बृहदारण्यकोपनिषत्

(Mula Brihadaranyaka Upanishad)

आदि शंकराचार्य भाष्य सहित

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

अध्याय 1

ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ 1

(1) --- आत्मैवेदमग्र आसीत्। ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता; केवलप्राणदर्शनेन च --- 'तध्दैतल्लोकजिदेव' इत्यादिना। प्रजापतेः

फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते। तेन च

कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृता भवेत्सामर्थ्यात्। विवक्षितं त्वेतत् --- सर्वमप्येतज्ज्ञानकर्मफलं संसार व, भयारत्यादियुक्तत्वश्रवणात्कार्यकरणलक्षणत्वाच्च

स्थूलव्यक्तानित्यविषयत्वाच्चेति। ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति। न हि

संसारविषयात्साध्यसाधनादिभेदलक्षणादविरक्तस्यात्मैकत्वज्ञानविषयेऽधिकारः, अतृषितस्येव पाने। तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम्। तथा च वक्ष्यति --

- 'तदेतत्पदनीयमस्य' 'तदेतत्प्रेयः पुत्रात्' इत्यादि। आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते। वैदिकज्ञानकर्मफलभूतः स व --- किम्? इदं

शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् आत्मैवासीत् अग्रे प्राक्शरीरान्तरोत्पत्तेः। स च पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिलक्षणो विराट्; स व प्रथमः

संभूतोऽनुवीक्ष्यान्वालोचनं कृत्वा --- 'कोऽहं किंलक्षणो वास्मि' इति, नान्यद्वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकात्कार्यकरणरूपात्, नापश्यत् न ददर्श। केवलं

त्वात्मानमेव सर्वात्मानमपश्यत्। तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः 'सोऽहं प्रजापतिः, सर्वात्माहमस्मि' इत्यग्रे व्याहरत् व्याहृतवान्। ततः तस्मात्, यतः

पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे तस्मात्, अहंनामाभवत्; तस्योपनिषदहमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति; तस्मात्, यस्मात्कारणे प्रजापतावेवं वृत्तं

तस्मात्, तत्कार्यभूतेषु प्राणिष्वेतर्हि तस्मिन्नपि काले, आमन्त्रितः कस्त्वमित्युक्तः सन्, 'अहमयम्' इत्येवाग्रे उक्त्वा कारणात्माभिधानेनात्मानमभिधायाग्रे,

पुनर्विशेषनामजिज्ञासवे अथ अनन्तरं विशेषपिण्डाभिधानम् 'देवदत्तः' 'यज्ञदत्तः' वेति प्रब्रूते कथयति --- यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति,

तत्कथयति। स च प्रजापतिः, अतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम्, यद्यस्मात्, कर्मज्ञानभावनानुष्ठानैः साधकावस्थायाम्,

यद्यस्मात्, कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन्, अस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मात्, आदौ औषत् अदहत्; किम्?

आसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्वप्रतिबन्धकारणभूतान्; यस्मादेवं तस्मात्पुरुषः --- पूर्वमौषदिति पुरुषः। यथायं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मनः

सर्वान्, पुरुषः प्रजापतिरभवत्; वमन्योऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् --- कम्? योऽस्माद्विदुषः पूर्वः

प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः। तं दर्शयति --- य वं वेदेति; सामर्थ्याज्ज्ञानभावनाप्रकर्षवान्। नन्वनर्थाय प्राजापत्यप्रतिपित्सा, वंविदा चेद्दह्यते;

नैष दोषः, ज्ञानभावनोत्कर्षाभावात् प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य। उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन न्यूनसाधनो न प्राप्नोतीति, स तं

दहतीत्युच्यते; न पुनः प्रत्यक्षमुत्कृष्टसाधनेनेतरो दह्यते --- यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरं दग्धा इवापहृतसामर्थ्या भवन्ति, तद्वत्।

यदिदं तुष्टूषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्यलक्षणम्, नैव तत्संसारविषयमत्यक्रामदितीममर्थं प्रदर्शयिप्यन्नाह ---

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच

ग्रस

चः साम रसः साम्न उद्गीथो रसः ॥ 2

(2) --- सोऽबिभेत्। सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः सः, अबिभेत् भीतवान् अस्मदादिवदेवेत्याह। यस्मादयं पुरुषविधः शरीरकरणवान्

आत्मनाशविषयविपरीतदर्शनवत्त्वादबिभेत्, तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बिभेति। किंचास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम्।

सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृतवान्ह। कथमित्याह --- यत् यस्मात् मत्तोऽन्यत् आत्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं नास्ति,

तस्मिन्नात्मविनाशहेत्वभावे, कस्मान्नु बिभेमि इति। तत व यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत्। तस्य प्रजापतेर्यद्भयं

तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह --- कस्माद्ध्यभेष्यत्? किमित्यसौ भीतवान्? परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः।

यस्माद्वितीयाद्वस्त्वन्तराद्वै भयं भवति; द्वितीयं च वस्त्वन्तरमविद्यात्प्रत्युपस्थापितमेव। न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः, 'तत्र को मोहः कः शोक

कत्वमनुपश्यतः' इति मन्त्रवर्णात्। यच्चैकत्वदर्शनेन भयमपनुनोद, तद्युक्तम्; कस्मात्? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति; तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति

नास्ति यतः। अत्र चोदयन्ति --- कुतः प्रजापतेरेकत्वदर्शनं जातम्? को वास्मा उपदिदेश? अथानुपदिष्टमेव प्रादुरभूत्; अस्मदादेरपि तथा प्रसङ्गः। अथ

जन्मान्तरकृतसंस्कारहेतुकम्; कत्वदर्शनानर्थक्यप्रसङ्गः। यथा प्रजापतेरतिक्रान्तजन्मावस्थस्यैकत्वदर्शनं विद्यमानप्यविद्याबन्धकारणं नापनिन्ये, यतोऽविद्यासंयुक्त

वायं जातोऽबिभेत्, वं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति। अन्त्यमेव निवर्तकमिति चेत्, ; पूर्ववत्पुनः प्रसङ्गेनानैकान्त्यात्। तस्मादनर्थकमेवैकत्वदर्शनमिति।

नैष दोषः; उत्कृष्टहेतूद्भवत्वाल्लोकवत्। यथा पुण्यकर्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं दृष्टम्, तथा

प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुसर्वपाप्मदाहाद्विशुध्दैः कार्यकरणैः संयुक्तमुत्कृष्टं जन्म; तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः। तथा च स्मृतिः

--- 'ज्ञानमप्रतिघं यस्य वैराग्यं च प्रजापतेः। ेश्वर्यं चैव धर्मश्च सहसिध्दं चतुष्टयम्' इति॥ सहसिध्दत्वे भयानुपपत्तिरिति चेत् --- न ह्यादित्येन सह तम

उदेति --- न, अन्यानुपदिष्टार्थत्वात्सहसिध्दवाक्यस्य। श्रध्दातात्पर्यप्रणिपातादीनामहेतुत्वमिति चेत् --- स्यान्मतम् --- 'श्रध्दावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः'

'तध्दिध्दि प्रणिपातेन' इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वम्, प्रजापतेरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्, ;

निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्तेः। लोके हि नैमित्तिकानां कार्याणां निमित्तभेदोऽनेकधा विकल्प्यते। तथा निमित्तसमुच्चयः। तेषां च विकल्पितानां

समुच्चितानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति। तद्यथा --- रूपज्ञान व तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षूरूपसंनिकर्षो नक्तंचराणां रूपज्ञाने

निमित्तं भवति; मन व केवलं रूपज्ञाननिमित्तं योगिनाम्; अस्माकं तु संनिकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुच्चिता निमित्तभेदा भवन्ति;

तथालोकविशेषगुणवदगुणवत्त्वेन भेदाः स्युः। वमेवात्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कर्म निमित्तं भवति; यथा प्रजापतेः। क्वचित्तपो निमित्तम्; 'तपसा ब्रह्म

विजिज्ञासस्व' इति श्रुतेः। क्वचित् 'आचार्यवान्पुरुषो वेद' 'श्रध्दावाँल्लभते ज्ञानम्' 'तद्विध्दि प्रणिपातेन' 'आचार्याध्दैव' 'ज्ञातव्यो द्रष्टव्यः श्रोतव्यः' इति

श्रुतिस्मृतिभ्य कान्तज्ञानलाभनिमित्तत्वं श्रध्दाप्रभृतीनाम् अधर्मादिनिमित्तवियोगहेतुत्वात्; वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात्;

पापादिप्रतिबन्धक्षये चात्ममनसोः, भूतार्थज्ञाननिमित्तस्वाभाव्यात्। तस्मादहेतुत्वं न जातु ज्ञानस्य श्रध्दाप्रणिपातादीनामिति।

स ष रसानाँ् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ 3

(3) --- इतश्च संसारविषय व प्रजापतित्वम्, यतः सः प्रजापतिः वै नैव रेमे रतिं नान्वभवत्, --- अरत्याविष्टोऽभूदित्यर्थः --- अस्मदादिवदेव यतः; इदानीमपि

तस्मादेकाकित्वादिधर्मवत्त्वात् काकी न रमते रतिं नानुभवति। रतिर्नामेष्टार्थसंयोगजा क्रीडा। तत्प्रसङ्गिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते। सः

तस्या अरतेरपनोदाय द्वितीयमरत्यपघातसमर्थं स्त्रीवस्तु ेच्छत् गृध्दिमकरोत्। तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव। सः तेन

