 

प्रतिपाद्यधी-प्रवृत्ति-निवृत्तिविषयेति तत्परत्वं ।

नानार्थात् श्र्लिष्टादनेकपदार्थान्वितैकक्रियापदात् मुख्यलाक्षणिकपराच्चावृत्त्या क्रमेणानेकपदार्थज्ञानं न त्वेकदैव, सकृदुच्चरितस्य सकृदर्थपरत्वनियमेनैकत्रोच्चरणे अनेकार्थपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वदन्ति ।

 

वयन्तु ब्रूमः ।

अनाकपदार्थप्रतीतीच्छया एकमुच्चारणं भवत्येव पुमिच्छायानियन्तुमशक्यत्वात् ।

यदि च तदुच्चारणं नानेकार्थपरं तदावृत्तिरपि न स्यात् तात्पर्यनिर्वाहार्थमात्रवृत्तिकल्पनात् ।

अन्यथैकपरेऽपि तदापत्तेः ।

अत एव तदुच्चारणस्य उभयपरतायां नावृत्तिकल्पणं तस्मात्तुल्यवदनेकार्थोपस्थितौ तात्पर्यादिज्ञाने युगपदनेकान्वयबोधो भवति सामग्रयास्तुल्यत्वात् प्रथममेकस्यान्वयबोधो न तदन्यस्येति नियन्तुमशक्यत्वच्च ।

अथ विवादध्यासितमक्षपदोच्चारणं एकपदैकशक्तिविषयमेकमेवानुभावति एकत्रोच्चारणे नानाशक्त्या नानार्थाननुभावकं नानार्थत्वात् एकपरनानार्थपदवदिति चेत् ।

न ।

अनेकार्थानुभवसामर्ग्रीवसत्त्वेन बाधितत्वात् सामग्रीरहस्योपाधित्वाच्च ।

अत एवाक्षमानयेत्युक्ते भिन्नप्रकरणादिना भिन्ने तात्पर्यप्रमायां भ्रमे वा प्रतिपाद्ययोरेकदैवावृत्तिं विनानेकार्थप्रतीतिर्न तु तत्रैको विलम्बते, एवं घटं पटं वा आनयेत्यत्रानयनस्योभयपरत्वे एकदैवान्वयबोधो नत्वावृत्तिः वाक्यभेदस्त्वर्थभेदात् न ज्ञानभेदात् ।

गङ्गायां जलं घोषश्च प्रतिवसतीत्यत्र गङ्गापदस्य युगपत्प्रवाह-तीरयोस्तात्पर्यग्रहे तयोर्द्वयोरप्येकदोपेस्थितौ जल-घोषयोरेकदैवान्वयबोधः ।

न च युगपद्वृत्तिद्वयापत्तिः, इष्टत्वात्, तात्पर्याद्वि वृत्तिः, न तु वृत्त्यनुरोधात् तात्पर्यं, गौणलाक्षणिकयोरुच्छेदापत्तेः तात्पर्यनिर्वाहर्थं वृत्तित्वेन तयोः कल्पनात् ।

मुख्य-लाक्षिणिकयोरेकैकमात्रपरत्वे तु युगपद्वृत्तिद्वयविरोधः ।

अनेकान्वयबोधपरत्वे वृत्तिद्वयविरोधस्य दोषत्वे परिभाषापत्तेः, यत्र मुख्यार्थे शीघ्रत्वेन प्रथममन्वयबोधः अनन्तरं लाक्षणिकान्वयबोधः तत्रावृत्तिरेव तस्मात् युगपत्तात्पर्यग्रहे सति नावृत्तिः किन्त्वनेकार्थपरत्वे सत्येव यत्र तात्पर्यग्रहकमादन्वयबोधक्रमः तत्रावृत्तिः प्रथमोच्चारणस्य पर्यवसितत्वादिति ।

एवञ्च लोके क्प्तत्वात् वेदेऽपोदं तात्पर्यमिति तस्य पौरुषेयत्वम् ।

 

 

अत्र मीमांसकाः यथोच्चारणपूर्वत्वात् उच्चारणं वेदे परतन्त्रं तथा तात्पर्यमपि तात्पर्यपूर्वकमेवेति परतन्त्रं न तु कस्यापि प्रथमं तात्पर्यं अनादित्वात् पूर्वपूर्ववाक्यार्थज्ञानेच्छयोच्चारणमुपजीव्याग्रिमस्य तदिच्छयोच्चारणात् तदिच्छया तदुच्चारणमेव हि तत्परत्वं लोक-वेदसाधारणं, सा चेच्छा स्वतन्त्रा परतन्त्रा वेति न कश्चिद्विशेषः, तदवधारणाञ्चानादिमीमांसापरिशोधितन्यायाद्वेद इत्युभयवादिसिद्धं, अतस्तात्पर्यानुरोधेन वेदस्य न पौरुषेयत्वम् ।

नन्वर्थज्ञानं विनोच्चरितवेदात् कथमर्थयोः वाक्यार्थज्ञानं विना तदिच्छयोच्चारणाभावात्, प्रतिपुरुषमुच्चारणभेदादिति चेत्, तर्हि पठ्यमानभारतादपि तथाभूतादर्थधीर्न स्यात् व्यासेन यत्प्रतीतीच्छया उच्चारणं कृतं तज्जातीयत्वात् अर्थज्ञानं विनापि पठ्यमानभारतार्थधीरिति चेत्, तर्हि वेदेऽपि तुल्य, तत्तात्पर्यकजातीयत्वस्य नियामकत्वात् अन्यथा पठ्यमानवेदात्तवाप्यर्थधीर्न स्यात् ईश्वराप्रणीतत्वात् ।

अथ वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् इति चेत्, को वेदः, अनुगतधर्माभावेन तस्य शाखासु नानार्थत्वात्, तथाहि न मुख्यवेदपप्रयोगविषयोवेदः मुख्यार्थाकथनात् ।

नापि शाखासमुदायः, तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेश्च ।

नापि स्वर्गकामादिवाक्यं, स्मृति-भारतादेरपि तथात्वात् ।

 

 

नापि सन्दिग्धकर्तृकवाक्यं, वादिनोर्निश्चयात्,

वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थस्य संशय इति चेत्, तर्ह्यनुमानाभ्यां तस्य संशयोमध्यस्थसंशयप्रश्र्नानन्तरञ्चानुमानमित्यन्योन्याश्रयः ।

नापि विवादाध्यासितं वाक्यं, अनुगतधर्मं विना विवादस्याप्यभावात् भारतादावपि तत्समावाञ्च ।

नापि महानजनानां वेदाकारानुगतव्यवहारात् वेदत्वं जातिः, देवदत्तीयत्वाद्यनुमापकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् ।

किञ्च पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा, अध्यापक-तदुभयधीजन्यत्वेन सिद्धसाधनात् ।

नाप्युच्चारणस्य सादित्वं, प्रत्युच्चारणस्य सादित्वात् ।

नापि स्वतन्त्रपुरुषप्रणीतत्वं, पठ्यमानवेदभारतयोस्तदभावात् ।

तज्जातीयः स्वतन्त्रपुरुषप्रणीत इति चेत्, तर्हि पठ्यमानभारतं व्यासस्य न ममेति कथं स्यात्, स्वातन्त्र्यञ्च यद्युच्चारणव्यक्तौ तदा ममाप्युच्चारणसमान्ये न व्यासस्यापि ।

किञ्च स्वतन्त्रपुरुषप्रणीतजातीयत्वं यदि साध्यते तदाद्यभारते स्मृतौ च वाक्यत्वमनैकान्तिकं, न हि तज्जातीयं स्वतन्त्रपुरुषप्रणीतमिति साध्यमनिर्धारितविशेषं जीवी क्वचिदस्तीति वदिति चेत् ।

 

 

न ।

पठ्यमानभारते व्यभिचारात् ।

अथार्थं प्रतीत्य तदर्थपरतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वं तस्य प्रथममावश्यकत्वात्, अत एवानुच्चारितोऽपि सौ मौनिश्र्लोकः पौरुषेय इति चेत् ।

न ।

अर्थज्ञानवताध्यपकेन सिद्धसाधनात्, अन्यथा पठ्यमानवेद-भारताभ्यां व्यभिचारात् ।

अत एव वेदत्वं स्वतन्त्रपुरुषप्रणीतवृत्ति वाक्यवृत्तिधर्मत्वात् भारतत्ववदिति निरस्तम् ।

स्वतन्त्रप्रणीतत्वं हि वाक्यार्थगोचरयथार्थज्ञानचिख्यापयिषयोच्चरणं तथा च

 

