To Search in Text
step-1
step-2
Press Control + F
की-वर्ड की खोज के लिये : -
step-1
step2.
कण्ट्रोल एफ दबाएँ।.
हितोपदेशः (Mula Hitopadesh)
मङ्गलाचरणम्
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः |
जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ||1||
श्रुतो हितोपदेशोयं पाटवं संस्कृतोक्तिषु |
वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ||2||
विद्या-प्रशंसा
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् |
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ||3||
सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुरनुत्तमम् |
अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ||4||
संयोजयति विद्यैव नीचगापि नरं सरित् |
समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ||5||
विद्या ददाति विनयं विनयाद् याति पात्रताम् |
पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ||6||
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये |
आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ||7||
यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् |
कथा-च्छलेन बालानां नीतिस्तद् इह कथ्यते ||8||
मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिरेव च |
पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ||9||
अथ कथा-मुखम्
अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् | तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिरासीत् | स भूपतिरेकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव्
अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् |
सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः ||10||
यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता |
एकैकम् अप्यनर्थाय किम् उ यत्र चतुष्टयम् ||11||
इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास |
कोर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः |
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ||12||
अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः |
सकृद् दुःख-कराव् आद्यावन्तिमस्तु पदे पदे ||13||
किं च्
वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं
वरं जातः प्रेतो वरम् अपि च कन्यावजनिता |
वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्
न वाविद्वान् रूप-द्रविण-गुण-युक्तोपि तनयः ||14||
स जातो येन जातेन याति वंशः समुन्नतिम् |
परिवर्तिनि संसारे मृतः को वा न जायते ||15||
अन्यच्च
गुणि-गण-गणनारम्भे
न पतति कठिनी स-सम्भ्रमाद् यस्य |
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ||16||
अपि च्
दाने तपसि शौर्ये च यस्य न प्रथितं मनः |
विद्यायाम् अर्थ-लाभे च मातुरुच्चार एव सः ||17||
अपरं च्
वरम् एको गुणी पुत्रो न च मूर्ख-शतैरपि |
एकश्चन्द्रमस्तमो हन्ति न च तारा-गणैरपि ||18||
पुण्य-तीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् |
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ||19||
तथा चोक्तं
अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च |
वश्यश्च पुत्रोर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ||20||
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः |
वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ||21||
ऋण-कर्ता पिता शत्रुर्माता च व्यभिचारिणी |
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ||22||
यस्य कस्य प्रसूतोपि गुणवान् पूज्यते नरः |
धनुर्वंश-विशुद्धोपि निर्गुणः किं करिष्यति ||23||
हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु |
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ||24||
तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् यतः
आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर्नराणाम् |
ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ||25||
यतः
धर्मार्थ-काम-मोक्षाणां यस्यैकोपि न विद्यते |
अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ||26||
यच् चोच्यते
आयुः कर्म च वित्तं च विद्या निधनम् एव च |
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ||27||
किं च्
अवश्यं भाविनो भावा भवन्ति महताम् अपि |
नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ||28||
अन्यच्च
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा |
इति चिन्ता-विष-घ्नोयम् अगदः किं न पीयते ||29||
एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् | पुरुषकारौत्कार्ष्यम् आह्
यथा ह्य् एकेन चक्रेण न रथस्य गतिर्भवेत् |
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ||30||
तथा च्
पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते |
तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ||31||
न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः |
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ||32||
अन्यच्च
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति |
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति कोत्र दोषः ||33||
यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति |
एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ||34||
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः |
न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ||
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः |
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||36||
तथा चोक्तं
माता शत्रुः पिता वैरी येन बालो न पाठितः |
न शोभते सभा-मध्ये हंस-मध्ये बको यथा ||37||
रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः |
विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ||38||
अपरच्च
पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ |
न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः ||39||
एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् | राजोवाच्भो भोः पण्डिताः ! श्रूयतां मम वचनम् | अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः यतः
काचः काञ्चन-संसर्गाद् धत्ते मारकतीर्द्युतीः |
तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ||40||
उक्तं च्
हीयते हि मतिस्तात हीनैः सह समागमात् |
समैश्च समताम् एति विशिष्टैश्च विशिष्टताम् ||41||
अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिरिवाब्रवीत्देव महाकुल-सम्भूता एते राजपुत्राः | तत् मया नीतिं ग्राहयितुं शक्यन्ते | यतः
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् |
न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ||42||