सत्येप्सुत्वात् तावान् तत्परिमाण आस बभूव ह। किंपरिमाण इत्याह --- यथा लोके स्त्रीपुमांसावरत्यपनोदाय संपरिष्वक्तौ यत्परिमाणौ स्याताम्, तथा

तत्परिमाणः, बभूवेत्यर्थः। स तथा तत्परिमाणमेवेममात्मानं द्वेधा द्विप्रकारम् अपातयत् पातितवान्। इममेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम्। न क्षीरस्य

सर्वोपमर्देन दधिभावापत्तिवद्विराट् सर्वोपमर्देनैतावानास; किं तर्हि? आत्मना व्यवस्थितस्यैव विराजः सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिमाणं

शरीरान्तरं बभूव। स व च विराट् तथाभूतः --- 'स हैतावानास' इति सामानाधिकरण्यात्। ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दंपत्योर्निर्वचनं

लौकिकयोः; अत व तस्मात् --- यस्मादात्मन वार्धः पृथग्भूतः --- येयं स्त्री --- तस्मात् --- इदं शरीरमात्मनोऽर्धबृगलम् --- अर्धं च तत् बृगलं विदलं च

तदर्धबृगलम्, अर्धविदलमिवेत्यर्थः। प्राक्स्त्र्युद्वहनात्मकस्यार्धबृगलमित्युच्यते --- स्व आत्मन इति। वमाह स्म उक्तवान्किल, याज्ञवल्क्यः --- यज्ञस्य वल्को वक्ता

यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिरित्यर्थः; ब्रह्मणो न अपत्यम्। यस्मादयं पुरुषार्ध आकाशः स्त्र्यर्धशून्यः, पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुनः

संपुटीकरणेनेव विदलार्धः। तां स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगतवान्। ततः तस्मात्तदुपगमनात्

मनुष्या अजायन्त उत्पन्नाः।

कतमा कतमक्र्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ 4

(4) --- सा शतरूपा उ ह इयम् --- सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्ती ईक्षांचक्रे। 'कथं न्विदमकृत्यम्, यन्मा माम् आत्मन व जनयित्वा उत्पाद्य

संभवति उपगच्छति; यद्यप्ययं निर्घृणः, अहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि' इत्येवमीक्षित्वा असौ गौरभवत्। उत्पाद्य

प्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैव मतिः शतरूपाया मनोश्चाभवत्। ततश्च

षभ इतरः। तां समेवाभवदित्यादि पूर्ववत्। ततो गावोऽजायन्त। तथा बडबेतराभवत् अश्ववृष इतरः। तथा गर्दभीतरा गर्दभ

इतरः। तत्र बडबाश्वृषादीनां संगमात्तत कशफम् कखुरम् अश्वाश्वतरगर्दभाख्यं त्रयमजायत। तथा अजा इतराभवत्,

बस्तश्छाग इतरः। तथाविरितरा, मेष इतरः। तां समेवाभवत्। तां तामिति वीप्सा। तामजां तामविं चेति समभवदेवेत्यर्थः।

ततोऽजाश्चावयश्चाजावयोऽजायन्त। वमेव यदिदं किंच यत्ंकिचेदं मिथुनं स्त्रीपुंसलक्षणं द्वन्द्वम्, आ पिपीलिकाभ्यः

पिपीलिकाभिः सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान्।

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा तन्मिथुनं यद्वाक्च प्राण चर्क्च साम च ॥ 5

(5) --- सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत्। कथम्? अहं वाव अहमेव, सृष्टिः --- सृज्यत इति सृष्टं जगदुच्यते

सृष्टिरिति --- यन्मया सृष्टं जगत् मदभेदत्वादहमेवास्मि, न मत्तो व्यतिरिच्यते; कुत तत्? अहं हि यस्मात्, इदं सर्वं जगत्

असृक्षि सृष्टवानस्मि, तस्मादित्यर्थः। यस्मात्सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः ततः तस्मात् सृष्टिरभवत् सृष्टिनामाभवत्

सृष्टयां जगति ह अस्य प्रजापतेः तस्याम् तस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति, स्वात्मनोऽनन्यभूतस्य जगतः; कः? य वं

प्रजापतिवद्यथोक्तं स्वात्मनोऽनन्यभूतं जगत् 'साध्यात्माधिभूताधिदैवं जगदहमस्मि; इति वेद।

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँ्सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ 6

(6) --- एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राह्मणादिवर्णनियन्त्रीर्देवताः सिसृक्षुरादौ --- अथ-इति-

शब्दद्वयमभिनयप्रदर्शनार्थम् --- अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यमन्थत् आभिमुख्येन मन्थनमकरोत्। सः मुखं हस्ताभ्यां

मथित्वा, मुखाच्च योनेः हस्ताभ्यां च योनिभ्याम्, अग्ंनि ब्राह्मणजातेरनुग्रहकर्तारम्, असृजत सृष्टवान्।

यस्माद्दाहकस्याग्नेर्योनिरेतदुभयम् --- हस्तौ मुखं च, तस्मात् उभयमप्येतत् अलोमकं लोमविवर्जितम्; किं सर्वमेव? ,

अन्तरतः अभ्यन्तरतः। अस्ति हि योन्या सामान्यमुभयस्यास्य। किम्? अलोमका हि योनिरन्तरतः स्रीणाम्। तथा ब्राह्मणोऽपि

मुखादेव जज्ञे प्रजापतेः। तस्मादेकयोनित्वाज्ज्येष्ठेवानुजोऽनुगृह्यते, अग्निना ब्राह्मणः। तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति

श्रुतिस्मृतिसिध्दम्। तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रियजातिनियन्तारं क्षत्त्रियं च। तस्मादैन्द्रं क्षत्त्रं बाहुवीर्यं चेति

श्रुतौ स्मृतौ चावगतम्। तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च। तस्मात्कृष्यादिपरो

वस्वादिदेवत्यश्च वैश्यः। तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति --- श्रुतिस्मृतिप्रसिध्देः। तत्र

क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकर्ीत्यै। यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा

इति निश्चितोऽर्थः; स्रष्टुरनन्यत्वात्सृष्टानाम्, प्रजापतिनैव तु सृष्टत्वाद्देवानाम्। अथैवं प्रकरणार्थे व्यवस्थिते

तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः। अन्यनिन्दा अन्यस्तुतये। तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं

वच आहुः --- 'अमुमग्ंनि यजामुमिन्द्रं यज' इत्यादि --- नामशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेकैकं मन्यमाना

आहुरित्यभिप्रायः --- तन्न तथा विद्यात्; यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्वः; ष उ ह्येव प्रजापतिरेव प्राणः सर्वे

देवाः। अत्र विप्रतिपद्यन्ते --- पर व हिरण्यगर्भ इत्येके; संसारीत्यपरे। पर व तु मन्त्रवर्णात् --- 'इन्द्रं मित्रं वरुणमग्निमाहुः'

इति श्रुतेः; 'एष ब्रह्मैव इन्द्र ष प्रजापतिरेते सर्वे देवाः' इति च श्रुतेः; स्मृतेश्च --- 'एतमेके वदन्त्यग्ंनि मनुमन्ये प्रजापतिम्'

इति, 'योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स व स्वयमुद्वभौ' इति च। संसार्येव वा स्यात् ---

'सर्वान्पाप्मन औषत्' इति श्रुतेः; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति; भयारतिसंयोगश्रवणाच्च; 'अथ यन्मर्त्यः

सन्नमृतानसृजत' इति च, 'हिरण्यगर्भं पश्यत जायमानम्' इति च मन्त्रवर्णात्; स्मृतेश्च कर्मविपाकप्रक्रियायाम् --- 'ब्रह्मा

विश्वसृजो धर्मो महानव्यक्तमेव च। उत्तमां सात्त्विीमेतां गतिमाहुर्मनीषिणः' इति। अथैवं विरुध्दार्थानुपपत्तेः प्रामाण्यव्याघात

इति चेत् --- न, कल्पनान्तरोपपत्तेरविरोधात्। उपाधिविशेषसंबन्धाद्विशेषकल्पनान्तरमुपपद्यते। 'आसीनो दूरं व्रजति शयानो

याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति' इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम्, न परमार्थतः।

स्वतोऽसंसार्येव। कमेकत्वं नानात्वं च हिरण्यगर्भस्य। तथा सर्वजीवानाम्, 'तत्त्वमसि' इति श्रुतेः।

हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर वेति श्रुतिस्मृतिवादाः प्रवृत्ताः। संसारित्वं तु क्वचिदेव दर्शयन्ति। जीवानां

तूपाधिगताशुध्दिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते। व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः।

तार्किकैस्तु परित्यक्तागमबलैः अस्ति नास्ति कर्ता अकर्ता इत्यादि विरुध्दं बहु तर्कयद्भिराकुलीकृतः शास्त्रार्थः। तेनार्थनिश्चयो

दुर्लभः। ये तु केवलशास्त्रानुसारिणः शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थो देवतादिविषयः। तत्र प्रजापतेरेकस्य

देवस्यात्राद्यलक्षणो भेदो विवक्षित इति --- तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते। अथ यत्ंकिचेदं लोक आर्द्रं द्रवात्मकम्,

तद्रेतस आत्मनो बीजात् असृजत; 'रेतस आपः' इति श्रुतेः। द्रवात्मकश्च सोमः। तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टम्, तदु