तथाविधाध्यापकेन सिद्धसाधनम् ।

एतेन वक्तृत्वानुवक्तृत्वयोर्भेदस्य लोकसिद्धत्वात् सवक्तृकत्वं साध्यमिति निरस्तं ।

नापि सजातीययोच्चाणानपेक्षोच्चारणं पौरुषेयत्वं पठ्यमानवेदे बाधात् भारते व्यभिचारात् ।

उच्यते, शब्द-तदुपजीविप्रमाणातिरिकप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम्, ईश्वरीयप्रमायाः अजन्यत्वात्, वेदार्थस्यानुमानादिविषयत्वेऽपि अनुमानादेर्वेदोपजीवकत्वात् ।

 

 

स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् वेदार्थं प्रतीत्य तत् प्रणयनात् ।

सजातीयोच्चारणनपेक्षोच्चारितजातीयत्वं पौरुषेयत्वं, आद्यभारतेऽपि तज्जतीयत्वान्न व्यभिचारः ।

अथवा वेदत्वं सजीतीयोच्चाणानपेक्षोच्चरितवृत्ति प्रमाणतावच्छेदकवाक्यवृत्तिधर्मत्वात् स्मृतित्ववत् ।

यद्वा वेदाः शब्दाजन्यवाक्यार्थगोचरयथार्थज्ञानजन्याः प्रमाणशब्दत्वात् भारतवत् ।

न च पठ्यमाने वेदे बाधः भारते मन्वादिस्मृतौ च व्यभिचारः तेषां द्विकर्तृकत्वात् तादृशज्ञानजन्यजातीयत्वं वा साध्यं, तवाप्येतदभावादेव वेदेऽपौरुषेयत्वव्यवहारः ।

नन्वप्रयोजकमिदं वाक्यार्थगोचरयथार्थज्ञानपूर्वकत्वमेव शब्दप्रमाण्ये तन्त्रं न तु तादृशज्ञानस्य शब्दाजन्यत्वमपि गौरवात् , अन्यथा वेदेऽपि तव द्विकर्तृकत्वेन प्रमाण्यं स्यात् लोके तथा दर्शनात्, एवञ्च अनादिमीमांसासिद्धन्यायेनावगततात्पर्यात् वेदार्थं प्रतीत्य पूर्वपूर्वाध्यपकेन उच्चरिताद्वेददुत्तरोत्तरस्याप्यध्ययनतदर्थप्रतीतिरित्यनादितैवातः किं स्वतन्त्रपुरुषेण तत्प्रयोजनस्य परतन्त्रादेव सिद्धेः ।

किञ्च पूर्वकलो न वेदशून्य इत्युद्देश्यप्रतीतेरसिद्धेः नांशतः सिद्धसाधनं, तथा पूर्वकालीनं वेदाध्ययनं गुर्वध्ययनपूर्वकं अध्ययनत्वात् इदानीन्तनाध्यायनवत् ।

न च लिप्यनुमितवेदाध्ययनेन व्यभिचारः, लिपेरध्ययनपूर्वकत्वात् ।

न चैवं भारताध्ययनमपि तथा स्यात्, तस्य भारतादावेव व्यासादिकर्तृकत्वेन कथनादिति ।

उच्यते ।

वेदप्रामाण्याधीनं तत्प्रामाण्यमित्यत्माश्रयः ।

 

 

न च पूर्ववेदप्रामाण्याधीनमुत्तरवेदप्रमाण्यमिति व्यक्तिभेदमादाय नात्माश्रय इति वाच्यम् ।

एवं तत्पूर्वस्यापि तत्पूर्वप्रामाण्यात् प्रामाण्यमित्यनवस्थानात् ।

अनादित्वादयमदोष इति चेत् ।

न ।

मूलभूतप्रमाणान्तराभावात् अन्धपरम्परापातात् ।

स्वतः प्रमाणं वेद एव सर्वत्र वेदे मूलमिति चेत् ।

न ।

सर्वेषामेव परवेदापेक्षत्वेन स्वतः प्रमाणत्वाभावात् ।

अत एवाचारात् स्मृतिः स्मृतेराचार इत्यत्र विश्वासवीजपरानपेक्षमूलभूतप्रमाणाभावादन्धपरम्पराभयेन तत्र वेदमूलकत्वकल्पना ।

अनादिमहाजनपरिग्रहादनादिवेदप्रवाहप्रामाण्यावधारणेऽपि तन्निर्वाहकेतरानपेक्षमूलभूतप्रमाणाभावेनानाश्वास एव अन्यथा स्मृत्याचारयोरप्येवं प्रमाणण्यावधारणे प्रमाणमूलकत्वकल्पना न स्यात् ।

तस्मादाश्वासवीजपरानपेक्षेश्वरप्रत्यक्षमूलकत्वादेव वेदस्य प्रामाण्यं महाजनप्ररिग्रहादवधर्यते ।

एतेनानुमानमपि निरस्तम् ।

मूलभूतप्रत्यक्षं विना वेदप्रामाण्यानुपपत्त्या साध्याभावसिद्धौ बाधात् ।

 

 

ननु वेदो न पौरुषेयः अस्मर्यमाणकर्तृकत्वादिति बाधकमस्त्विति चेत् ।

न ।

कपिल-कणाद-गौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्वस्मरणस्य प्रतीयमानत्वात् ।

न च मूलभूतानुभवाभावात् स्मरणानुपपत्तिः, पौरुषेयत्वानुमानादेवानुभवात् ।

अस्मरणमेव तत्र बाधकमिति चेत् ।

न ।

एवं सत्यस्मरणाननुभवयोरन्योन्याश्रयात् ।

 

 

अग्रे तदर्थस्मरणाभावेऽपि प्रमाणस्यानुभावकम् ।

&&तस्मात्तपस्तेपानाच्चत्वारो वेदा अजायन्त ऋचः सामानि जज्ञिरे&& इति कर्तृश्रवणात् प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते&& इत्यादिकर्तृस्मरणाच्च ।

पौरुषेयत्वे बाधकं विना अर्थवादमात्रत्वस्य वक्तृमशक्यत्वात् ।

&&स्वयम्भूरेष भगवान् वेदो गीतस्त्वया पुरा ।

शिवाद्या ऋषिपर्यन्ताः स्मर्त्तारोऽस्य न कारकाः&& इति महाभागवतपुराणीयवाक्यस्य श्रुतिविरोधेनान्यच्च तात्पर्यात् ।

न च कार्यपरमेव प्रमाणं, कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् सकर्तृकत्वार्थवादस्य स्वर्ग-नरकार्थवादस्येव ीश्वरमुपासीत&& इति विधिशेषत्वाच्च ।

साधयिष्यते सिद्धार्थस्य प्रामाण्यम् ।

न चैवमानन्दोऽपीश्वरे स्यादिति वाच्यम् ।

तत्र मानान्तरविरोधात् ।

पुरुषस्य भ्रम-प्रमादादिभूयिष्ठत्वेन वेदे नाश्वास इति चेत् ।

न । धर्मिग्राहकमानेन नित्यसर्वज्ञत्वेन सिद्धे तत्र दोषाभावादिति ।

 

 

 

_________________________________________________________________________

 

 

 

 

शब्दनित्यतावादपूर्वपक्षः

 

ननु तथाप्यप्रयोजकं पौरुषेयत्वानुमानं नित्यनिर्देषत्वेनैव तत्प्रामाण्योपपत्तेरिति चेत् ।

न ।

वर्णानां अनित्यत्वेन तत्समूहस्य सुतरामनित्यत्वात् ।

न च तदसिद्धं, तथाहि वर्णात्मकः शब्दोऽनित्यः समवेतत्वे सत्युत्पत्तिमत्त्वात् घटवत् ।

न च हेत्वसिद्धिः, उत्पन्नो गकारः हट्टायामुत्पद्यमानोऽस्ति कोलाहल इति प्रत्ययात् ।

न च व्यञ्जकाभावात् प्रागनुपलब्धस्योपलब्धिमात्रं तस्य, उत्पन्नो गकार इति प्रत्ययात् ।

न चायमौपाधिकः, अन्योत्पत्तावगृह्यमाणायामपि तदनुभवात् ।

न च स्मर्यमाणारोपः, बाधकाभावात् ।

अन्यथा घटोत्पत्तिरपि न सिद्ध्येत् ।

 

यत्तु श्रोत्रानुविधानात् पदं शृणोमीत्यबाधितानुव्यवसायात् श्रोत्रादन्येन ग्रहीतुमशक्यत्वाञ्च श्रोत्रग्राह्यैवानुपूर्वी सा च धममानकालीनप्रागभावप्रतियोगित्वं टस्येति प्रागभावप्रतियोगित्वमुत्पत्तिमत्त्वं वर्णस्य प्रत्यक्षमिति, तन्न, घज्ञानानन्तरज्ञानविषयत्व टस्यानन्तर्यं तयोरानुपूर्वी सा च मनसैव गृह्यते घटपटज्ञानयोरिव ।