अन्यच्च
अस्मिंस्तु निर्गुणं गोत्रे नापत्यम् उपजायते |
आकरे पद्य-रागानां जन्म काच-मणेः कुतः ||43||
अतोहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि | राजा स-विनयं पुनरुवाच |
कीटोपि सुमनः-सङ्गाद् आरोहति सतां शिरः |
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ||44||
अन्यच्च
यथोदय-गिरेर्द्रव्यं सन्निकर्षेण दीप्यते |
तथा सत्-सन्निधानेन हीन-वर्णोपि दीप्यते ||45||
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः |
आस्वाद्य-तोयाः प्रवहन्ति नद्यः
समुद्रम् आसाद्य भवन्त्य् उपेयाः ||46||
तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ||
------------------------
अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितोब्रवीत्भो राज-पुत्राः शृणुत्
काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् |
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ||1||
तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि | राज-पुत्रैरुक्तमार्य ! कथ्यतां | विष्णु-शर्मोवाच्शृणुत यूयम् | सम्प्रति मित्र-लाभः प्रस्तूयते | यस्यायम् आद्यः श्लोकः
असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः |
साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ||2||
राजपुत्रा ऊचुःकथम् एतत्
सोब्रवीत्स्ति गोदावरी-तीरे विशालः शाल्मली-तरुः | तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति | अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि | लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् | तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्ट-दर्शनं जातम् | न जाने किम् अनभिमतं दर्शयिष्यति | इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश्चलति | यतः
शोक-स्थान-सहस्राणि भय-स्थान-शतानि च |
दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ||3||
अन्यच् च्विषयिणाम् इदम् अवश्यं कर्तव्यम् |
उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् |
आयुषः खण्डम् आदाय रविरस्तं गमिष्यति ||4||
अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् | स च तत्र प्रच्छन्नो भूत्वा स्थितः | अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस्तण्डुल-कणान् अवलोकयामास | ततः कपोत-राजस्तण्डुल-कण-लुब्धान् कपोतान् प्राह्कुतोत्र निर्जने वने तण्डुल-कणानां सम्भवः | तन् निरूप्यतां तावत् | भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिरपि तथा भवितव्यम् |
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे |
वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ||5||
कपोता ऊचुःकथम् एतत्
कथा 1
सोब्रवीत्हम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूतेभो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् | ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्भाग्येन एतत् सम्भवति | किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर्न विधेया | यतः
अनिष्टाद् इष्ट-लाभेपि न गतिर्जायते शुभा |
यत्रास्ते विष-संसर्गोमृतं तद् अपि मृत्यवे ||6||
किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव | तथा चोक्तम्
न संशयम् अनारुह्य नरो भद्राणि पश्यति |
संशयं पुनरारुह्य यदि जीवति पश्यति ||7||
तन् निरूपयामि तावत् | प्रकाशं ब्रूते | कुत्र तव कङ्कणम् व्याघ्रो हस्तं प्रसार्य दर्शयति | पान्थोवदत्कथं मारात्मके त्वयि विश्वासः
व्याघ्र उवाच्शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् | अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश्च | वंश-हीनश्चाहम् | ततः केनचिद् धार्मिकेणाहम् उपदिष्टः | दान-धर्मादिकं चरतु भवान् इति | तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः उक्तं च्
इज्याध्ययन-दानानि तपः सत्यं धृतिः क्षमा |
अलोभ इति मार्गोयं धर्मस्याष्ट-विधः स्मृतः ||8||
तत्र पूर्वश्चतुर्वर्गो दम्भार्थम् अपि सेव्यते |
उत्तरस्तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ||9||
मम चैतावान् लोभ-विरहः | येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः | यतः
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् |
प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ||10||
मया च धर्म-शास्त्राणि अधीतानि | शृणु
मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा |
दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ||11||
प्राणा यथात्मनोभीष्टा भूतानाम् अपि ते तथा |
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ||12||
अपरं च्
प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये |
आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ||13||
अन्यच्च
मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् |
आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ||14||
त्वं च अतीव-दुर्गतः | तेन तत् तुभ्यं दातुं स-यत्नोहम् | तथा चोक्तम्
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् |
व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ||15||
अन्यत् च्
दातव्यम् इति यद् दानं दीयतेनुपकारिणि |
देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ||16||
तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण | ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन्महा-पङ्के निमग्नः पलायितुम् अक्षमः | तं पङ्के
पतितं दृष्ट्वा व्याघ्रोवदत्हह महा-पङ्के पतितोसि | अतस्त्वाम् अहम् उत्थापयामि | इत्य् उक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोचिन्तयत्
न धर्म-शास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः |
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ||17||
किं च्
अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया |
दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ||18||
तन्मया भद्रं न कृतम् | यद् अत्र मारात्मके विश्वासः कृतः | तथा चोक्तम्
नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा |
विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ||19||
अपरं च्
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः |
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ||20||
अन्यच्च
स हि गगन-विहारी कल्मष-ध्वंस-कारी
दश-शत-कर-धारी ज्योतिषां मध्य-चारी |
विधुरपि विधि-योगाद् ग्रस्यते राहुणासौ
लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ||21||
इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च | अतोहं ब्रवीमिकङ्कणस्य तु लोभेनेत्य् आदि | अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति | यतः
सुजीर्णम् अन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः |
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घ-कालेपि न याति विक्रियाम् ||22||
एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आहाः ! किम् एवम् उच्यते
वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्युपस्थिते |
सर्वत्रैवं विचारे च भोजनेपि प्रवर्तताम् ||23||
यतः
शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले |
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ||24||
यथा चोक्तम्
ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः |
पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ||25||
एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस्अर्वे कपोतास्तत्रोपविष्टाः | यतः
सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः |
छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ||26||
अन्यच्च
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते |
लोभान् मोहश्च नाशश्च लोभः पापस्य कारणम् ||27||
अन्यच्च
असंभवं हेम-मृगस्य जन्म
तथापि रामो लुलुभे मृगाय |
प्रायः समापन्न-विपत्ति-काले
धियोपि पुंसां मलिना भवन्ति ||28||
अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म | यतः,
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् |
यदि कार्य-विपत्तिः स्यान् मुखरस्तत्र हन्यते ||29||
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच्नायम् अस्य दोषः, यतः
आपदाम् आपतन्तीनां हितोप्यायाति हेतुताम् |
मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ||30||
अन्यच्च
स बन्धुर्यो विपन्नानाम् आपद्-उद्धरण-क्षमः |
न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ||31||
विपत्-काले विस्मय एव कापुरुष-लक्षणम् | तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः
विपदि धैर्यम् अथाभ्युदये क्षमा
सदसि वाक्य-पटुता युधि विक्रमः |
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृति-सिद्धम् इदं हि महात्मनाम् ||32||
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् |
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ||33||
अन्यच्च
षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता |
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ||34||
इदानीम् अपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालम् आदाय उड्डीयताम् | यतः
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका |
तृणैर्गुणत्वम् आपन्नैर्बध्यन्ते मत्त-दन्तिनः ||35||
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि |
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ||36||
इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः | अनन्तरं च व्याधः सुदूराज् जालापहारकांस्तान् अवलोक्य पश्चाद् धावितोचिन्तयत्
संहतास्तु हरन्त्य् एते मम जालं विहङ्गमाः |
यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ||37||
ततस्तेषु चक्षुर्विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः | अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किम् इदानीं कर्तुम् उचितम्
चित्रग्रीव उवाच्
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् | कार्य-कारणतश्चान्ये भवन्ति हित-बुद्धयः ||38||
तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति | सोस्माकं पाशांश्छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः | हिरण्यकश्च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति | ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः | चित्रग्रीव उवाच्सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे
ततो हिरण्यकस्तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर्निःसृत्य अब्रवीत् ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः |
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः |
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ||39||
अथ पाश-बद्धांश्चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच्सखे ! किम् एतत्
चित्रग्रीव उवाच्सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् |
यस्माच् च येन च यथा च यदा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म |
तस्माच् च तेन च तथा च तदा च तच् च
तावच् च तत्र च विधातृ-वशाद् उपैति ||40||
राग-शोक-परीताप-बन्धन-व्यसनानि च | आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम् ||41||
एतच् छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति | तत्र चित्रग्रीव उवाच्मित्र ! मा मैवं कुरु | प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश्छिन्धि | मम पाशं पश्चाच् छेत्स्यसि |
हिरण्यकोप्याहहम् अल्प-शक्तिः | दन्ताश्च मे कोमलाः | तद् एतेषां पाशांश्छेत्तुं कथं समर्थो भवामि तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि | तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि |
चित्रग्रीव उवाचस्त्व् एवम् | तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय |
हिरण्यकेनोक्तमात्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् | यतः
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि |
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ||42||
अन्यच् च--
धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः |
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ||43||
चित्रग्रीव उवाच्सखे ! नीतिस्तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि | यतः
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् |
सन्निमित्ते वरं त्यागो विनाशे नियते सति ||44||
अयम् अपरश्चासाधारणो हेतुः |
जाति-द्रव्य-बलानां च साम्यम् एषां मया सह |
मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ||45||
अन्यच्च
विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् |
तन् मे प्राण-व्ययेनापि जीवयैतान्ममाश्रितान् ||46||
किं च्
मांस-मूत्र-पुरीषास्थि-पूरितेत्र कलेवरे |
विनश्वरे विहायास्थां यशः पालय मित्र मे ||47||
अपरं च पश्य्
यदि नित्यम् अनित्येन निर्मलं मल-वाहिना |
यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ||48||
यतः
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् |
शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ||49||
इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्साधु मित्र ! साधु | अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते | एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि | ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह्सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या | यतः