सोम व। तावद्वै तावदेव, नातोऽधिकम्, इदं सर्वम्। किं तत्? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम्, अन्नादश्चाग्निः

औष्ण्याद्रूक्षत्वाच्च। तत्रैवमवध्रियते --- सोम वान्नम्, यदद्यते तदेव सोम इत्यर्थः; य वात्ता स वाग्निः; अर्थबलाद्ध्यवधारणम्।

अग्निरपि क्वचिध्दूयमानः सोमपक्षस्यैव; सोमोऽपीज्यमानोऽग्निरेव, अत्तृत्वात्। वमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्न

केनचिद्दोषेण लिप्यते; प्रजापतिश्च भवति। सैषा ब्रह्मणः प्रजापतेरतिसृष्टिरात्मनोऽप्यतिशया। का सेत्याह --- यच्छ्रेयसः

प्रशस्यतरानात्मनः सकाशात् यस्मादसृजत देवान्, तस्माद्देवसृष्टिरतिसृष्टिः। कथं पुनरात्मनोऽतिशया सृष्टिरित्यत आह ---

अथ यत् यस्मात् मर्त्यः सन् मरणधर्मा सन्, अमृतान् अमरणधर्मिणो देवान्, कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वा,

असृजत; तस्मादियमतिसृष्टिः उत्कृष्टज्ञानस्य फलमित्यर्थः। तस्मादेतामतिसृष्ंटि प्रजापतेरात्मभूतां यो वेद, स तस्यामतिसृष्टयां

प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति। तध्देतं तर्ह्यव्याकृतमासीत्। सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं

कत्र्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव, यदेतद्व्याकृतं जगत्संसारः। अथैतस्यैव साध्यसाधनलक्षणस्य

व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्थाया, तां निर्दिदिक्षति अङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजोऽविद्याक्षेत्रो ह्यसौ

संसारवृक्षः समूल उध्दर्तव्य इति; तदुध्दरणं हि पुरुषार्थपरिसमाप्तिः; तथा चोक्तम् --- 'ऊर्ध्वमूलोऽवाक्शाखः' इति काठके;

गीतासु च 'ऊर्ध्वमूलमधःशाखम्' इति; पुराणे च --- 'ब्रह्मवृक्षः सनातनः' इति।

आपयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 7

(7) --- तध्देदम्। तदिति बीजावस्थं जगत्प्रागुत्पत्तेः, तर्हि तस्मिन्काले; परोक्षत्वात्सर्वनाम्ना अप्रत्यक्षाभिधानेनाभिधीयते ---

भूतकालसंबन्धित्वादव्याकृतभाविनो जगतः; सुखग्रहणार्थमैतिह्यप्रयोगो ह-शब्दः; वं ह तदा आसीदित्युच्यमाने सुखं तां

परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते --- युधिष्ठिरो ह किल राजासीदित्युक्ते यद्वत्; इदमिति व्याकृतनामरूपात्मकं

साध्यसाधनलक्षणं यथावर्णितमभिधीयते; तदिदंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकरण्यादेकत्वमेव

परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते; तदेवेदम्, इदमेव च तदव्याकृतमासीदिति। अथैवं सति नासत उत्पत्तिर्न सतो विनाशः

कार्यस्येत्यवधृतं भवति। तदेवंभूतं जगत् अव्याकृतं सत् नामरूपाभ्यामेव नाम्ना रूपेणैव च, व्याक्रियत। व्याक्रियतेति

कर्मकर्तृप्रयोगात्तत्स्वयमेवात्मैव व्याक्रियत --- वि आ अक्रियत --- विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत ---

सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम्। असौ नामेति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति। देवदत्तो यज्ञदत्त

इति वा नामास्येत्यसौनामा अयम्। तथा इदमिति शुक्लकृष्णादीनामविशेषः। इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदंरूपः।

तदिदम् अव्याकृतं वस्तु, तर्हि तस्मिन्नपि काले, नामरूपाभ्यामेव व्याक्रियते --- असौनामायमिदंरूप इति। यदर्थः

सर्वशास्त्रारम्भः, यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपे

सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुध्दबुध्दमुक्तस्वाभावः ---

स षः अव्याकृते आत्मभूते नामरूपे व्याकुर्वन्, ब्रह्मादिस्तम्बपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः। नन्वव्याकृतं

स्वयमेव व्याक्रियतेत्युक्तम्; कथमिदमिदानीमुच्यते --- पर व त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति। नैष दोषः ---

परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात्। आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम।

इदंशब्दसामानाधिकरण्याच्च अव्याकृतशब्दस्य। यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम्, तथा

अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम्। व्याकृताव्याकृतमात्रं तु विशेषः। दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो

ग्रामः शून्य इति --- कदाचिद्ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगे भवति; कदाचिन्निवासिजनविवक्षायां

ग्राम आगत इति; कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति ग्रामं च न प्रविशेदिति यथा --- तद्वदिहापि जगदिदं

व्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेशः। तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्व्यपदेशः। तथा

'महानज आत्मा' 'अस्थूलोऽनणुः' 'स ष नेति नेति' इत्यादि केवलात्मव्यपदेशः। ननु परेण व्याकत्र्रा व्याकृतं सर्वतो व्याप्तं

सर्वदा जगत्; स कथमिह प्रविष्टः परिकल्प्यते; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः;

नाकाशेन किंचित्, नित्यप्रविष्टत्वात्। पाषाणसर्पादिवध्दर्मान्तरेणेति चेत् --- अथापि स्यात् --- न पर आत्मा स्वेनैव रूपेण

प्रविवेश; किं तर्हि? तत्स्थ व धर्मान्तरेणोपजायते; तेन प्रविष्ट इत्युपचर्यते; यता पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा

तोयम् --- न, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः। यः स्रष्टा स भावान्तरमनापन्न व कार्यं सृष्ट्वा पश्चात्प्राविशदति हि

श्रूयते। यथा 'भुक्त्वा गच्छति' इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात्;

तु तत्स्थस्यैव भावान्तरोपजनन तत्संभवति। न च स्थानान्तरेण वियुज्य स्थानान्तरसंयोगलक्षणः प्रवेशो

निरवयवस्यापरिच्छिन्नस्य दृष्टः। सावयव व प्रवेशश्रवणादिति चेत्, ; 'दिव्यो ह्यमूर्तः पुरुषः' 'निष्कलं निष्क्रियम्'

इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्यधर्मविशेषप्रतिषेधश्रुतिभ्यश्च। प्रतिबिम्बप्रवेशवदिति चेत्, ; वस्त्वन्तरेण विप्रकर्षानुपपत्तेः। द्रव्ये

गुणप्रवेशवदिति चेत्, ; अनाश्रितत्वात्। नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते; न तु ब्रह्मणः

स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते। फले बीजवदिति चेत्, ; सावयवत्ववृध्दिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात्। न चैवं

धर्मवत्त्वं ब्रह्मणः, 'अजोऽजरः' इत्यादिश्रुतिन्यायविरोधात्। अन्य व संसारी परिच्छिन्न इह प्रविष्ट इति चेत्, ; 'सेयं देवतैक्षत'

इत्यारभ्य 'नामरूपे व्याकरवाणि' इति तस्या व प्रवेशव्याकरणकर्तृत्वश्रुतेः। तथा 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'स तमेव सीमानं

विदार्यैतया द्वारा प्रापद्यत' 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' 'त्वं कुमार उत वा कुमारी त्वं जीर्णो

दण्डेन वञ्चसि' 'पुरश्चक्रे द्विपदः' 'रूपं रूपम्' इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः। प्रविष्टानामितरेतरभेदात्परानेकत्वमिति

चेत्, न। 'एकोदेवो बहुधा संनिविष्टः' 'एकः सन्बहुधा विचार' 'त्वमेकोऽसि बहूननुप्रविष्टः' 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी

सर्वभूतान्तरात्मा' इत्यादिश्रुतिभ्यः। प्रवेश उपपद्यते नोपपद्यत इति --- तिष्ठतु तावत्; प्रविष्टानां संसारित्वात्तदनन्यत्वाच्च

परस्य संसारित्वमिति चेत्, ; अशनायाद्यत्यश्रुतेः। सुखित्वदुःखित्वादिदर्शनान्नेति चेत्, ; 'न लिप्यते लोकदुःखेन बाह्यः' इति

श्रुतेः। प्रत्यक्षादिविरोधादयुक्तमिति चेत्, ; उपाध्याश्रयजनितविशेषविषयत्वात्प्रत्यक्षादेः। 'न द्रष्टेर्द्रष्टारं पश्येः' 'विज्ञातारमरे

केन विजानीयात्' 'अविज्ञातं विज्ञातृ' इत्यादिश्रुतिभ्यो न आत्मविषयं विज्ञानम्; किं तर्हि? बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव

'सुखितोऽहं' 'दुःखितोऽहम्' इत्येवमादि प्रत्यक्षविज्ञानम्; 'अयम् अहम्' इति विषयेण विषयिणः सामानाधिकरण्योपचारात्;

'नान्यदतोऽस्ति द्रष्टृ' इत्यन्यात्मप्रतिषेधाच्च। देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम्। 'आत्मनस्तु कामाय'

इत्यात्मार्थत्वश्रुतेरयुक्तमिति चेत्, ; 'यत्र वा अन्यदिव स्यात्' इत्यविद्याविषयात्मार्थत्वाभ्युपगमात्, 'तत्केन कं पश्येत्' 'नेह