तदुपनीता च श्रोत्रविषयः ।

ननु स एवायं गकार इति प्रत्यभिज्ञाबाधितमिदमित्येकैका एव गकारादिव्यक्तयः ।

यद्यपि प्रत्यभिज्ञायां नित्यत्वं न विषयस्तथापि नाशकत्वाभिमतशब्दान्तरादीनां अन्तरासम्भवेऽपि तावत् कालीनतां गकारस्य गृह्णातीति तावत्कालं स्थिरञ्चैनं कः पश्चान्नाशयिष्यतीति पराभिमताशुविनाशित्वतिरेकान्नित्यतायामेव पर्यवस्यति ।

न च धर्मिणो गकारस्य भेदेऽपि एकजातीयत्वेन प्रत्यभिज्ञा, तथा सति तज्जातीयोपमितिः स्यान्न तु स एवायमिति ।

अथ तारत्व-मन्दत्व-विरुद्धधर्माध्यस्तविषयत्वेन सा न प्रमाणम् ।

न च तारत्वादीनां स्वाभाविकत्वं विरुद्धत्वञ्चासिद्धं, मन्दस्तारो गकारस्तारान्मन्दोऽन्य इत्यनन्यथासिद्धप्रत्यक्षात् तत्सिद्धेः ।

न ह्यपां शैत्य-द्रवत्वे स्वाभाविके इत्यत्र प्रत्यक्षादन्यत् प्रमाणम् ।

तत् किं यो यद्गतत्वेन भासते स तद्धर्म एव तथा सति रक्तः पटः लोहितः स्फटिकः इत्यादावपि तथा स्यादविशेषात्, , रक्तत्वादीनामन्यधर्मत्वस्थितौ स्फटिकादीनाञ्च तद्विरुद्धधर्मत्वे स्थिते जपाकुसुमादेरन्वय - व्यतिरेकानुविधानाद् बाधेन तत्र भ्रान्तत्वात् ।

न चेह तारत्वादेरन्यधर्मत्वेनोपस्थितिः ।

नापि गकारादीनां तद्विरुद्धधर्मवत्त्वम्, नाप्यन्यस्य तारत्वादिधर्मणोऽनुविधानम् ।

न चावश्यं स्वीकृतवायोरेव धर्मास्तारत्वादयोगकारादिगतत्वेन भासन्ते इति वाच्यम् ।

स्पर्शाग्रहे त्वचो व्यापाराभावेन त्वचा तदग्रहात् ।

न च श्रवसा तद्गहः, अवायवीयत्वेन वायुमात्रधर्माग्राहकत्वाच्चक्षुर्वत् ।

तारत्वादयो वा न वायुधर्माः श्रवणत्वात् कादिवात्, वायुर्वा न श्रवणमात्रग्राह्यधर्मोमूर्त्तत्वात् पटवत्, अत एव न तारत्वादयो वायुधर्मध्वनिधर्माः वायुधर्मस्य ध्वनेरग्रहात् ।

न च ध्वनिरूपः शब्दो नभोवृत्तिरेव तथा सति तद्धर्मतारत्वादिग्रहः श्रवसेति वाच्यम् ।

तारोऽयं गकार इत्यत्र ध्यनीनामस्फुरणं, तत्कारणाभावाच्च ।

न च व्यक्त्या विना जातिस्फुरणं, तस्या व्यक्तिसमानसंवित् संवेद्यत्वात् ।

न च स्मर्यमाणतारत्वाद्यारोपः, बाधकाभावात् प्रथमतस्तारत्वाद्यग्रहप्रसङ्गाच्चेति ।

मैवं ।

तारत्वादयो न गकारादिजातयः गत्वादिना सङ्करप्रसङ्गात् ।

न च नानैव तारत्वं, ताराकरानुगतप्रत्ययाभावप्रसङ्गात् ।

न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकशब्दवृत्तिजातित्वेन नानातरत्वेष्ठनुगमः, तदप्रतिसन्धानेऽपि तारत्वानुगतप्रत्ययात् ।

तारत्व-मन्दत्वे च न शब्दवृत्तिजाती सप्रतियोगिकत्वात् ।

नापि तारत्व-मन्दत्वयोर्विरोधः, य एव गकारस्तार आसीत् स एवेदानीं मन्द इति समयभेदेन वक्तृभेदेन च तयोरेकत्वप्रतीतेः ।

तारोऽयं न तारतरस्तारान्मन्दोऽन्य इति भेदप्रतीतिरस्तीति चेत् न, धर्मिणोऽभेदे भासमाने विशिष्टधर्मिभेदप्रतीतेर्धर्मभेदविषयत्वात् ।

एकत्र घटे लोहितोऽयं न श्यामैदानीमिति प्रतीतिवत् ।

न च तीव्रेण गकारेण मन्दगकाराभिभावात् तयोर्भेदः न हि तदेव तदभिभावकं,तस्यैव तेनैव तदैव ग्रहणाग्रहणयोर्विरोधात् इति वाच्यम् ।

तारत्वव्यञ्जकवायोर्बलवत्त्वेन मन्दत्वव्यञ्जकवाय्वभिभावात् मन्दत्वस्याग्रहणात् ।

सन्तु वा तार-मन्दरूपादयोभिन्ना एव गकारास्तत्प्रत्ययभिज्ञाने बाधकाभावात् । तस्मात् वायुधर्मा एव तारत्वादयः शब्दगतत्वेन भासन्ते दर्पणधर्मा इव सुखादौ तद्ग्रहणञ्च स्पर्शपुरस्कारेण कर्णशष्कुलीत्वगिन्द्रियेण तार-मन्दजनकवायूनं त्वयाप्युत्कर्षापकर्षस्योद्भूतस्पर्शस्य च स्वीकारात् श्रोत्रेणैव वा । चक्षुरादेर्यन्न वायुधर्मग्रहस्तत्रायोग्यत्वमुपाधिः, अन्यथा श्रोत्रेण स्वगुणो न गृह्येत इन्द्रिये तथा दर्शनात्, चक्षुर्वा न पार्थिवरूपग्राहकं अपार्थिवेन्द्रियत्वात् रसनवत् इत्यद्यपि स्यात् ।

अथ योग्यो योग्येन गृह्यते स्वगुणः परगुरणो वा, योग्यता च फलबलेन कल्पते, तर्हि श्रोत्रस्यापि वायुधर्मग्रहे तुल्यम् ।

न च तारो गकार इत्यत्र वायोरप्रतीतिः, वायुत्वेनाप्रतीतावपि तारत्वादिनैव तत्प्रतीतेः, यथा अग्नित्वेनप्रतीतावपि अयोगोलके लोहित इति प्रतीतिः ।

ननु वायु-शब्दयोस्त्वचा श्रोत्रेण वा ग्रहे केन तारोऽयं गकारैत्यारोप इति चेत्, , उभयेन्द्रियग्राह्ययोरसंसर्गाग्रहात् संसर्गव्यवहारः ।

अस्तु वा त्वगिन्द्रियोपनीतस्य श्रोत्रेणारोपः श्रोत्रेणैव वा तारत्वग्रहोऽपीत्युक्तं, उत्पत्तिमत्त्वञ्चासिद्धं तत्प्रतीतेः श्रुतपूर्वोऽयं गकार इति प्रत्यभिज्ञानबाधितत्वात् ।

ननु प्रत्यभिज्ञैव तया बाधिता गत्वजात्यौपधिकोऽभेदप्रत्ययो गकारे सम्भवतीत्युक्तमिति चेत्, , गत्वजातेरसिद्धेः भेदे भासमाने ह्यभेदप्रतीतिर्जातिमालम्बते ।

न च गकारभेदप्रतीतिरस्ति, तारत्व-मन्दत्वे अपि न भेदहेतू य एव तारः स एवेदानीं मन्द इति प्रत्यभिज्ञानात्, गकारानित्यत्वेऽपि तथा सम्भवतीति चेत्, तर्हि नित्यत्वेऽपि कर्णशष्कुलीत्वगिन्द्रियोपनीतवायुधर्मोत्पत्तेरुपाधित्वं सम्भवति ।

न च वायोरप्रतीतिः, उत्पन्नत्वेनैव तत्प्रतीतेः लोहितत्वेनेव जपाकुसुमस्य स्फटिके ।

 

 

 

 

 

51

 

 

 

 

 