योधिकाद् योजन-शतान् पश्यतीहामिषं खगः |
स एव प्राप्त-कालस्तु पाश-बन्धं न पश्यति ||50||
अपरं च्
शशि-दिवाकरयोर्ग्रह-पीडनं
गज-भुजङ्गमयोरपि बन्धनम् |
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवान् इति मे मतिः ||51||
अन्यच्च
व्योमैकान्त-विहारिणोपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैरगाध-सलिलान्मत्स्याः समुद्राद् अपि |
दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः
कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ||52||
इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यकोपि स्व-विवरं प्रविष्टः |
यानि कानि च मित्राणि कर्तव्यानि शतानि च |
पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ||53||
अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आहहो हिरण्यक ! श्लाघ्योसि, अतोहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि | अतस्त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि | एतच् छ्रुत्वा हिरण्यकोपि विवराभ्यन्तराद् आह्कस्त्वम्
स ब्रूतेलघुपतनक-नामा वायसोहम् | हिरण्यको विहस्याह्का त्वया सह मैत्री यतः
यद् येन युज्यते लोके बुधस्तत् तेन योजयेत् |
अहम् अन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ||54||
अपरं च्
भक्ष्य-भक्षयोः प्रीतिर्विपत्तेः कारणं मतम् |
शृगालात् पाशबद्धोसौ मृगः काकेन रक्षितः ||55||
वायसोब्रवीत्--कथम् एतत्
हिरण्यकः कथयति
कथा 2
अस्ति मगध-देशे चम्पकवती नाम अरण्यानी | तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः | स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः | तं दृष्ट्वा शृगालोचिन्तयत् ! कथम् एतन्-मांसं सुललितं भक्षयामि भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते
मृगेणोक्तम्कस्त्वम्
स ब्रूतेक्षुद्र-बुद्धि-नामा जम्बुकोहम् | अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि | इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर्जीव-लोकं प्रविष्टोस्मि | अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति |
मृगेणोक्तमेवम् अस्तु |
ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ | तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति | तौ दृष्ट्वा काकोवदत्सखे चित्राङ्ग ! कोयं द्वितीयः
मृगो ब्रूतेमित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता | तन् न भद्रम् आचरितम् | तथा चोक्तम्
अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् |
मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ||56||
तौ आहतुः--कथम् एतत्
काकः कथयति
कथा 3
अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति | अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति | अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः | ततस्तम् आयान्तं दृष्ट्वा पक्षि-शावकैर्भयार्तैः कोलाहलः कृतः | तच् छ्रुत्वा जरद्गवेन उक्तम्कोयम् आयाति दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह्हा हतोस्मि यतोयं मां व्यापादयिष्यति | अथवा
तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् |
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ||57||
अधुनातिसन्निधाने पलायितुम् अक्षमः | तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्ार्य ! त्वाम् अभिवन्दे |
गृध्रोवदत्कस्त्वम्
सोऽवदत्मार्जारोहम् |
गृध्रो ब्रूतेदूरम् अपसर नो चेत् हन्तव्योसि मया |
मार्जारोवदत्श्रूयतां तावत् मद्-वचनम् | ततो यद्य् अहं वध्यस्तदा हन्तव्यः | यतः
जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् |
व्यवहारं परिज्ञाय वध्यः पूज्योथवा भवेत् ||58||
गृध्रो ब्रूतेब्रूहि किम् अर्थम् आगतोसि
सोऽवदत्हम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस्तिष्ठामि | युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः | भवन्तश्चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः गृहस्थ-धर्मश्च एषः
अरावप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते |
छेत्तुम् अप्यागते छायां नोपसंहरते द्रुमः ||59||
किं च्यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव |
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता |
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ||60||
अन्यच्च
बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः |
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ||61||
अपरं च्
निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः |
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल-वेश्मनः ||62||
अन्यच्च
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते |
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ||63||
अन्यच्च
उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः |
पूजनीयो यथा-योग्यं सर्व-देव-मयोतिथिः ||64||
गृध्रोवदत्मार्जारो हि मांस-रुचिः | पक्षि-शावकाश्चात्र निवसन्ति | तेनाहम् एव ब्रवीमि | तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च्मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् | यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् | यतः
सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश्च ये |
सर्वस्याश्रय-भूताश्च ते नराः स्वर्ग-गामिनः ||65||
अन्यच्च
एक एव सुहृद् धर्मो निधनेप्यनुयाति यः |
शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ||66||
किं च्
योत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् |
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ||67||
अपि च्
मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते |
शक्यस्तेनानुमानेन परोपि परिरक्षितुम् ||68||
शृणु पुनः
स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते |
अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ||69||
एवं विश्वास्य स मार्जारस्तरु-कोटरे स्थितः | ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति | अथ येषाम् अपत्यानि खादितानि | तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा | तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः | पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः | अतोहं ब्रवीमिज्ञात-कुल-शीलस्य इत्य् आदि |
----------------------------
इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह्मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् | तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते अथवा
यत्र विद्वज्-जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि |
निरस्त-पादपे देशे एरण्डोपि द्रुमायते ||70||