नानास्ति किंचन' 'तत्र को मोहः कः शोक कत्वमनुपश्यतः' इत्यादिना विद्याविषये तत्प्रतिषेधाच्च न आत्मधर्मत्वम्।

तार्किकसमयविरोधादयुक्तमिति चेत्, ; युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः। न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशेष्यत्वम्,

प्रत्यक्षाविषयत्वात्। आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेत्, ; कप्रत्ययविषयत्वानुपपत्तेः। न हि सुखग्राहकेण

प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते। तस्य च विषयीकरण आत्मन कत्वाद्विषय्यभावप्रसङ्गः।

कस्यैव विषयविषयित्वम्, दीपवदिति चेत्, ; युगपदसंभवात्, आत्मन्यंशानुपपत्तेश्च। तेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम्।

प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे न अनुमानम्; दुःखस्य नित्यमेव प्रत्यक्षविषयत्वात्; रुपादिसामानाधिकरण्याच्च;

मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात्। न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्

अपयन्वा दृष्टः क्वचित्। न च निरवयवं विक्रियमाणं दृष्टं क्वचित्, अनित्यगुणाश्रयं वा नित्यम्। न चाकाश

आगमवादिभिर्नित्यतयाभ्युगम्यते। न चान्यो दृष्टान्तोऽस्ति। विक्रियमाणमपि तत्प्रत्ययानिवृत्तेः नित्यमेवेति चेत्, ;

द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः। सावयवत्वेऽपि नित्यत्वमिति चेत्, ; सावयवस्यावयवसंयोगपूर्वकत्वे सति

विभागोपपत्तेः। वज्रादिष्वदर्शनान्नेति चेत्, ; अनुमेयत्वात्संयोगपूर्वत्वस्य। तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः।

परस्यादुःखित्वेऽन्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्, ;

अविद्याध्यारोपितदुःखित्वभ्रमापोहार्थत्वात् --- आत्मनि प्रकृतसंख्यापूरणभ्रमापोहवत्; कल्पितदुःखात्माभ्युपगमाच्च।

जलसूर्यादिप्रतिबिम्बवत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्याकृते कार्ये उपलभ्यत्वम्। प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्टा

व्याकृते बुध्देरन्तरुपलभ्यमानः, सूर्यादिप्रतिबिम्बवज्जलादौ, कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते --- 'स ष इह

प्रविष्टः' 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'स तमेव सीमानं विदार्यैतया द्वारा प्रापद्यत' 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता

अनेन जीवेनात्मनानुप्रविश्य' इत्येवमादिभिः। न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः

कदाचिदप्युपपद्यते। न च परादात्मनोऽन्योऽस्ति द्रष्टा, 'नान्यदतोऽस्ति द्रष्टृ' 'नान्यदतोऽस्ति श्रोतृ' इत्यादिश्रुतेः ---

इत्यवोचाम। उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम्; उपलब्धेः पुरुषार्थत्वश्रवणात् --- 'आत्मानमेवावेत्'

'तस्मात्तत्सर्वमभवत्' 'ब्रह्मविदाप्नोति परम्' 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' 'आचार्यवान्पुरुषो वेद' 'तस्य तावदेव

चिरम्' इत्यादिश्रुतिभ्यः; 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' 'तद्ध्ययं सर्वविद्यानां प्राप्यते ह्यमृतं ततः'

इत्यादिस्मृतिभ्यश्च। भेददर्शनापवादाच्च, सृष्टयादिवाक्यानामात्मैकत्वदर्शनार्थपरत्वोपपत्तिः। तस्मात्कार्यस्थस्योपलभ्यत्वमेव

प्रवेश इत्युपचर्यते। आ नखाग्रेभ्यः --- नखाग्रमर्यादमात्मनश्चैतन्यमुपलभ्यते। तत्र कथमिव प्रविष्ट इत्याह --- यथा लोके,

क्षुरधाने क्षुरो धीयते अस्मिन्निति क्षुरधानं तस्मिन् नापितोपस्कराधाने, क्षुरः अन्तस्थ उपलभ्यते --- अवहितः प्रवेशितः, स्यात्;

यथा वा विश्वंभरः अग्निः --- विश्वस्य भरणात् विश्वंभरः कुलाये नीडे अग्निः काष्ठादौ, अवहितः स्यादित्यनुवर्तते; तत्र हि स

मथ्यमान उपलभ्यते। यथा च क्षुरः क्षुरधान कदेशेऽवस्थितः, यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, वं सामान्यतो

विशेषतश्च देहं संव्याप्यावस्थित आत्मा; तत्र हि स प्राणनादिक्रियावान् दर्शनादिक्रियावांश्चोपलभ्यते। तस्मात् तत्र वं प्रविष्टं

तम् आत्मानं प्राणनादिक्रियाविशिष्टम्, न पश्यन्ति नोपलभन्ते। नन्वप्राप्तप्रतिषेधोऽयम् --- 'तं न पश्यन्ति' इति,

दर्शनस्याप्रकृतत्वात्; नैष दोषः; सृष्टयादिवाक्यानामात्मैकत्वप्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम्; 'रूपं रूपं प्रतिरूपो बभूव

तदस्य रूपं प्रतिचक्षणाय' इति मन्त्रवर्णात्। तत्र प्राणनादिक्रियाविशिष्टस्य दर्शने हेतुमाह --- अकृत्स्नः असमस्तः, हि यस्मात्,

सः प्राणनादिक्रियाविशिष्टः। कुतः पुनरकृत्स्नत्वमिति, उच्यते --- प्राणन्नेव प्राणनक्रियामेव कुर्वन्, प्राणो नाम प्राणसमाख्यः

प्राणाभिधानो भवति; प्राणनक्रियाकर्तृत्वाध्दि प्राणः प्राणितीत्युच्यते, नान्यां क्रियां कुर्वन् --- यथा लावकः पाचक इति;

तस्मात्क्रियान्तरविशिष्टस्यानुपसंहारादकृत्स्नो हि सः। तथा वदन् वदनक्रियां कुर्वन्, वक्तीति वाक्, पश्यन् चक्षुः, चष्ट इति

चक्षुः द्रष्टा, श्रृण्वन् श्रृणोतीति श्रोत्रम्। 'प्राणन्नेव प्राणो वदन्वाक्' इत्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति। 'पश्यंश्चक्षुः

श्रृण्वञ्श्रोत्रम्' इत्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्यते, नामरूपविषयत्वाद्विज्ञानशक्तेः। श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु

नामरूपसाधनम्; न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति; तयोश्चोपलम्भे करणं चक्षुःश्रोत्रे। क्रिया च नामरूपसाध्या

प्राणसमवायिनी; तस्याः प्राणाश्रयाया अभिव्यक्तौ वाक् करणम्; तथा पाणिपादपायूपस्थाख्यानि; सर्वेषामुपलक्षणार्था वाक्। तदेव

हि सर्वं व्याकृतम् --- 'त्रयं वा इदं नाम रूपं कर्म' इति हि वक्ष्यति। मन्वानो मनः --- मनुते इति; ज्ञानशक्तिविकासानां

साधारणं करणं मनः --- मनुतेऽनेनेति; पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते। तान्येतानि प्राणादीनि, अस्यात्मनः

कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव, न तु वस्तुमात्रविषयाणि; अतो न कृत्स्नात्मवस्त्ववद्योतकानि --- वं ह्यसावात्मा

प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि। स योऽतः

अस्मात्प्राणनादिक्रियासमुदायात्, कैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकम्, मनसा अयमात्मेत्युपास्ते

चिन्तयति, न स वेद न स जानाति ब्रह्म। कस्मात्? अकृत्स्नोऽसमस्तः हि यस्मात् ष आत्मा, अस्मात्प्राणनादिसमुदायात्, अतः

प्रविभक्तः, कैकेन विशेषणेन विशिष्टः, इतरधर्मान्तरानुपसंहारात् --- भवति। यावदयमेवं वेद --- 'पश्यामि' 'श्रृणोमि' 'स्पृशामि'

इति वा स्वभावप्रवृत्तिविशिष्टं वेद, तावदञ्जसा कृत्स्नमात्मानं न वेद। कथं पुनः पश्यन्वेदेत्याह --- आत्मेत्येव आत्मेति ---

प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य सः --- आप्नुवंस्तान्यात्मेत्युच्यते। स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो

भवति। वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति। तथा च वक्ष्यति --- 'ध्यायतीव लेलायतीव'

इति। तस्मादात्मेत्येवोपासीत। वं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति। कस्मात्कृत्स्न इत्याशङ्क्याह ---

अत्रास्मिन्नात्मनि, हि यस्मात्, निरुपाधिके, जलसूर्यप्रतिबिम्बभेदा इवादित्ये, प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया

यथोक्ता ह्येते, कमभिन्नताम्, भवन्ति प्रतिपद्यन्ते। 'आत्मेत्येवोपासीत' इति नापूर्वविधिः, पक्षे प्राप्तत्वात्। 'यत्साक्षादपरोक्षाद्ब्रह्म'

'कतम आत्मेति --- योऽयं विज्ञानमयः' इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम्;

तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुध्दिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्यानिवर्तिता; तस्यां निवर्तितायां

कामादिदोषानुपपत्तेरनात्मचिन्तानुपपत्तिः; पारिशेष्यादात्मचिन्तैव। तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम्, प्राप्तत्वात्। तिष्ठतु