अस्तु वा प्रागनुलभ्यमानत्वे सति उपलभ्यमानत्वेन उत्पन्नस्य सादृश्येन स्मृतोत्पत्तिमत्त्वारोपः ।

न चैवं घटादावपि नोत्पत्तेः सिद्ध्येदिति वाच्यम् ।

कुलालव्यापारानन्तरमनुभूयमानधटस्य तद्व्यापारात् प्रागनुभूयमानेन घटेन नाभेदोभासते किन्तु भेद एवेति तत्र प्रागसत्त्वे सत्त्वं सिध्यति, गकारे तूत्पत्तिप्रतीत्यनन्तरं कण्ठताल्वादिव्यापारात् पूर्वमनुभूयमानगकारेणाभेदप्रत्ययात् पूर्वमनुभूयगकारेणाभेदप्रत्ययात् दीपवत् स व्यञ्जक एव ।

अथ शब्द उत्पद्यते उत्कर्षवत्त्वे सति अपकर्षवत्त्वात् माधुर्यवत् अत एवानित्यत्वमिति चेत् ।

न ।

तारत्व-मन्दत्वयोरुत्कर्षापकर्षयोर्गकारे पूर्वन्यायेनासिद्धेः सिद्धौ वा जातिसङ्करभयेनोत्कर्षापकर्षयोर्जात्योः रसत्व-शब्दत्वव्याप्ययोर्नानात्वेन रसशब्दसाधारण्याभावात् ।

अत एव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसामान्यमुत्कर्षः तत्प्रतिबध्यसाक्षात्कारविषयतावच्छेदकसामान्यमपकर्ष इति साधारणो हेतुरपास्तः ।

तारत्वादेर्गकारजातित्वासिद्धेः ।

साधनावच्छिन्नसाध्यव्यापकपूर्त्तगुणतत्वस्याश्रौत्रत्वस्य चोपाधित्वात् अप्रयोजकत्वाच्च ।

न हि कारणाधीन एव उत्कर्षोऽपकर्षश्च, परममहति परमाणौ च परिमाणे प्रत्येकं सत्त्वात् ।

न चोभयस्यैकत्र सत्त्वं कारणप्रयोज्यं, एकैकवद्द्वयोरपि प्रत्येकमेकत्वात् ।

स्यादेतत् ।

श्रोत्रव्यापारानन्तरमिदानीं श्रुतपूर्वो गकारो नास्ति विनष्टः कोलाहल इति प्रतीतेः प्रत्यक्षमेव शब्दानित्यत्वं विनाशिभावत्वेनोत्पत्तिमत्त्वानुमानद्वा, प्रत्यक्ष्रप्रतियोगिकाभावत्वेन हि प्रत्यक्षत्वं ध्वंसस्य घटध्वंसवत् न तु विनाशग्रहे प्रतियोगिसमवायिप्रत्यक्षत्वं तन्त्रं धर्माभावस्य प्रत्यक्षत्वापत्तेः ।

तदिन्द्रियाग्राह्येऽपि प्रतियोगिसमवायिनि गन्ध-रसाभावयोग्रहणाच्च ।

नोभयं गौरवात् स्मृतघटसंयोगध्वंसप्रत्यक्षत्वापाताच्च ।

न च प्रतियोगियोग्यत्वस्य तन्त्रत्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यात् इति वाच्यम् ।

आश्रयनाशजन्यस्य तस्य ग्राहकेन्द्रियसन्निकर्षाभावात् ।

किञ्च यस्य सत्त्वं यत्रानुपलब्धार्थः ।

अत एव पृथिवीत्वाभावो जलीयपरमाणौ न प्रत्यक्षः प्रत्यक्षश्च वायौ रूपाभावः ।

अस्ति च तथा शब्दे तस्य सत्त्वे समवधाने च प्रतीतिप्रसङ्गात् ।

निरधिकरणाभावप्रतीतिर्नास्तीति चेत्, , इहेदानीं शब्दो नास्तीति प्रतीतेः ।

तस्मात् यत्राधिकरणे देशे समये वा प्रतियोग्यत्र वर्तते तत्र तदभावो निरूप्यते ।

अत एव सद्भ्यामभावो निरूप्यते इत्युक्तं, शब्दाभावस्य च स्वत एवेन्द्रियसन्निकृष्टत्वात् नाश्रये सन्निकर्षापेक्षा ।

इन्द्रियविशेषणतया नाभावग्रहणमिति चेत् ।

न ।

अयोग्यत्वस्यापधित्वात् ।

अन्यथा गुणस्य संयुक्तसमवायेन ग्रहणदर्शनात् न समवायेन शब्दग्रहः स्यादिति ।

मैवं ।

सत एव हि शब्दस्य व्यञ्जकविरहादनुपलब्धिमात्रं न तु ध्वंसः, तत्तद्वयापेतरसकलतदुपलम्भकसमवधाने तदनुपलब्धिरूपयोग्यानुपलब्धेरभावात् ।

प्रतियोग्युपलम्भकव्यञ्जकवायुस्पर्शध्वंसोपाधिकैव ।

वायुर्नोत्पादकः किन्तु व्यञ्जकः इत्यत्र किं विनिगमकमिति चेत् ।

न ।

इदानीं श्रुतपूर्वो गकारो नास्ति विनष्टः कोलाहलैति प्रतीत्यनन्तरं पुनः श्रवणे श्रुतपूर्वोऽयं गकारः पुनः स एवायं कोलाहल इति प्रत्यभिज्ञानमेव, घटध्वंसप्रतीत्यनन्तरञ्च स एवायं घट इति न प्रत्यभिज्ञानमिति तत्र विनष्टप्रतीत्याध्वंस एव सिध्यति ।

अत एव तारत्व-तारतरत्व-मन्दत्व-मन्दतरत्वप्रतीतीनां भ्रमत्वकल्पनमित्यपास्तम् ।

एतासु सतीष्प्यभेदप्रत्यभिज्ञानात् ।

स्यादेतत् ।

शब्दः प्रयत्नसाध्यः तदनभिव्यञ्जकत्वं हि इन्द्रियसम्बन्धप्रतिबन्धकापनायकत्वादिन्द्रियसन्निधापकत्वाद्वा कुड्योत्सारणेनेव पटादीनां, तदुभयमपि शब्दे न सम्भवति नित्यसमवेतत्वेनावरणापनयन-सन्निधानपनयोरभावात् ।

नापि श्रोत्रसंस्कारात्, इन्द्रियसंस्कारस्य उन्मीलनालोकादेः सकृदिन्द्रयसम्बन्धयोग्यसर्वार्थोपलब्ध्यनुकूलसंस्कारजनकत्वं दृष्टं तद्वद्वायुरपि सकृदेव सर्वशब्दोपलब्ध्यनुकूललं श्रोत्रे संस्कारमादध्यात्, तथाच सर्वशब्दोपलब्धिः स्यात् ।

तदुक्तं सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाश्येत् ।

घटायोन्मीलितं चक्षुः पटं न हि न बुध्यते&&

अथान्वय - व्यतिरेकाभ्यां कार्ये प्रतिनियतजनकजन्यत्ववच्छब्देऽपि प्रतिनियतव्यञ्जकव्यङ्याः एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् घटैकत्वपरिमाणवत् ।

न चावयवसंयोग-बहुत्वव्यञजकाव्यङ्येनावयविनोत्पलत्वव्यञ्जकदीपाव्यङ्येन तन्नीलिम्ना घटवृत्तिपृथक्त्वव्यञ्जकाव्यङ्येनैकत्वेन वा व्यभिचारः । अवयवसंयोगावयविनोर्नीलत्वोत्पलत्वयोश्चाव्याप्यव्याप्यवृत्तिनोरुत्पलत्वस्य चाधिकवृत्तित्वेनैकावच्छेदेन वृत्त्यभावात् ।

बहुत्व-पृथक्त्वव्यञ्जकव्यङ्यत्वं, अत एव नीला बलाकेत्यत्र

 

रूप-परिमाणयोरर्द्धनिखातवंशसङ्ख्या-परिमाणयोर्वा न व्यभिचार इति ।

मैवं ।

वर्णाः प्रतिनियतव्यञ्जकव्यङ्याः आश्रयेण सह समानेन्द्रियाग्राह्यत्वात् गन्धवत् इत्यापाततः सत्प्रतिपक्षत्वात् ।

 

 

वस्तुतस्तु अनन्यथासिद्धप्रत्यभिज्ञानबलेननाभेदसिद्धौ प्रतिनियतव्यञ्जकव्यङ्यत्वसाधकस्यै बलवत्त्वं, शब्दस्य शब्दजनकत्वञ्च शब्दनाशकत्वं वीचीतरङ्गन्यायेनोत्पत्तिकल्पनञ्च कल्पनमेव शब्दस्य शब्देऽजनकत्वादनाशकत्वाञ्च अन्त्याद्यशब्दवत् ।