अन्यच्च
अयं निजः परो वेति गणना लघु-चेतसाम् |
उदार-चरितानां तु वसुधैव कुटुम्बकम् ||71||
यथा चायं मृगो मम बन्धुस्तथा भवान् अपि | मृगोब्रवीत् कमनेन उत्तरोत्तरेण सर्वैरेकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् | यतः
न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः |
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ||72||
काकेन उक्तमेवम् अस्तु | अथ प्रातः सर्वे यथाभिमत-देशं गताः | एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति | तद् अहं त्वां तत्र नीत्वा दर्शयामि | तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति | ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास्तत्र योजिताः | अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोचिन्तयत्को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः
अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोचिन्तयत्फलितस्तावद् अस्माकं कपट-प्रबन्धः | मनोरथ-सिद्धिरपि बाहुल्यान् मे भविष्यति | यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि | तानि च बाहुल्येन मम भोजनानि भविष्यन्ति | स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् | सत्वरं त्रायस्व माम् | यतः
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् |
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ||73||
अपरं च्
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे |
राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ||74||
जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावद् अयं बन्धः | ब्रूते च्सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति | अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस्ततोन्विष्यन् तथाविधं तं दृष्ट्वा उवाच्सखे ! किम् एतत् मृगेणोक्तम्वधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्
सुहृदां हित-कामानां यः शृणोति न भाषितम् |
विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ||75||
काको ब्रूतेस वञ्चकः क्वास्ते
मृगेणोक्तंमन्-मांसार्थी तिष्ठत्य् अत्रैव |
काको ब्रूतेमित्र ! उक्तम् एव मया पूर्वम् |
अपराधो न मेस्तीति नैतद् विश्वास-कारणम् |
विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ||76||
दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् |
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ||77||
परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् |
वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ||78||
ततः काको दीर्घं निःश्वस्य उवाचरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् | यतः
संलापितानां मधुरैर्वचोभिर्
मिथ्योपचारैश्च वशीकृतानाम् |
आशावतां श्रद्दधतां च लोके
किम् अर्थिनां वञ्चयितव्यम् अस्ति ||79||
अन्यच्च
उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् |
तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि ||80||
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् |
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ||81||
अथवा स्थितिरियं दुर्जनानाम्
प्राक् पादयोः पतति खादति पृष्ठ-मांसं
कर्णे फलं किम् अपि रौति शनैर्विचित्रम् |
छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः
सर्वं खलस्य चरितं मशकः करोति ||82||
तथा च्
दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् |
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ||83||
अथ प्रभाते स क्षेत्र-पतिर्लगुड-हस्तस्तं प्रदेशम् आगच्छन् काकेनावलोकितः | तम् अवलोक्य काकेनोक्तम्सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ | अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे |
मृगस्तथैव काक-वचनेन स्थितः | ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः | अथासौ ! स्वयं मृतोसि इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव | ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः | तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः | तथा चोक्तम्
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः |
अत्युत्कटैः पाप-पुण्यैरिहैव फलम् अश्नुते ||84||
अतोहं ब्रवीमिभक्ष्य-भक्ष्यकयोः प्रीतिरित्य् आदि |
इति मृग-वायस-शृगाल-कथा
काकः पुनराह्
भक्षितेनापि भवता नाहारो मम पुष्कलः |
त्वयि जीवति जीवामि चित्रग्रीव इवानघ ||85||
अन्यच्च
तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् |
सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ||86||
किं च्
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् |
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ||87||
हिरण्यको ब्रूतेचपलस्त्वम् | चपलेन सह स्नेहः सर्वथा न कर्तव्यः | तथा चोक्तम्
मार्जारो महिषो मेषः काकः कापुरुषस्तथा |
विश्वासात् प्रभवन्त्य् एते विश्वासस्तत्र नो हितः ||88||
किं चान्यत्शत्रु-पक्षो भवान् अस्माकम् | शत्रुणा सन्धिर्न विधेयम् | उक्तं चैतत्
शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना |
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ||89||
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोपि सन् |
मणिना भूषितः सर्पः किम् असौ न भयङ्करः ||90||
यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् |
नोदके शकटं याति न च नौर्गच्छति स्थले ||91||
अपरं च्
महताप्यर्थ-सारेण यो विश्वसिति शत्रुषु |
भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ||92||
लघु-पतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः | यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति | अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति | तथा हि
मृद्-घटवत् सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति |
सुजनस्तु कनक-घटवद् दुर्भेद्यश्चाशु सन्धेयः ||93||
किं च्
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् |
भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ||94||
किं च्
नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः |
अन्ये बदरिकाकारा बहिरेव मनोहराः ||95||
अन्यच्च
स्नेह-च्छेदेपि साधूनां गुणा नायान्ति विक्रियाम् |
भङ्गेपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ||96||
अन्यच्च
शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः |
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्-गुणाः ||97||
एतैर्गुणैरुपेतो भवद्न्यो मया कः सुहृत् प्राप्तव्यः इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याहाप्यायितोहं भवताम् एतेन वचनामृतेन | तथा चोक्तम्
घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली
न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्यर्पितम् |
प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः
सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम् ||98||
अन्यच्च
रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया |
क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ||99||
अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते | यतः
पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते |
अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ||100||
अपरं च्
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः |
प्रवर्ततेन्यथा वाणी शाठ्योपहत-चेतसः ||101||
मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् |
मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ||102||
तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः | वायसोपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्योन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश्च कियत्-कालोतिवर्तने | एकदा
लघु-पतनको हिरण्यकम् आह्सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् | तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि |
हिरण्यको ब्रूते
स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः |
इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ||103||
काको ब्रूतेमित्र ! कापुरुषस्य वचनम् एतत् | यतः
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः |
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ||104||
अन्यच्च
को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः
यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् |
यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते
तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिन्नत्त्य् आत्मनः ||105||
हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् तथा चोक्तम्
चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् |
नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ||106||
वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् |
हिरण्यकोवदत्किं तत्
वायसः कथयतिस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः | तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति | पश्य मित्र !
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् |
धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ||107||
स च भोजन-विशेषैर्मां संवर्धयिष्यति | हिरण्यकोप्याह्तत् किम् अत्रावस्थाय मया कर्तव्यम् यतः
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः |
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ||108||
अपरं च---
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः |
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ||109||
अपरं च---
लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता |
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ||110||
अन्यच्च
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् |
ऋण-दाता च वैद्यश्च श्रोत्रियः सजला नदी ||111||
अतो माम् अपि तत्र नय |
वायसोऽवदत् एवम् अस्तु |
अथ वायसस्तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ | ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्यतिथि-सत्कारं चकार | यतः
बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः |
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ||112||
तथा
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः |
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ||113||
अपरं च्
उत्तमस्यापि वर्णस्य नीचोपि गृहम् आगतः |
पूजनीयो यथा-योग्यं सर्व-देव-मयोतिथिः ||114||
वायसोऽवदत्सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतोयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः | एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् | ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह्भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि
हिरण्यकोवदत्कथयामि, श्रूयताम् |
कथा 4
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः | तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति | स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेवस्थाप्य स्वपिति | अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि | अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिम् अताडयत् | तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच्सखे ! किम् इति मम कथा-विरक्तोन्यासक्तो भवान् यतः
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी |
स्नेहोधिकः सम्भ्रम-दर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ||115||
अदृष्टि-दानं कृत-पूर्व-नाशनम्
आननं दुश्चरितानुकीर्तनम् |
कथा-प्रसङ्गेन च नाम-विस्मृतिर्
विरक्त-भावस्य जनस्य लक्षणम् ||116||
चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति | वीणाकर्णो नागदन्तम् अवलोक्याह्कथम् अयं मूषिकः स्वल्प-बलोप्य् एतावद् दूरम् उत्पतति तद् अत्र केनापि कारणेन भवितव्यम् |
क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति | यतः
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा |
प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ||117||
ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् | ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः | ततस्तेनोक्तम्
धनेन बलवान् लोको धनाद् भवति पण्डितः |
पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ||118||
किं च्
अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः |
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ||119||
अपरं च्
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः |
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ||120||
अपरं च्
अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च |
मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ||121||
अपरं च्
दारिद्र्यान्मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् |
अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ||122||
अन्यच्च
तानीन्द्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिरप्रतिहता वचनं तद् एव |
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रम् एतत् ||123||
एतत् सर्वम् आकर्ण्य मयालोचितंममान्नावस्थानम् अयुक्तम् इदानीम् | तथा चोक्तम्
अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे |
मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ||124||
अन्यच्च
मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति |
अपि निर्वाणम् आयाति नानलो याति शीतताम् ||125||
किं च्
कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः |
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेथवा ||126||
यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्यनुचितम् | यतः
अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च |
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ||127||
यच् चात्रैव याच्ञया जीवनं तद् अप्यतीव-गर्हितम् | यतः
वरं विभव-हीनेन प्राणैः सन्तर्पितोनलः |
नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ||128||
अन्यच्च
दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते |
निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ||129||
किं च्
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं
वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् |
वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर्
वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ||130||
वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो
वरं वेश्या पत्नी न पुनरविनीता कुल-वधूः |
वरं वासोरण्ये न पुनरविवेकाधिप-पुरे
वरं प्राण-त्यागो न पुनरधमानाम् उपगमः ||131||
अपि च्
सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् |
हरि-हर-कथेव दुरितं गुण-शतम् अप्यर्थिता हरति ||132||
तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् | अन्यच्च
रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी |
यज् जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ||133||
इत्य् आलोच्यापि लोभात् पुनरपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् | तथा चोक्तम्
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् |
तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ||134||
ततोहं मन्दं मन्दम् उपसर्पंस्तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति | तथा च्
धन-लुब्धो ह्य् असन्तुष्टोनियतात्माजितेन्द्रियः |
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ||135||
सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् |
उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ||136||
अपरं च्
सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् |
कुतस्तद्-धन-लुब्धानाम् इतश्चेतश्च धावताम् ||137||
किं च्
तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् |
येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ||138||
अपि च्
असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् |
अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ||139||
न योजन-शतं दूरं वाह्यमानस्य तृष्णया |
सन्तुष्टस्य कर-प्राप्तेप्यर्थे भवति नादरः ||140||
तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् |
को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति |
कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ||141||
तथा च्
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः |
अपरिच्छेद-कर्त्णां विपदः स्युः पदे पदे ||142||
तथा हि
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||143||
अपरं च्
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् |
विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ||144||
इत्य् आलोच्याहं निर्जन-वनम् आगतः | यतः
वरं वनं व्याघ्र-गजेन्द्र-सेवितं
द्रुमालयः पत्र-फलाम्बु-भक्षितम् |
तृणानि शय्या वसनं च वल्कलं
न बन्धु-मध्ये धन-हीन-जीवनम् ||145||
अतः
संसार-विषय-वृक्षस्य द्वे एव रसवत् फले |
काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ||146||
अपरं च्
सत्-सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् |
असारे खलु संसारे त्रीणि साराणि भावयेत् ||147||
मन्थर उवाच्
अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम्
आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् |
धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं
पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ||148||
युष्माभिरतिसञ्चयः कृतः | तस्यायं दोषः | शृणु
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् |
तडागोदर-संस्थानां परीवाहैवाम्भसाम् ||149||
अन्यच्च
यद् अधोधः क्षितौ वित्तं निचखान मितम्पचः |
तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ||150||
यतः
निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति |
परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ||151||
तथा चोक्तं
दानोपभोग-हीनेन धनेन धनिनो यदि |
भवामः किं न तेनैव धनेन धनिनो वयम् ||152||
यतः
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून् न याधत्ते |
श्रुतेन किं यो न च धर्मम् आचरेत्
किम् आत्मना यो न जितेन्द्रियो भवेत् ||153||
अन्यच्च
असम्भोगेन सामान्यं कृपणस्य धनं परैः |
अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ||154||
अपि च्
न देवाय न विप्राय न बन्धुभ्यो न चात्मने |
कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ||155||
तथा चोक्तम्
दानं प्रिय-वाक्-सहितं
ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् |
त्यागं सहितं च वित्तं
दुर्लभम् एतच् चतुर्भद्रम् ||156||
उक्तं च्
कर्तव्यः सञ्चयो नित्यं न तु कार्योतिसञ्चयः |
अतिसञ्चय-शीलोयं धनुषा जम्बुको हतः ||157||
ताव् आहतुःकथम् एतत्
मन्थरः कथयति
कथा 5
आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः | स चैकदा मांस-लुब्धो धनुरादाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः | तत्र तेन मृग एको व्यापादितः | ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः | ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः | शूकरेणाप्यागत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात | तथा चोक्तम्
जलम् अग्निर्विषं शस्तं क्षुद् व्याधिः पतनं गिरेः |
निमित्तं किञ्चिद् आसाद्य देही प्राणैर्विमुच्यते ||158||
अथ तयोः पादास्फालनेन एकः सर्पोपि मृतः | अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् | आलोक्याचिन्तयच् चहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् |
अथवा
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् |
सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ||159||
मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ |
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ||160||
ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् | ततश्छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः | अतोहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि | तथा च्
यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् |
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ||161||
किं च्
यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने |
तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ||162||
यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन | यतः
नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् |
आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः ||163||
तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः
शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान् पुरुषः स विद्वान् |
सुचिन्तितं चौषधम् आतुराणां
न नाम-मात्रेण करोत्य् अरोगम् ||164||
अन्यच्च
न स्वल्पम् अप्यध्यवसाय-भीरोः
करोति विज्ञान-विधिर्गुणं हि |
अन्धस्य किं हस्त-तल-स्थितोपि
प्रकाशयत्य् अर्थम् इह प्रदीपः ||165||
तद् अत्र सखे दशातिशेषेण शान्तिः करणीया | एतद् अप्यतिकष्टं त्वया न मन्तव्यम् |
सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा |
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ||166||
अपरं च्
निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः |
सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः ||167||
अपि च्
उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् |
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ||168||
विशेषतश्च्
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नति-पदं
समायुक्तोप्यर्थैः परिभव-पदं याति कृपणः |
स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां
द्युतिं सैंहीं श्वा किं धृत-कनक-मालोपि लभते ||169||
किं च्
धनवान् इति हि मदस्ते किं गत-विभवो विषादम् उपयासि |
कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ||170||
अन्यच्च
वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता |
गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ||171||
अपि च सखे शृणु
येन शुक्ली-कृता हंसाः शुकाश्च हरितीकृताः |
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ||172||
अपरं च सतां रहस्यं शृणु, मित्र !
जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु |
मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ||173||
अपरं च्
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता |
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ||174||
यतः
यथाआमिषम् आकाशे पक्षिभिः श्वापदैर्भुवि |
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ||175||
अन्यच्च
राजतः सलिलाद् अग्नेश्चोरतः स्वजनाद् अपि |
भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ||176||
तथा हि
जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् |
इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ||177||
अन्यच् च भ्रातः शृणु
धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते |
लब्ध-नाशो यथा मृत्युस्तस्माद् एतन् न चिन्तयेत् ||178||
सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः |
तस्याश्चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ||179||
अपरं च्
यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते |
प्राप्त एवार्थतः सोर्थो यतो वाञ्छा निवर्तते ||180||
किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् | यतः
आम्रणान्ताः प्रणयाः कोपाश्च क्षण-भङ्गुराः |
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ||181||
इति श्रुत्वा लघुपतनको ब्रूतेधन्योसि मन्थर ! सर्वथा आश्रयणीयोसि | यतः
सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः |
गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ||182||
अपरं च्
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्-पुरुषः स धन्यः |
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति ||183||
तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म | अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः | तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः | मूषिकश्च विवरं गतः, काकोपि उड्डीय वृक्षाग्रम् आरूढः | ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर्न कोप्यवलम्बितः | पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः | मन्थरेणोक्तंभद्र मृग ! कुशलं ते स्वेच्छया उदकाद्याहारोनुभूयताम् | अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् |
चित्राङ्गो ब्रूतेलुब्धक-त्रासितोहं भवतां शरणम् आगतः | ततश्च, भवद्भिः सह मित्रत्वम् इच्छामि | भवन्तश्च अनुकम्पयन्तु मैत्र्येण | यतः
लोभाद् वाथ भयाद् वापि यस्त्यजेच् छरणागतम् |
ब्रह्म-हत्या-समं तस्य पापम् आहुर्मनीषिणः ||184||
हिरण्यकोप्यवदत्मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः | यतः
औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् |
रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्-विधम् ||185||
तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् | तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः |
अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोसि अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति
मृगेणोक्तम्स्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः | स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते | तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् |
तच् छ्रुत्वा कूर्मः स-भयम् आह्मित्र ! जलाशयान्तरं गच्छामि |
काक-मृगावपि उक्तवन्तौमित्र ! एवम् अस्तु !
हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् | स्थले गच्छतोस्य का विधा
अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् |
स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ||186||
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः |
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ||187||
तद् यथा
कथा 6
अस्ति ब्रह्मारण्ये कर्प्ूरतिलको नाम हस्ती | तम् अवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म | यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् | ततस्तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता | मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् | अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच्देव ! दृष्टि-प्रसादं कुरु |
हस्ती ब्रूतेकस्त्वम् कुतः समायातः
सोऽवदत्जम्बुकोहं सर्वैर्वन-वासिभिः पशुभिर्म&