तावत् --- पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति। अपूर्वविधिः स्यात्, ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात्; 'न स वेद' इति

विज्ञानं प्रस्तुत्य 'आत्मेत्येवोपासीत' इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते। 'अनेन ह्येतत्सर्वं वेद' 'आत्मानमेवावेत्'

इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम्। तस्य चाप्राप्तत्वाद्विध्यर्हत्वम्। न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते।

तस्मादपूर्वविधिरेवायम्। कर्मविधिसामान्याच्च --- यथा 'यजेत' 'जुहुयात्' इत्यादयः कर्मविधयः, न तैरस्य 'आत्मेत्येवोपासीत'

'आत्मा वा अरे द्रष्टव्यः' इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते। मानसक्रियात्वाच्च विज्ञानस्य --- यथा 'यस्यै देवतायै

हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्' इत्याद्या मानसी क्रिया विधीयते, तथा 'आत्मेत्येवोपासीत' 'मन्तव्यो

निदिध्यासितव्यः' इत्याद्या क्रियैव विधीयते ज्ञानात्मिका। तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति। भावनांशत्रयोपपत्तेश्च ---

यथा हि 'यजेत' इत्यस्यां भावनायाम्, किम्? केन? कथम्? इति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमवगम्यते, तथा

'उपासीत' इत्यस्यामपि भावनायां विधीयमानायाम्, किमुपासीत? केनोपासीत? कथमुपासीत? इत्यस्यामाकाङ्क्षायाम्,

'आत्मानमुपासीत मनसा त्यागब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्तः' इत्यादिशास्त्रेणैव समर्थ्यते अंशत्रयम्। यथा च

कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः;

वमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवोपयोगः। 'नेति नेति' 'अस्थूलम्' 'एकमेवाद्वितीयम्' 'अशनायाद्यतीतः'

इत्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोगः। फलं च मोक्षोऽविद्यानिवृत्तिर्वा। अपरे वर्णयन्ति ---

उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्; तेनात्मा ज्ञायते; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं

विज्ञानमिति। तस्मिन्नर्थे वचनान्यपि --- 'विज्ञाय प्रज्ञां कुर्वीत' 'द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' 'सोऽन्वेष्टव्यः स

विजिज्ञासितव्यः' इत्यादीनि। न, अर्थान्तराभावात्। न च 'आत्मेत्येवोपासीत' इत्यपूर्वविधिः; कस्मात्?

आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात्। तत्र हि विधेः

साफल्यम्, यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते --- यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'

इत्येवमादौ। न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम्। तच्चाधिकाराद्यपेक्षानुभावि। न तु 'नेति नेति'

इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः संभवति;

सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य। न ह्युदासीनविज्ञानं प्रवृत्तिजनकम्; अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च

'एकमेवाद्वितीयम्' 'तत्त्वमसि' इत्येवमादिवाक्यानाम्। न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरोधात्।

वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत्, ; 'तत्त्वमसि' 'नेति नेति' 'आत्मैवेदम्' 'एकमेवाद्वितीयम्'

'ब्रह्मैवेदममृतम्' 'नान्यदतोऽस्ति द्रष्टृ' 'तदेव ब्रह्म त्वं विध्दि' इत्यादिवाक्यानां तद्वादित्वात्। द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति

चेत्, ; अर्थान्तराभावादित्युक्तोत्तरत्वात् --- आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः 'तत्त्वमसि' इत्यादिभिः श्रवणकाल व

तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत्। आत्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न

प्रवर्तत इति चेत्, ; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनितत्वात् --- किं भोः कृतस्य करणम्। तच्छ्रवणेऽपि न प्रवर्तत

इति चेत्, ; अनवस्थाप्रसङ्गात् --- यथात्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवाक्यार्थश्रवणेऽपि

विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत। वाक्यजनितात्मज्ञानस्मृतिसंततेः

श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत्, ; अर्थप्राप्तत्वात् --- यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव

तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते; आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति

स्वाभाविक्योऽनात्मवस्तुभेदविषयाः; अनर्थत्वावगतेश्च --- आत्मावगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते,

अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात्; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः;

पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत व भावान्न विधेयत्वम्। शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः ---

विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः; तथा च 'तत्र को मोहः' 'विद्वान्न बिभेति कुतश्चन' 'अभयं वै जनक प्राप्तोऽसि'

'भिद्यते हृदयग्रन्थिः' इत्यादिश्रुतयः। निरोधस्तर्ह्यर्थान्तरमिति चेत् --- अथापि स्याच्चित्तवृत्तिनिरोधस्य

वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत् --- न,

मोक्षसाधनत्वेनानवगमात्। न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते ---

आत्मानमेवावेत्तस्मात्तत्सर्वमभवत्' 'ब्रह्मविदाप्नोति परम्' 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' 'आचार्यवान्पुरुषो वेद'

'तस्य तावदेव चिरम्' 'अभयं हि वै ब्रह्म भवति। य वं वेद' इत्येवमादिश्रुतिशतेभ्यः। अनन्यसाधनत्वाच्च निरोधस्य --- न

ह्यात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति। अभ्युपगम्येदमुक्तम्; न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यत्

मोक्षसाधनमवगम्यते। आकाङ्क्षाभावाच्च भावनाभावः। यदुक्तम् 'यजेत' इत्यादौ किम्? केन? कथम्? इति भावनाकाङ्क्षायां

फलसाधनेतिकर्तव्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति --- तदसत्; 'एकमेवाद्वितीयम्'

'तत्त्वमसि' 'नेति नेति' 'अनन्तरमबाह्यम्' 'अयमात्मा ब्रह्म' इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः। न च

वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते। विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम। न च 'एकमेवाद्वितीयं ब्रह्म' इत्यादिवाक्येषु

विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवावसितत्वात्। वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् --- अथापि स्यात्, यथा

'सोऽरोदीद्यदरोदीत्तदुद्रस्य रुद्रत्वम्' इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम्, वमात्मार्थवाक्यानामपीति चेत् --- न,

विशेषात्। न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम्; किं तर्हि, निश्चितफलवद्विज्ञानोत्पादकत्वम्;

तद्यत्रास्ति तत्प्रमाणं वाक्यम्; यत्र नास्ति तदप्रमाणम्। किं च, भोः! पृच्छामस्त्वाम् --- आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु

फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा? उत्पद्यते चेत्, कथमप्रामाण्यमिति। किं वा न

पश्यस्यविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम्? न श्रृणोषि वा किम् --- 'तत्र को मोहः कः शोक

कत्वमनुपश्यतः', 'मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु'

इत्येवमाद्युपनिषद्वाक्यशतानि? वं विद्यते किम् 'सोऽरोदीत्' इत्यादिषु निश्चितं फलवच्च विज्ञानम्? न चेद्विद्यते,

अस्त्वप्रामाण्यम्; तदप्रामाण्ये, फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात्? तदप्रामाण्ये च दर्शपूर्णमासादिवाक्येषु

को विश्रम्भः? ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वाप्रामाण्यम्, आत्मविज्ञानवाक्येषु तन्नास्तीति; सत्यमेवम्;

नैष दोषः, प्रामाण्यकारणोपपत्तेः। प्रामाण्यकारणं च यथोक्तमेव, नान्यत्। अलंकारश्चायम्, यत्

सर्वप्रवृत्तिबीजनिरोधफलवद्विज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम्, न अप्रामाण्यकारणम्। यत्तूक्तम् --- 'विज्ञाय प्रज्ञां

कुर्वीत' इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमेतत्; किंतु न अपूर्वविध्यर्थता; पक्षे प्राप्तस्य

नियमार्थतैव। कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारिशेष्यादात्मविज्ञानस्मृतिसंततिर्नित्यैवेत्यभिहितम्? बाढम् ---

यद्यप्येवम्, शरीरारम्भकस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्तावपि अवश्यंभाविनी प्रवृत्तिर्वाङ्मनःकायानाम्, लब्धवृत्तेः

कर्मणो बलीयस्त्वात् --- मुक्तेष्वादिप्रवृत्तिवत्; तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम्। तस्मात् त्यागवैराग्यादिसाधनबलावलम्बेन

आत्मविज्ञानस्मृतिसंततिनिर्यन्तव्या भवति; न त्वपूर्वा कर्तव्या; प्राप्तत्वात् --- इत्यवोचाम।

तस्मात्प्राप्तविज्ञानस्मृतिसंताननियमविध्यर्थानि 'विज्ञाय प्रज्ञां कुर्वीत' इत्यादिवाक्यानि, अन्यार्थासंभवात्। ननु

अनात्मोपासनमिदम्, इति-शब्दप्रयोगात्; यथा 'प्रियमित्येतदुपासीत' इत्यादौ न प्रियादिगुणा वोपास्याः, किं तर्हि,

प्रियादिगुणवत्प्राणाद्येवोपास्यम्; तथा इहापि इति-परात्मशब्दप्रयोगात् आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते;

आत्मोपास्यत्ववाक्यवैलक्षण्याच्च --- परेण च वक्ष्यति --- 'आत्मानमेव लोकमुपासीत' इति; तत्र च वाक्ये

आत्मैवोपास्यत्वेनाभिप्रेतः, द्वितीयाश्रवणात् 'आत्मानमेव' इति; इह तु न द्वितीया श्रूयते, इति-परश्च आत्मशब्दः ---

'आत्मेत्योवोपासीत' इति; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः --- इति त्ववगम्यते। न, वाक्यशेषे आत्मन