एतेन सामान्यवत्त्वे सत्यस्मदादिवहिरिन्द्रियजप्रत्यक्षत्वात् इत्यपास्तं, प्रत्यभिज्ञानबाधात् शब्दत्व-गत्वादेरसिद्धेश्च, तस्माच्छब्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवत्, श्रोत्रग्राह्यत्वात् शब्दत्ववत्, विशेषगुणान्तरासमानाधिकरणैकवृत्तिगुणत्वात् समयपरिमाणवत्, पृथिवीतरनित्यभूतविशेषगुणत्वात् अपाकजत्वे सति नित्यैकसमवेतत्वात् जलपरमाणुरूपवत्, अव्यासज्यवृत्तित्वे सति अनात्मविभुगुणत्वात् कालपरिमाणवत्, विपक्षे बाधकञ्च प्रत्यभिज्ञानमेवेति ।

 

 

_________________________________________________________________________

 

 

 

 

शब्दानित्यतावादसिद्धान्तः

 

अत्रोच्यते ।

गकारादिव्यक्तयोनैकैकाः,अस्ति च शुक-सारिका-मनुष्यप्रभवेषु स्त्री-पुंसतद्विशेषप्रभवेषु च गकारादिषु स्फुटतरवैलक्षण्यात् स्वरूपतोभेदप्रथा इक्षुक्षीरादिमाधुर्यवत् ।

न चेयमौपाधिको भेदप्रतीतिः, न हि विदितकुङ्कुमस्य कुङ्कुमारुणा तरुणीति वत् स्त्री-पुंसप्रभवत्वमानुभविकमुपाधिः, इन्द्रियासन्निकर्षेण स्त्री-पुंसादिभेदमविदुषोऽपि शब्दभेदप्रत्ययात्, यतोऽनुमापयन्ति शुकशब्दोऽयं स्त्रीशब्दोऽयमित्यादि अन्यथान्योन्याश्रयात्, तत्प्रभवत्वे ज्ञाते भेदप्रत्ययस्तस्माच्च तदनुमानमिति ।

न च कृपाणान्वय-व्यतिरेकानुविधानात् कृपाणे मुखदीर्घत्ववत् औपपत्तिकमौपाधिकत्वं, अन्यानुविधानाभावात् ।

अथ व्यञ्जकावायोरेव वैलक्षण्यं शुकादिगकारगतत्वेन भासते वायोरुपलब्धिस्तेनैव रूपेणेति चेत् ।

न ।

गकारगतत्वे बाधकाभावात् ।

न चाभेदप्रत्यभिज्ञानं बाधकं, न हि य एव शुकशब्दः स एव स्त्रीशब्द इति प्रत्यभिज्ञानं, अन्यथा तेषु भेदज्ञानाभावेन वक्तृविशेषानुमानं न स्यात् ।

न चाभिव्यञ्जकवायोरेव वैलक्षण्यं शुकाद्यनुमापकं, तस्य गकारावृत्तित्वात् तत्र चारोपे अनुमितेर्भ्रान्तत्वापातात् ।

तस्मात् यथा कृष्णा गौः शुक्ला गौरिति भेदे भासमाने गकारानुगतप्रतीतिर्गोत्वमालम्बते तथा शुकादिगकारेषु भेदे भासमानेऽयं गकारोऽयमपि गकार इति बुद्धिर्गत्वमालम्बते इति प्रत्यभिज्ञा च भेदप्रथा चोपपद्यते ।

किञ्च गत्वादिकं यदि न जातिस्तदा कोलाहलप्रत्ययो न स्यात् तथा हि नगरादौ बहुभिर्वर्णानामेकदोच्चारणे दूरस्थेनानभिव्यक्तगकारादिवर्णविभागं कोलाहलमात्रं श्रूयते ।

न च तत्र वर्णान्यस्य ध्वनिरूपस्य शब्दस्य श्रुतिः सम्भवति, तदभिव्यञ्जकभेरीताडनादेरभावात् ।

न च वर्णाभिव्यञ्जका एव ध्वनिव्यञ्जकाः, सन्निधानेऽपि श्रूयमाणे वर्णे तच्छ्रवणप्रसङ्गात् ।

न च वर्णाभिव्यञ्जकवायुभिरेव दूरे ध्वनिमात्रमभिव्यज्यते, कव्यञ्जकस्य गव्यञ्जन इव वर्णव्यञ्जकस्य ध्वनिव्यञ्जनेऽसामर्थ्यात् तत्समर्थशङ्खादेरभावाच्च ।

न च तत्र शब्दत्वमेवप्रतीयते न शब्दः, व्यक्त्यग्रहे जात्यग्रहात् ।

न चाभिव्यञ्जको वायुरेव कोलाहलत्वेन प्रतीयते, शब्दत्वेन प्रत्ययात् सन्निधावपि तथा प्रत्ययप्रसङ्गाच्च ।

गकारादिग्रहेऽपि तेषां परस्परभेदाग्रहात् कोलाहलधीरिति चेत्, , तेषु वैधर्म्याभावात् तदभावेऽन्योन्याभावस्याभावात् स्वरूपग्रहणात् समीपे बहुगकारेषु भेदाभावेन तदग्रहे कोलाहलधीप्रसङ्गाच्च ।

अनेकवर्णोच्चारणस्य तद्धेतुत्वे दूरेऽपि तदप्रत्ययापत्तेः ।

तस्मादवश्यं गत्वादिजातिरूपेया यदग्रहे गकारादिग्रहेऽपि कोलाहलबुद्धिव्यपदेशौ ।

अस्ति च शब्दस्य कोऽपि च जातिविशेषः श्रोत्रग्राह्यः यस्मात् प्राच्यादिदिग्देशविशिष्टशङ्खप्रभवत्वमनुमीयते, अव्यपदेशस्यत्वेऽपि इक्षुक्षीरादिमाधुर्यावान्तरवत्तत्सत्त्वात् ।

अन्यथा दिग्दशविशिष्टशङ्खादीनां ग्रहे श्रोत्रश्यासामर्थ्यात् तत्प्रतीतिर्न स्यादेव ।

तथापि गत्वादिना परापरभावानुपपत्त्या शुकादिगकारादिषु न जातिविशेषा इति चेत्, शुककारादिषु कत्वादिव्याप्या नानाजातिर्भिन्ना तया प्रत्येकं शुककारादिषु एका जातिरस्ति शुकप्रभवत्वाद्यनुमापिका तद्व्यवहारकारिका वा, गत्वादिना सङ्करप्रसङ्गात्, गत्वन्तु न नाना अननुगतत्वेन ततोऽनुगतव्यवहारानुपपत्तेः ।

अत एव तारत्वमपि गत्वादिव्याप्यं नाना न तु गत्वं, तन्निश्चयेऽपि गत्वसन्देहश्च व्याप्यतावच्छेदकत्वेनानुगतेन नानातारत्वेष्ठनुगतव्यवहारसम्भवात्, तदज्ञाने व्यवहारासिद्धेः ।

तारत्व-मन्दत्वे न जाती सप्रतियोगिकत्वात् इति चेत्, न तारत्व,तारतरत्वादयौत्कर्षादिरूपा जातिविशेषा एव ते चाश्रये गृह्यमाण एव गृह्यन्ते न तूत्कर्षावध्यपेक्षाः यथा मधुरतरत्वादय उत्कर्षव्यवहारं इतरसापेक्षाः कुर्वन्ति तथा मन्दाद्यपेक्षया तारत्वादिव्यवहारं, उत्कर्षस्तु जातिरूपादन्योऽसम्भावित एव गकारे तु नैवं, अनन्यथासिद्धभेदप्रत्ययबलेन वक्तृविशेषानुमानबलेन च तत्सिद्धेर्गत्व-कत्वव्याप्यतन्नानात्वस्वीकारात् ।

 

तवापि वायुवृत्तित्वे शुकादिककार-गकारादिव्यञ्जकवायूनां विजातीयत्वं वाच्यं तथा च ककारव्यञ्जकवायुत्वव्याप्यं यदि शुकवर्णाभिव्यञ्जकवायुत्वं तदा शुकगकारव्यञ्जकवायौ न स्यात्,अथ व्यापकं तदा सर्व एव कव्यञ्जकवायवः शुकवर्णाभिव्यञ्जकवायवः स्युस्तस्माद्वायुवृत्तित्वेऽपि तासां नानात्वमावश्यकं ।

अथास्तु स्त्री-पुंसादिगकारभेदस्तथापि यावद्वक्तृभेदमनन्ता एव नित्या वर्णाः प्रत्यभिज्ञानादिति चेत्, अत्युत्पाद-विनाशप्रतीतौ सत्यामपि स एवायं गकार इति प्रत्यभिज्ञा, अस्ति हि तदनन्तरमप्युत्पाद-विनाशप्रथा ।

न चोत्पादप्रतीत्यभेदप्रत्यभिज्ञयोरन्यतरस्य परस्परं विहायान्यद्बाधकमस्ति, न वानयोः परस्परं बाध्य-बाधकभावे विनिगमकं येनैकभ्रान्तत्वेनाविरोधः स्यात् ।

कथं वा भेदाभेदज्ञानयोरन्यत्रावधारितं परस्परप्रतिबन्धकत्वं परिभूय प्रथमं तयोरेकसत्त्वेऽप्यपरोत्पत्तिप्रसङ्ग इति सङ्कटप्रविष्टत्वेन प्रत्यभिज्ञानं शब्दनित्यत्वे प्रमाणयितुं न शक्यते ।

नन्वेवमुत्पत्ति ।

नन्वेवमुत्पत्तिमत्त्वादिनाप्यनित्यत्वसिद्धिः कथं, इत्थं, उत्पादादिबुद्धि-प्रत्यभिज्ञयोरप्यवश्यं विषयभेदः, एकविषयत्वे विरोधेनैकानन्तरमपरानुत्पत्तिप्रसङ्गात् ।

एवञ्च भेदे भासमाने प्रत्यभिज्ञायाः सजातीत्वं विषयो न व्यक्त्यभेदः ।

न चैवं तज्जातीयोऽमिति स्यात् न तु सोऽयमिति वाच्यम् ।

तज्जातीयत्वप्रतीतेरपि सोऽयमित्याकारदर्शनात् यथा सैवेयं गाथा तदेवेदमौषधं बहुभिः कृतं मयापि प्रत्यहं क्रियमाणमस्तीत्यादौ ।

न हि तावद्वर्णमात्रमानुपूर्वी, जरा-राज-नदी-दीनादिषु तन्नानात्वात्, किन्तु तदुच्चारणानन्तरमुच्चारणं तज्ज्ञानानन्तरं ज्ञानं वा तच्च नानेति तद्वती गाथापि नानैव ।

नचाभेदे भासमाने उत्पादादिबुद्धिरेवान्यस्योत्पादादिकमवगाहते, गाकारगतत्वप्रतीतेर्भ्रान्तत्व प्रसङ्गात् ।

न चेष्टापत्तिः, अभेदे भासमाने तद्विरुद्धधर्मवत्त्वभ्रमानुदयात् विनिगमकाभावेनोभयस्यापि यथार्थत्वाञ्च, कुतस्तर्हि

 

तस्या अभेदो विषयः, यत्र प्रथमं न भेदप्रथा अत एव भेदसत्त्वे तदज्ञानात् क्वचित् सा भ्रान्ता, तस्माद् यत्र भेदप्रतीतिस्तदितरबाधकाबाध्या तत्र प्रत्यभिज्ञैव न भवति भवन्ती वा तज्जातीयत्वमालम्बते, न तु भ्रान्ता, विशेषदर्शने भ्रमानुदयात् ।

अपि च यथा शङ्खादिध्वनीनां उत्पत्ति-विनाशप्रत्ययात् तारत्वादिविरुद्धधर्मसंसर्गाच्चानित्यत्वे सैवेयङ्गुर्जरीत्यादिप्रत्यभिज्ञा तज्जतीयत्वविषया तथा वर्णप्रत्यभिमापि ।

अन्यथा ध्वनयोऽपि नित्याः स्युः

उत्पत्ति-विनाश-तारत्वादिप्रतीतीनां प्रत्यभिज्ञानबलेनौपाधिकत्वात् । न च वर्णेषु तारत्वेनैव भासमाना ध्वनयौपाधयः सम्भन्ति, न तु ध्वनिषु वर्णास्तज्जनककण्ठताल्वाद्यभिघाताभावादिति वाच्यम् ।

वर्णोच्चारणदशायामपि गुर्जरीकादिजनकानामभावात् ।

तस्मात् उत्पत्ति-विनाश-तारत्वादिप्रत्ययस्य प्रत्यभिज्ञानस्य च तुल्यत्वे द्वयोरपि नित्यत्वमनित्यत्वं वा ।

न चोभयोरपि नित्यत्वमेव, उक्तन्यायेन प्रत्यभिज्ञायास्तज्जातीत्वविषयत्वात् ।

किञ्च यदि व्यङ्यः शब्दः स्यात् तदा बाह्यालोकाभावे घटस्येव व्यञ्जकाभावे शब्दस्यानुपलम्भात् तत्संशयः स्यात्, न त्विहेदानीं शब्दो नास्तीति निश्चयः तस्माद्वर्णो न नित्योऽनित्यो वा सत्त्वे सत्युत्पत्तिमत्त्वात्, अस्मदादिबहिरिन्द्रिय-ग्राह्यत्वे सति जातिमत्त्वात्, अस्मदादिप्रत्यक्षगुणत्वाद्वा, आत्मैकत्वप्रत्यक्षपक्षे प्रत्यक्षविशेषगुणत्वात्, व्यापकसमवेतप्रत्यक्षविशेषगुणत्वात्, अनात्मप्रत्यक्षगुणत्वात्, अव्याप्यवृत्तित्वात्, ईश्वरज्ञानञ्च न तथा, तत्प्रयोककारणाभावात्, बहिरिन्द्रियव्यवस्थाहेतुगुणत्वात्, भूतप्रत्यक्षगुणत्वात्, उत्कर्षापकर्षर्पशब्दप्रवृत्तिनिमित्तजातिमत्त्वाद्वेत्यादि, रसत्वादिव्याप्यजातेर्नानात्वेऽपि तादृशप्रवृत्तिनिमित्तत्वस्य साधारण्यात् ।

न चात्र साधनावच्छिन्नस्य पक्षधर्मावविच्छन्नस्य वा साध्यस्य व्यापकः स्पर्शवत्समवेतत्वं उपाधिः, सर्वत्र वर्णात्मकशब्दपक्षीकरणे व्योमगुणेष्ठनित्येषु ध्वनिषु साध्याव्यापकत्वात् स्पर्शवत् पदस्य पक्षमात्रव्यावर्तकत्वेन पक्षेतरत्वाच्चेति ।

यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमुहरूपाणां पदानां, कुतस्तराञ्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाञ्च तत्समूहस्य वेदस्येति ।

 

 

_________________________________________________________________________

 

 

 

 

उच्छन्न-प्रच्छन्नवादः

 

तथापि परतन्त्रपुरषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यत्वं ब्रूमः इति चेत्, , स्मृत्याचारानुमितानां शाखानामुच्छेददर्शनात् ।

स्यादेतत्, विवादपदमपूर्ववोधिका स्मृतिः स्मृत्यर्थानुभवजनकवेदमूला अविगीत-महाजनपरिगृहीतस्मृतित्वात् प्रत्यक्षवेदमूलकस्मृतिवत्, वेदमूलकत्वञ्च वेदजन्यानुभवजन्यत्वं ज्ञानाद्वारा ज्ञायमानस्यैव वेदस्य स्मृतिहेतुतयानुमानं, कुविन्दस्येव ज्ञानादिव्यवहितस्य पटे, न तु कारणाकारणता, वेदे सत्येव तत्प्रतिसन्धाने स्मृतिप्रणयनात्, वेदार्थस्मृतिता च प्रसिद्धिसिद्धा, स्मृत्यर्थश्च स्मृतित एव उपस्थितः ।

न च स्मृत्यर्थबोधकवेदानुमाने स्मृत्यर्थरूपवेदार्थस्य विषयत्वात् वेदोऽनुवादकः ज्ञानान्तरोपनीतस्य विशेषणत्वेन विशिष्टबुद्धिसम्भवात्, पाककृतौ मानसप्रत्यक्षायां पाकस्य

 

संज्ञासंज्ञिज्ञाने संज्ञायाज्ञानयथार्थत्वे तदनुव्यवसाये भ्रमविषयस्येव, अन्यथा भ्रान्त-भ्रान्तिज्ञसङ्करापत्तिः न तु शब्दार्थोऽनुमानस्य विषयः तस्यासिद्धत्वेनाजनकता स्मृत्यव्यापकत्वात् ।