उपास्यत्वेनावगमात्; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते --- 'तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा', 'अन्तरतरं

यदयमात्मा', 'आत्मानमेवावेत्' इति। प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् --- यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं

वार्यते --- 'तं न पश्यन्ति' इति प्रकृतोपादानात्; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् --- न, अकृत्स्नत्वदोषात्।

दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्यत्वप्रतिषेधाय; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात्;

आत्मश्चेदुपास्यत्वमनभिप्रेतम्, प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात् --- 'अकृत्स्नो ह्येषोऽत कैकेन

भवति; इति। अतः अनेकैकविशिष्टस्त्वात्मा कृत्स्नवादुपास्य वेति सिध्दम्। यस्त्वात्मशब्दस्य इति-परः प्रयोगः, आत्मशब्दप्रत्ययोः

आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञापनार्थम्; अन्यथा 'आत्मानुपासीत' इत्येवमवक्ष्यत्; तथा च अर्थात् आत्मनि

शब्दप्रत्ययावनुज्ञातौ स्याताम्; तच्चानिष्टम् --- 'नेति नेति' 'विज्ञातारमरे केन विजानीयात्' 'अविज्ञातं विज्ञातृ' 'यतो वाचो

निवर्तन्ते अप्राप्य मनसा सह' इत्यादिश्रुतिभ्यः। यत्तु 'आत्मानमेव लोकमुपासीत' इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात्

न वाक्यान्तरम्। अनिज्र्ञातत्वसामान्यात् आत्मा ज्ञातव्यः, अनात्मा च। तत्र कस्मादात्मोपासन व यत्न आस्थीयते ---

'आत्मेत्येवोपासीत' इति, नेतरविज्ञाने इति; अत्रोच्यते --- तदेतदेव प्रकृतम्, पदनीयं गमनीयम्, नान्यत्; अस्य सर्वस्येति

निर्धारणार्था षष्ठी; अस्मिन्सर्वस्मिन्नित्यर्थः; यदयमात्मा यदेतदात्मतत्त्वम्; किं न विज्ञातव्यमेवान्यत्? ; किं तर्हि, ज्ञातव्यत्वेऽपि

न पृथग्ज्ञानान्तरमपेक्षते आत्मज्ञानात्; कस्मात्? अनेनात्मना ज्ञातेन, हि यस्मात्, तत्सर्वमनात्मजातम् अन्यद्यत् तत्सर्वं

समस्तम्, वेद जानाति। नन्वन्यज्ञानेनान्यन्न ज्ञायत इति; अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः। कथं पुनरेतत्पदनीयमिति,

उच्यते --- यथा ह वै लोके, पदेन --- गवादिखुराङ्कितो देशः पदमित्युच्यते, तेन पदेन --- नष्टं विवित्सितं पशुं

पदेनान्वेषमाणः अनुविन्देत् लभेत; वमात्मनि लब्धे सर्वमनुलभते इत्यर्थः। नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते,

कथं लाभोऽप्रकृत उच्यत इति; , ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात्। आत्मनो ह्यलाभोऽज्ञानमेव; तस्माज्ज्ञानमेवात्मनो

लाभः; न अनात्मलाभवत् अप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययोर्भेदाभावात्। यत्र ह्यात्मनोऽनात्मा लब्धव्यो भवति,

तत्रात्मा लब्धा, लब्धव्योऽनात्मा। स चाप्राप्तः उत्पाद्यादिक्रियाव्यवहितः, कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः। स

त्वप्राप्तप्राप्तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात् --- स्वप्ने पुत्रादिलाभवत्। अयं तु द्विपरीत आत्मा।

आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः। नित्यलब्धस्वरूपत्वेऽपि अविद्यामात्रं व्यवधानम्। यथा गृह्यमाणाया अपि शुक्तिकाया

विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य;

वमिहाप्यात्मनोऽलाभः अविद्यामात्रव्यवधानम्; तस्माद्विद्यया तदपोहनमात्रमेव लाभः, नान्यः कदाचिदप्युपपद्यते। तस्मादात्मलाभे

ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः। तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह --- ज्ञानं प्रकृत्य ---

'अनुविन्देत्' इति; विन्दतेर्लाभार्थत्वात्। गुणविज्ञानफलमिदमुच्यते --- यथा --- अयमात्मा नामरूपानुप्रवेशेन ख्यातिं गतः

आत्मेत्यादिनामरूपाभ्याम्, प्राणादिसंहतिं च श्लोकं प्राप्तवान् --- इति --- वम्, यो वेद; सः कीर्तिं ख्यातिम्, श्लोकं च

संघातमिष्टैः सह, विन्दते लभते। यद्वा यथोक्तं वस्तु यो वेद; मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानम्, तत्फलं श्लोकशब्दितां

मुक्तिमाप्नोति --- इति मुख्यमेव फलम्।

तद्वा तदनुज्ञाक्षरं यध्दि किञ्चानुजानात्योमित्येव तदाहैषो व समृध्दिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य तदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ 8

(8) --- कुतश्चात्मतत्त्वमेव ज्ञेयम् अनादृत्यान्यदित्याह --- तदेतदात्मतत्त्वम्, प्रेयः प्रियतरम्, पुत्रात्; पुत्रो हि लोके प्रियः

प्रसिध्दः, तस्मादपि प्रियतरम् --- इति निरतिशयप्रियत्वं दर्शयति; तथा वित्तात् हिरण्यरत्नादेः; तथा अन्यस्मात् यद्यलोके

प्रियत्वेन प्रसिध्दं तस्मात्सर्वस्मादित्यर्थः। तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते --- अन्तरतरम् ---

बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरः अभ्यन्तरः संनिकृष्ट आत्मनः; तस्मादप्यन्तरात् अन्तरतरम्, यदयमात्मा

यदेतदात्मतत्त्वम्। यो हि लोके निरतिशयप्रियः स सर्वप्रयत्येन लब्धव्यो भवति; तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः;

तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः --- कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा। कस्मात्पुनः आत्मानात्मप्रिययोः

अन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ, आत्मप्रियोपादानेनैवेतरहानं क्रियते, न विपर्ययः --- इति, उच्यते --- स यः कश्चित्,

अन्यमनात्मविशेषं पुत्रादिकम्, प्रियतरमात्मनः सकाशात्, ब्रुवाणम्, ब्रूयादात्मप्रियवादी --- किम्? --- प्रियं तवाभिमतं

पुत्रादिलक्षणम्, रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति; स कस्मादेवं ब्रवीति? --- यस्मादीश्वरः समर्थः

पर्याप्तोऽसावेवं वक्तुं ह; यस्मात् तस्मात् तथैव स्यात्; यत्तेनोक्तम् --- 'प्राणसंरोधं प्राप्स्यति'; यथाभूतवादी हि सः, तस्मात्स

ईश्वरो वक्तुम्। ईश्वरशब्दः क्षिप्रवाचीति केचित्; भवेद्यदि प्रसिध्दिः स्यात्। तस्मादुज्ज्ञित्वान्यत्प्रियम्, आत्मानमेव प्रियमुपासीत।

स य आत्मानमेव प्रियसुपास्ते --- आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते

चिन्तयति, न हास्य वंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति। नित्यानुवादमात्रमेतत्, आत्मविदोऽन्यस्य प्रियस्याप्रियस्य च

अभावात्; आत्मप्रियग्रहणस्तुत्यर्थं वा; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात्।

तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शँ्सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ 9

(9) --- सूत्रिता ब्रह्मविद्या --- 'आत्मेत्येवोपासीत' इति, यदर्थोपनिषत्कृत्स्नापि; तस्यैतस्य सूत्रस्य व्याचिख्यासुः

प्रयोजनाभिधित्सयोपोज्जिघांसति --- तदिति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्तु --- आहुः --- ब्राह्मणाः ब्रह्म विविदिषवः

जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवः

धर्माधर्मसाधनतत्फललक्षणत्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयःप्रतिपित्सवः; किमाहुरित्याह ---

यद्ब्रह्मविद्यया; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वं निरवेशेषम्, भविष्यन्तः भविष्याम इत्येवम्,

मनुष्या यत् मन्यन्ते; मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम्; मनुष्या व हि विशेषतोऽभ्युदयनिःश्रेयससाधनेऽधिकृता

इत्यभिप्रायः; यथा कर्मविषये फलप्राप्ंति ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वात्मभावफलप्राप्ंति ध्रुवामेव मन्यन्ते,

वेदप्रामाण्यस्योभयत्राविशेषात्; तत्र विप्रतिषिध्दं वस्तु लक्ष्यते; अतः पृच्छामः --- किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वं भविष्यन्तो

मनुष्या मन्यन्ते? तत्किमवेत्, यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत्? ब्रह्म च सर्वमिति श्रूयते, तत् यदि अविज्ञाय किंचित्सर्वमभवत्,

तथान्येषामप्यस्तु; किं ब्रह्मविद्यया? अथ विज्ञाय सर्वमभवत्, विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य

ब्रह्मविद्याफलस्य; अनवस्थादोषश्च --- तदप्यन्यद्विज्ञाय सर्वमभवत् ततः पूर्वमप्यन्यद्विज्ञायेति। न तावदविज्ञाय सर्वमभवत्,

शास्त्रार्थवैरूप्यदोषात्। फलानित्यत्वदोषस्तर्हि? --- नैकोऽपि दोषः, अर्थविशेषोपपत्तेः। यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभव्,