स च वेदो नित्यमनुमेय एवानुमितादेवार्थमवधार्य स्मृतिप्रणयनसम्भवात् ।

नन्वासंसारमपठितस्य न वेदत्वं उत्पत्तितोऽभिव्यक्तितो मौनिश्र्लोकवदभिप्रायतो वानुपूर्वीहीनवर्णमात्रस्य निरर्थकत्वात् । ज्ञानजनकसमभिव्याहारस्यानेकत्वे विशेषाननुमानाञ्चेति चेत् ।

न ।

स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य वेदस्य स्मृत्यर्थानुभावकत्वात् ।

 

 

न हि शाब्दबोधे नियतपदानुपूर्वी हेतुः, व्यभिचारात् ।

पदस्य वर्णाविशेषानुपूर्वीनियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषत्वेन हेतुत्वं हस्त-करादिपदानां प्रत्येकं व्यभिचारात् ।

किन्त्वव्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य लाघवादावश्यकत्वाच्च, तदर्थज्ञापकत्वज्ञानार्थमेव क्वचिद्वर्णक्रमस्वरविशेषाणामुपयोगः ।

अत एव वर्णलोपादौ कुशमानयेति सकारसन्देहे लिपावुच्चारणे वा हस्त-करसन्देहेऽपि वाक्यार्थबोधः ।

ननु क्रमिकपदवत्त्वं वाक्यत्वम् ।

न चात्र पदक्रमः, अनुच्चार्यमाणतयोच्चारणाधीनस्य युगपदनुमीयमानतया बुद्यधीनस्य वा तस्याभावादिति चेत्, न हि क्रमिकपदवत्त्वं वाक्यत्वं, गौरव इत्यादावभावात् किन्तु विशिष्टार्थपरशब्दत्वं तच्चात्राप्यस्त्येव ।

अथानुच्चार्यमाणस्य न वाक्यत्वं न वा अर्थानुभावकत्वमिति चेत्, , लिप्यनुमितानामपि वाक्यत्वात् अर्थबोधकत्वाच्च, लिपितुल्या च स्मृतिः ।

किञ्च वाक्यमुच्चार्यते न तूच्चारणाद्वाक्यत्वं, अन्यथा वाक्यमुच्चारयेत्यत्रानन्वयापत्तिः, अनुच्चारितमौनिश्र्लोकश्च वाक्यं न स्यादुच्चारणदशायाञ्च वाक्यत्वे वाक्यस्यासत्त्वमेव स्यात् एकदा तावत्पदानां उच्चारणाभावात् ।

 

 

न च कृत-क्रियमाण-करिष्यमाणोच्चारणस्य वाक्यत्वं, समुदाये प्रत्येकस्याभावात् ।

तस्मादर्थविशेषज्ञापकत्वेनैव ज्ञातादर्थविशेषधीः ।

अत एवास्ति वह्निलिङ्गमितिशब्दात् प्रतीतेः धूमे वह्नेरनुमानं, न तु तदर्थज्ञापकत्वेन ज्ञातात् पदादर्थज्ञानमात्रं स्यात् न तु संसर्गधीः, घटः कर्मत्वमानयनं भावना तद्बोधकमिति ज्ञानेऽपि घटमानयेतिवाक्यादिवान्वयबोधाभावात् ।

एवञ्चान्वयप्रकारकर्मत्वाद्युपस्थापकविभक्त्यादिमत्पदविशेषस्य तदुत्थापिताकाङ्क्षादेश्च ज्ञानं वाक्यार्थदीहेतुरतो न तैर्विना ज्ञापकत्वमात्रेण ज्ञातादर्थधीः, हस्त-करादिसन्देहे कुशमानयेत्यादौ विभक्त्यादिज्ञानादेव वाक्यार्थानुभव इति, मैवं, न हि तत्तद्विभक्त्यादिमत्पदविशेषत्वेन वाक्यार्थधीहेतुत्वं, अननुगमात्, किन्तु घटः कर्मत्वमित्याद्यन्वयविरोधिपदाजन्यपदार्थोपस्थितिस्तथा सा चेहाप्यस्ति ।

वस्तुतस्तु नानापदात् पदार्थोपस्थित्यनन्तरं वाक्यार्थबोधे तथैव सामाग्री अनुमितवेदाद्वाक्यार्थानुभवे विलक्षणैव सा स्मृत्यर्थज्ञापकत्वेनैव ज्ञातस्य स्मृत्यर्थानुभावकत्वात् धर्मिग्राहकप्रमाणेन तस्य तथैव सिद्धत्वात् ।

तवेश्वरस्येवाशरीरस्य कर्तृत्वे ।

अत एव वर्णपद विभक्त्यादिविशेषघटितत्वेनाज्ञातस्याखण्डस्य सखण्डस्य वा वाक्यार्थानुभावकत्वात् पदार्थस्थनीयस्तस्य वाक्यार्थस्तत्र वर्णसमूहः पदं पदसमूहोवाक्यमित्यत्रापि ततो ग्रहः प्रमाणशब्दत्वमात्रेण तस्य सिद्धेः अन्यथा क्प्तहेतुं विना सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासिद्धिः सिद्धौ वा बाधः तेन विनैव सर्वानुपपत्तिं परिभूय तदनुभावकत्वस्य धर्मिग्राहकमानसिद्धत्वात् ।

अत एव क्वचित् स्तुति-निन्दाभ्यां कल्पितविधि-निषेधकवेदार्थमधिगत्य प्रवृत्ति-निवृत्ती ।

अन्यथा विधि-निषेदकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत् पदस्यानुमातुमशक्यत्वात् न ततोर्&थधीः स्यात् ।

तथापि वक्तृज्ञानानुमानानन्तरमिवानुमितानुमानादेव वाक्यार्थसिद्धलौकिकवाक्यवद्वेदस्यानुवादकत्वं स्यादिति चेत्, , धर्मिग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनाभावात्, अनुमानस्य व्याप्त्यादिज्ञानापेक्षितत्वेन विलम्बितत्वात् ।

न च वेदस्यापि योग्यतादिज्ञानापेक्षिततया विलम्बः, तन्निरपेक्षबोधकस्यैव धर्मिग्राहकमानसिद्धत्वात् योग्यतादि विशिष्टस्यैवानुमानाद्वा, एवं मङ्गलाचारस्याविगीतशिष्टाचारत्वेन कर्तव्यतामनुमाय सा कर्तव्यता वेदबोधिता अलौकिकाविगीतशिष्टाचारकर्तव्यतात्वादिति तद्बोधकत्वेनानुमितवेदात् कर्तव्यताधीस्ततः प्रवृत्तिः ।

ननु स आचारोवेदबोधितकर्तव्यताकः तादृशाचारत्वादित्यनुमितवेदात् तत्कर्तव्यताधीः, विभक्त्यादिकविनानुमितवेदात् तत्कर्तव्यताज्ञानाभावात् मङ्गलमाचरेदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यभावात्, तस्मात् तस्य कर्तव्यतामनुमानय तद्बोधकवेदानुमानं, प्रथमं कर्तव्यताज्ञानेऽपि वेदानुमानं अविनाभावात् ।

न च तत एव प्रत्यक्षवेदानुमानं, प्रत्यक्षत्वे उच्छेदानुपपत्तेः शाखान्तरवत् ।

 

 

यत्तु अष्टकाः कर्तव्याः कार्या अष्टका इत्येवं रूपमेव वाक्यमनुमेयं उपस्थितत्वात्, एवञ्च तत्रैवार्थे प्रतिपुरुषमन्यान्यवेदानुमानं, प्रत्यक्षत्वे उच्छेदनुपपत्तेः शाखान्तरवत् ।

 

यत्तु अष्टकाः कर्तव्याः कार्या अष्टका इत्येवं रूपमेव वाक्यमनुमेयं उपस्थितत्वात्, तत्रैवार्थे प्रतिपुरुषमन्यान्यवेदानुमानं न दोषाय एकार्थानेकपदोपस्थितौ वानेकवाक्यानुमानमेवेति, तन्न, आचारतो वेदानुमाने मङ्गलमाचरेदित्याद्यन्यतरोपस्थितौ नियमाभावात् ।

अनेकवेदकल्पने च स्वानुभवविरोधः, मनुस्मृतिमूलञ्चानेकं वाक्यं नावश्यकमिति कथमाधुनिकोऽनेकमनुमिनुयात् ।

न च स्मृत्यर्थबोधकोवेदः स्मृतिसदृश एवानुमेयः नियमतः स्मृतेरुपस्थितत्वात् इति वाच्यम् ।

तदर्थस्मृतेरपि नानाप्रकारकत्वात् तस्य च प्रदोषादौ अनुच्चरितवेदस्येव वेदत्वं श्रोत्रग्रहाणार्हतया च शब्दत्वं वाक्यत्वमर्थबोधकत्वादित्येतदेव युक्तं स्मृत्याचारेण चानुमितौ वेदोर्&थं बोधयतीति पूर्वपूर्वेणानुमितवेदात् उत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा शब्दार्थशक्तिग्रहवत् स्वतः प्रमाणमूलकत्वात् ।

तस्मान्नित्यानुमेयत्वं वेदस्य न तूच्छेद इति । अत्रोच्यते ।

उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः न सामग्षन्तरकल्पनं अत एव नाश्रयासिद्धिबोधो वा स्मृत्याचारानुमितवेदस्यास्माभिरभ्युपगमात् ।

इदानीञ्च स्मृतेरर्थं प्रतीत्याचाराञ्च कर्तव्यतामनुमाय प्रवृत्तिः ।

न चैवं किं वेदेनेति वाच्यम् ।

तुल्यत्वात् अविनाभावाच्च तत्कल्पनं तुल्यं तथाच स्मृत्याचारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलात् प्रत्यक्षवेदमूलकत्वसिद्धिः ।

अन्यथा तस्यानुभावकत्वाभावेन मूलत्वानुपपत्तेः ।

तस्मात् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्, अन्यथा सामग्रयन्तरकल्पने गौरवप्रसङ्गः ।

ननु स्तुति-निन्दार्थवादेन कल्पितात् विधि-निषेधकवाक्यात् कथमर्थमवगम्य प्रवृत्ति-निवृत्ती, न हि तत्र वर्ण-पद-विभक्ति-विधिप्रत्ययक्रमविशेषाणामनुमानं सम्भवति, व्यभिचारादिति चेत्, , स्तुति-निन्दावाक्याभ्यां प्रवृत्ति-निवृत्तिहेतुरर्थ एव कल्पते ।

लाघावात् ।

न तु विधायक-निषेधकवाक्यं गौरवात् उक्तदोषाच्च, यत्र चार्थवादादेव तदर्थावगमः तरति मृत्युमि&&त्यादौ तत्र न कल्पनापि ।

अथ तस्याध्ययनविषयत्वे शाखान्तरवत् बहुभिर्मेघाविभिराध्यात्मिकशक्तिसम्पन्नैर्घियमाणशाखाया उच्छेदासम्भव इति चेत्, , एकस्य न सकलशाखाध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने शाखोच्छेदसम्भवादेकानाधीताया अपराध्ययनविषयत्वनियमे मानाभावात् ।

यद्यपि वेदसहस्रशाखाविदो व्यसादयः सन्त्येव, तथाप्यध्ययनाभाव एव शाखोच्चेदः ।

ननु शाखोच्छेदे वर्ण-पदवाक्यहानिशङ्कया प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमात्रं लुप्येतेति चेत्, , श्रूयमाणमात्रस्यैव महानजपरिगृहीतत्वात् तन्मात्रबोधिताङ्गतिकर्तव्यतयैव शिष्टैरनुष्ठीयमानत्वाच्च तदर्थनिश्चयात् ।

न च उच्छिन्नशाखाबोधितेकर्तव्यताशङ्कया एकस्मिन्नपि कर्मण्यनाश्वसप्रसङ्गः, नानाशाखेतिकर्तव्यतापूरणीयत्वात् तस्येति साम्प्रतं, सन्ति हि तत्तत्कर्मणि नानाशाखाबोधितसकलेतिकर्तव्यताबोधनायैनमेव कालक्रमभाविनमनाश्वासमशङ्कमानैर्मर्षिभिः प्रणीता महाजनपरिग्रहीताः स्मृतयैति नानाश्वासः ।

अन्यथा एकस्य सकलशाखानवगमात् शाखान्तरबोधितेतिकर्तव्यतासंशयेनैकशाखातो नार्थनिश्चयः स्यात् ।

 

यत्तु विभक्त्यादिमत्तत्पदानां तत्समुदायानाञ्च प्रत्यक्षत्वन्तेष्ठपि कश्चिद्वेदः तत्रायं समुदायो वेद इत्यनिश्चय एव नित्यानुमेयार्थः, वेदत्वं वा तत्रानुमेयमिति, तन्न प्रत्यक्षवेदातिरिक्तवाक्ये तदभियुक्तानां महाजनानां वेदत्वाभावनिश्चयात् ।

अत एव वेदत्वं तत्रनानुमेयं बाधात् विशिष्य पक्षाज्ञानाञ्च धर्मवेदनाजनकत्वञ्च वेदत्वं नानुमेयं तज्जनकत्वस्य प्रत्यक्षत्वात्, नाध्ययनविषयत्वं तदभावात्, नजातिरनभ्युगमादिति ।

 

 

स्यादेतत् ।

स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्तदेव त्वसिद्धं, तथा हि वेदसमानार्था महाजनपरिगृहीता च स्मृतिः स्वार्थोस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुमाने लिङ्गं तथाच प्राथम्यात् साध्यप्रसिध्यर्थसुपजीव्यत्वाञ्च स्मृतेरेवापूर्वादिवाक्यार्थज्ञानमस्तु किं वेदन तदर्थस्य स्मृतित एव सिद्धेः अपूर्वस्यापि शब्दैकगम्यत्वेन स्मृतितोज्ञातस्य ज्ञापकत्वेनानुवादकतापत्तेश्च, सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधारावश्यिकी ।

अन्यथा मनुस्मृतेः पूर्वन्तवापि वेदानुमानं न स्यात् ।

सर्वा च स्मृतिः स्मृतिजन्यवाक्यार्थप्रमाजन्यत्वेन महाजनपरिग्रहीतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा च स्मृतिः स्मृतिमूलं नानुमिता अनुमितवेदवत्तस्याननुभावकत्वात् ।

वेदार्थस्मृतिताप्रसिद्धिस्तु प्रत्यक्षवेदमूलस्मृतिसाहचर्येण भ्रमात् प्रत्यक्षवेदाबोधितलोभ-न्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलकत्वं कल्पयति ।

अथ स्मृतिरिव तद्वेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत्, एवं वेदार्थताप्रसिद्धिरपि ।

अन्यथा महाजनपरिगृहीतानादरे वेद-स्मृत्योरपि प्रामाण्यं न स्यादिति चेत्, , यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात्, क्प्तलोभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च तत्र तत्प्रसिद्धौ विगानं महाजनानामिति चेत्, , अत्रापि मूलान्तरसम्भवाद्विप्रत्तिपत्तेश्च

 

विगानमेव तेषां ।

अत एव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं ।

न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं, वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन ।

न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः मन्वादिस्मृतित्वेन पूर्वमहाजनपरिग्रहेणोत्तरोत्तरेषां परिग्रहादनुष्ठानाद्युपपत्तेः, एवं होलाकाद्याचारेऽपि वेदलिङ्गेनैव कर्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः ।

अविगीतालौकिकविषयकशिष्टाचारस्य वेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन भोजनाद्याचारोऽपि वेदमूलः स्यात्, वेदं विनापि तत्कर्तव्यताधीसम्भवात् न तदर्थं वेद इति इहापि तुल्यम् ।

अचार-कर्तव्यतानुमानयोरनादित्वेनाचाराणां कर्तव्यत्वानुमानमूलकत्वात् नान्धपरम्परा ।

न च पूर्वानुमानसापेक्षमुत्तरानुमानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् सा, व्याप्ति -पक्षधर्मतावत्त्वेन सर्वेषां स्वतन्त्रप्रमाणत्वात् ।

नापीतरप्रामान्याधीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापत्तेः ।

एतेन विवादपदमाचारो निरपेक्षप्रमाणमूलकः अविगीतमहाजनाजारत्वात् प्रत्यक्षवेदमूलाचारवदिति निरस्तं ।

अनुमानस्य निरपेक्षप्रमणत्वात् प्रमाणमूलत्वनैव हेतोरुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च ।

न च सापेक्षत्वेन न प्रमाणता, व्याप्त्यादिसत्त्वात् ।

न च सापेक्षत्वेन न प्रमाणता, व्याप्त्यादिसत्त्वात् ,

अन्यथा प्रमाणे नैरपेक्षस्य वैयर्थ्यात् ।

न चाचारे वेदमूलत्वप्रसिद्धेस्तदनुमानं, असिद्धेः व्यभिचारादन्यथोपपत्तेश्च ।

न च वेदमूलत्वेनैव महाजनपरिग्रहात्तथा, न हि वेदमूलोऽयमिति कृत्वा महाजनानां तत्परिग्रहः, वेदमूलत्वस्य प्रथमं ज्ञातुमशक्यत्वाच्छक्यत्वे वा किमनुमानेन ।

न च वेदमूलत्वेनैव महाजनप