पृच्छामः --- किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति। वं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह ---

तेनोभौ कुरुतो य चैतदेवं वेद य च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रध्दयोपनिषदा तदेव वीर्यवत्तरं भवतीति

खल्वेतस्यैवाक्षरस्योपव्याखयानं भवति ॥ 10 ॥ इति प्रथमः खण्डः ॥ 1

(10) --- ब्रह्म अपरम्, सर्वभावस्य साध्यत्वोपपत्तेः; न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या; विज्ञानसाध्यां च

सर्वभावापत्तिमाह --- 'तस्मात्तत्सर्वमभवत्' इति; तस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति। मनुष्याधिकाराद्वा

तद्भावी ब्राह्मणः स्यात्; 'सर्वं भविष्यन्तो मनुष्या मन्यन्ते' इति हि मनुष्याः प्रकृताः; तेषां च अभ्युदयनिःश्रेयससाधने

विशेषतोऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः; अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया

अपरब्रह्मभावमुपसंपन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते; दृष्टश्च लोके

भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः --- यथा 'ओदनं पचति' इति, शास्त्रे च --- 'परिव्राजकः सर्वभूताभयदक्षिणाम्' इत्यादि,

तथा इह --- इति केचित् --- ब्रह्म ब्रह्मभावी पुरषो ब्राह्मणः इति व्याचक्षते। तन्न, सर्वभावापत्तेरनित्यत्वदोषात्। न हि सोऽस्ति

लोके परमार्थतः, यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति। 'तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चेति

विरुध्दम्। अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः। अविद्याकृतासर्वत्वनिवृत्तिं चेतसर्वभावापत्तिं ब्रह्मविद्याफलं मन्यसे,

ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात्। प्राग्ब्रह्मविज्ञानादपि सर्वो जन्तुर्ब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमार्थतः; अविद्यया तु

अब्रह्मत्वमसर्वत्वं चाध्यारोपितम् --- यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि; तथेह ब्रह्मण्यध्यारोपितमविद्यया

अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया निवर्त्यते --- इति मन्यसे यदि, तदा युक्तम् --- यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य

मुख्यार्थभूतम् 'ब्रह्म वा इदमग्र आसीत्' इत्यस्मिन्वाक्ये उच्यत इति वक्तुम्; यथाभूतार्थवादित्वाद्वेदस्य। न त्वियं कल्पना युक्ता

--- ब्रह्मशब्दार्थविपरीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति, श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वात् --- महत्तरे प्रयोजनान्तरेऽसति

अविद्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत वेति चेत्, , तस्य ब्रह्मविद्ययापोहानुपपत्तेः। न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री

दृष्टा कर्त्री वा ब्रह्मविद्या, अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते; तथा इहाप्यब्रह्मत्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां

ब्रह्मविद्यया; न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वा अर्हति ब्रह्मविद्या। तस्माद्व्यर्थैव श्रुतहान्यश्रुतकल्पना।

ब्रह्मण्यविद्यानुपपत्तिरिति चेत्, , ब्रह्मणि विद्याविधानात्। न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते ---

चक्षुर्गोचरापन्नायाम् --- 'इयं शुक्तिका न रजतम्' इति। तथा 'सदेवेदं सर्वम्, ब्रह्मैवेदं सर्वम्, आत्मैवेदं सर्वम्, नेदं

द्वैतमस्त्यब्रह्म' इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम्, ब्रह्मण्यविद्याध्यारोपणायामसत्याम्। न ब्रूमः --- शुक्तिकायामिव

ब्रह्मण्यतध्दर्माध्यारोपणा नास्तीति; किं तर्हि न ब्रह्म स्वात्मन्यतध्दर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति --- भवत्येवं नाविद्याकर्तृ

भ्रान्तं च ब्रह्म। किंतु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते --- 'नान्योऽतोऽस्ति विज्ञाता' 'नान्यदतोऽस्ति विज्ञातृ'

'तत्त्वमसि' 'आत्मानमेवावेत्' 'अहं ब्रह्मास्मि' 'अन्योऽसावन्योऽहमस्मीति, न स वेद' इत्यादिश्रुतिभ्यः; स्मृतिभ्यश्च --- 'समं

सर्वेषु भूतेषु' 'अहमात्मा गुडाकेश' 'शुनि चैव श्वपाके च'; 'यस्तु सर्वाणि भूतानि' 'यस्मिन्सर्वाणि भूतानि' इति च मन्त्रवर्णात्।

नन्वेवं शास्त्रोपदेशानर्थक्यमिति; बाढमेवम्, अवगते अस्त्वेवानर्थक्यम्। अवगमानर्थक्यमपीति चेत्, , अनवगमनिवृत्तेर्दृष्टत्वात्।

तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत्, न दृष्टविरोधात्; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो

दृष्टविरोधः स्यात्; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव। दर्शनानुपपत्तिरिति चेत्,

तत्राप्येषैव युक्तिः। 'पुण्यो वै पुण्येन कर्मणा भवति' 'तं विद्याकर्मणी समन्वारभेते' 'मन्ता बोध्दा कर्ता विज्ञानात्मा पुरुषः'

इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसार्यवगम्यते; तद्विलक्षणश्च परः 'स ष नेति नेति' 'अशनायाद्यत्येति' '

आत्मापहतपाप्मा विजरो विमृत्युः' 'एतस्य वा अक्षरस्य प्रशासने' इत्यादिश्रुतिभ्यः; कणादाक्षपादादितर्कशास्त्रेषु च

संसारिविलक्षण ईश्वर उपपत्तितः साध्यते; संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात् स्फुटमन्यत्वम् ईश्वरात् संसारिणोऽवगम्यते;

'अवाक्यनादरः' 'न मे पार्थास्ति' इति श्रुतिस्मृतिभ्यः; 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' 'तं विदित्वा न लिप्यते'

'ब्रह्मविदाप्नोति परम्' 'एकधैवानुद्रष्टव्यमेतत्' 'यो वा तदक्षरं गार्ग्यविदित्वा' 'तमेव धीरो विज्ञाय' 'प्रणवो धनुः, शरोह्यात्मा,

ब्रह्म तल्लक्ष्यमुच्यते' इत्यादिकर्मकर्तृनिर्देशाच्च; मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात्; असति भेदे कस्य कुतो गतिः स्यात्?

तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः गन्तव्यदेशानुपपत्तिश्चेति; भिन्नस्य तु परस्मात् आत्मनः सर्वमेतदुपपन्नम्;

कर्मज्ञानसाधनोपदेशाच्च --- भिन्नश्चेद्ब्रह्मणः संसारी स्यात्, युक्तस्तं प्रत्यभ्युपदयनिःश्रेयससाधनयोः कर्मज्ञानयोरुपदेशः,

नेश्वरस्य आप्तकामत्वात्; तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् --- न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् --- संसारी

चेद्ब्रह्मभावी अब्रह्म सन्, विदित्वात्मानमेव अहं ब्रह्मास्मीति, सर्वमभवत्; तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य

सिध्दत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम्। तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियोगात्संसारिण व --- अहं ब्रह्मास्मीति -

-- ब्रह्मत्वसंपादनार्थ उपदेश इति चेत् --- अनिज्र्ञाते हि ब्रह्मस्वरूपे किं संपादयेत् --- अहं ब्रह्मास्मीति? निज्र्ञातलक्षणे हि

ब्रह्मणि शक्या संपत्कर्तुम् --- न 'अयमात्मा ब्रह्म' 'यत्साक्षादपरोक्षाद्ब्रह्म' 'य आत्मा' 'तत्सत्यं स आत्मा' 'ब्रह्मविदाप्नोति

परम्' इति प्रकृत्य 'तस्माद्वा तस्मादात्मनः' इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यात् कार्थत्वमेवेत्यवगम्यते; अन्यस्य वै

अन्यत्र संपत् क्रियते, नैकत्वे; 'इदं सर्वं यदयमात्मा' इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन कत्वं दर्शयति; तस्मान्नात्मनो

ब्रह्मत्वसंपदुपपत्तिः। न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते; 'ब्रह्म वेद ब्रह्मैव भवति' 'अभयं हि जनक प्राप्तोऽसि' 'अभयं हि

वै ब्रह्म भवति' इति च तदापत्तिश्रवणात्। संपत्तिश्चेत्, तदापत्तिर्न स्यात्। न ह्यन्यस्यान्यभाव उपपद्यते। वचनात्, संपत्तेरपि

तद्भावापत्तिः स्यादिति चेत्, , संपत्तेः प्रत्ययमात्रत्वात्। विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम।

न च वचनं वस्तुनः सामर्थ्यजनकम्। ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः। 'स ष इह प्रविष्टः' इत्यादिवाक्येषु च परस्यैव

प्रवेश इति स्थितम्। तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी। इष्टार्थबाधनाच्च --- सैन्धवघनवदनन्तरमबाह्यमेकरसं ब्रह्म

--- इति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितार्थः --- काण्डद्वयेऽप्यन्तेऽवधारणात् --- अवगम्यते --- 'इत्यनुशासनम्'

'एतावदरे खल्वमृतत्वम्' इति; तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोऽर्थः; तत्र यदि संसारी ब्रह्मणोऽन्य

आत्मानमेवावेत् --- इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्यात्, तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं

स्यात्। व्यपदेशानुपपत्तेश्च --- यदि च 'आत्मानमेवावेत्' इति संसारी कल्प्येत, 'ब्रह्मविद्या' इति व्यपदेशो न स्यात्

आत्मानमेवावेदिति, संसारिण व वेद्यत्वोपपत्तेः। 'आत्मा' इति वेत्तुरन्यदुच्यत इति चेत्, , 'अहं ब्रह्मास्मि' इति विशेषणात्;

अन्यश्चेद्वेद्यः स्यात्, 'अयमसौ' इति वा विशेषयेत, न तु 'अहमस्मि' इति। 'अहमस्मि' इति विशेषणात् 'आत्मानमेवावेत्' इति

च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते; तथा च सति उपपन्नो ब्रह्मविद्याव्यपदेशः, नान्यथा; संसारिविद्या ह्यन्यथा

स्यात्; न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः तमःप्रकाशाविव भानोः विरुध्दत्वात्; न चोभयनिमित्तत्वे ब्रह्मविद्येति

निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारिविद्या च स्यात्; न च वस्तुनोऽर्धजरतीयत्वं कल्पयितुं युक्तं

तत्त्वज्ञानविवक्षायाम्, श्रोतुः संशयो हि तथा स्यात्; निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते --- 'यस्य स्यादध्दा न

विचिकित्सास्ति' 'संशयात्मा विनश्यति' इति श्रुतिस्मृतिभ्याम्। अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना। ब्रह्मणि

साधकत्वकल्पनास्मदादिष्विव, अपेशला --- 'तदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्' इति --- इति चेत्, , शास्त्रोपलम्भात्;

ह्यस्मत्कल्पनेयम्; शास्त्रकृता तु; तस्माच्छास्त्रस्यायमुपालम्भः; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया

स्वार्थपरित्यागः कार्यः। न चैतावत्येवाक्षमा युक्ता भवतः; सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव 'एकधैवानुद्रष्टव्यम्' 'नेह नानास्ति

किंचन' 'यत्र हि द्वैतमिव भवति' 'एकमेवाद्वितीयम्' इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः

सन् --- इत्यत्पल्पमिदमुच्यते --- इयमेव कल्पनापेशलेति। तस्मात् --- यत्प्रविष्टं स्रष्टृ ब्रह्म, तद्ब्रह्म, वै-शब्दोऽवधारणार्थः,

इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्रतिबोधादपि, ब्रह्मैवासीत्, सर्वं च इदम्; किंत्वप्रतिबोधात् 'अब्रह्मास्मि असर्वं च'

इत्यात्मन्यध्यारोपात् 'कर्ताहं क्रियावान्फलानां च भोक्ता सुखी दुःखी संसारी' इति च अध्यारोपयति; परमार्थस्तु ब्रह्मैव

तद्विलक्षणं सर्वं च। तत् कथंचिदाचार्येण दयालुना प्रतिबोधितम् 'नासि संसारी' इति आत्मानमेवावेत्स्वाभाविकम्;

अविद्याध्यारोपितविशेषवर्जितमिति वशब्दस्यार्थः। ब्रूहि कोऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म. ननु न

स्मरस्यात्मानम्; दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति। ननु असौ गौः असावश्व

इत्येवमसौ व्यपदिश्यते भवता, न आत्मानं प्रत्यक्षं दर्शयसि; वं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति। ननु अत्रापि

दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि; न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः; वं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता

मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति। ननु अत्र को विशेषो द्रष्टरि; यदि दृष्टेर्द्रष्टा, यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव;

द्रष्टव्य व तु भवान्विशेषमाह द्रष्टेर्द्रष्टेति; द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव। न, विशेषोपपत्तेः --- अस्त्यत्र

विशेषः; यो दृष्टेर्द्रष्टा सः दृष्टिश्चेद्भवति नित्यमेव पश्यति दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्ट्रा; तत्र द्रष्टुर्दृष्टया

नित्यया भवितव्यम्; अनित्या चेद्द्रष्टर्दृष्टिः तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि --- यथा अनित्यया दृष्टया घटादि

वस्तु; न च तद्वत् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम्। किं द्वे दृष्टी द्रष्टुः --- नित्या अदृश्या अन्या अनित्या दृश्येति?

बाढम्; प्रसिध्दा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात्; नित्यैव चेत्, सर्वोऽनन्ध व स्यात्; द्रष्टुस्तु नित्या दृष्टिः --- 'न हि

द्रष्टुर्दष्टेर्विपरिलोपो विद्यते' इति श्रुतेः; अनुमानाच्च --- अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते; सा तर्हि

इतरदृष्टिनाशे न नश्यति; सा द्रष्टुर्दृष्टिः; तया अविपरिलुप्तया नित्यया दृष्टया स्वरूपभूतया स्वयंज्योतिःसमाख्यया

इतरामनित्यां दृष्ंटि स्वप्नान्तबुध्दान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टेर्द्रष्टा भवति। वं च सति दृष्टिरेव स्वरूपमस्य

अग्न्यौष्ण्यवत्, न काणादानामिव दृष्टिव्यतिरिक्तः अन्यः चेतनः द्रष्टा। तद्ब्रह्म आत्मानमेव

नित्यदृग्रूपमध्यारोपितानित्यदृष्टयादिवर्जितमेव अवेत् विदितवत्। ननु विप्रतिषिध्दम् --- 'न विज्ञातेर्विज्ञातारं विजानीयाः' इति

श्रुतेः --- विज्ञातुर्विज्ञानम्। न, वं विज्ञानान्न विप्रतिषेधः; वं दृष्टेर्द्रष्टेति विज्ञायत व; अन्यज्ञानानपेक्षत्वाच्च --- न च द्रष्टुर्नित्यैव

दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टिमन्यामाकाङ्क्षते; निवर्तते हि द्रष्टृविषयदृष्टयाकाङ्क्षा तदसंभवादेव; न ह्यविद्यमाने विषये

आकाङ्क्षा कस्यचिदुपजायते; न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत; न च स्वरूपविषयाकाङ्क्षा

स्वस्यैव; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवावेदित्युक्तम्, नात्मनो विषयीकरणम्। तत्कथमवेदित्याह --- अहं

दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति। ब्रह्मेति --- यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति

नेत्यस्थूलमनण्वित्येवमादिलक्षणम्, तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति। तस्मात् वं विज्ञानात् तद्ब्रह्म सर्वमभवत् --

- अब्रह्माध्यारोपणापगमात् तत्कार्यस्यासर्वत्वस्य निवृत्त्या सर्वमभवत्। तस्माद्युक्तमेव मनुष्या मन्यन्ते --- यद्ब्रह्मविद्यया सर्वं

भविष्याम इति। यत्पृष्टम् --- किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, तन्निर्णीतम् --- ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं

ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति। तत् तत्र, यो यो देवानां प्रत्यबुध्यत प्रतिबुध्दवानात्मानं यथोक्तेन विधिना, स व प्रतिबुध्द

आत्मा तत् ब्रह्म अभवत्; तथा

षीणाम्, तथा मनुष्याणां च मध्ये। देवानामित्यादि लोकदृष्टयपेक्षया न ब्रह्मत्वबुद्ध्योच्यते; पुरः पुरुष आविशदिति सर्वत्र ब्रह्मैवानुप्रविष्टमित्यवोचाम; अतः

शरीराद्युपाधिजनितलोकदृष्टयपेक्षया देवानामित्याद्युच्यते; परमार्थस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्रतिबोधात् देवादिशरीरेषु अन्यथैव विभाव्यमानम्,

तदात्मानमेवावेत्, तथैव च सर्वमभवत्। अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः। कथम्? --- तत् ब्रह्म तत्

आत्मानमेव अहमस्मीति पश्यन् तस्मादेव ब्रह्मणो दर्शनात्

षिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल; स तस्मिन्ब्रह्मात्मदर्शनेऽवस्थितः तान्मन्त्रान्ददर्श --- अहं मनुरभवं सूर्यश्चेत्यादीन्।

तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते; अहं मनुरभवं सूर्यश्चेत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति;

पश्यन्सर्वात्मभावं फलं प्रतिपेदे इत्यस्मात्प्रयोगात् ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्शयति --- भुञ्जानस्तृप्यतीति यद्वत्। सेयं

ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात्, नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वात् --- इति

स्यात्कस्यचिद्बुध्दिः, तद्व्युत्थापनायाह --- तदिदं प्रकृतं ब्रह्म यत्सर्वूभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, तर्हि तस्मिन्नपि

वर्तमानकाले यः कश्चित् व्यावृत्तबाह्यौत्सुक्य आत्मानमेव वं वेद अहं ब्रह्मास्मीति ---अपोह्य

उपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्मैवाहमस्मि केवलमिति --- सः

अविद्याकृतासर्वत्वनिवृत्तेर्ब्रह्मविज्ञानादिदं सर्वं भवति। न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो

विशेषः तद्विज्ञानस्य वास्ति। वार्तमानिकेषु पुरुषेषु तु ब्रह्मविद्याफलेऽनैकान्तिकता शङ्क्यत इत्यत आह --- तस्य ह

ब्रह्मविज्ञातुर्यथोक्तेन विधिना देव महावीर्याः, चन अपि, अभूत्यै अभवनाय ब्रह्मसर्वभावस्य, नेशते न पर्याप्ताः, किमुतान्ये।

ब्रह्मविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशत इति का शङ्केति --- उच्यते --- देवादीन्प्रति

णवत्त्वानर््मत्यानाम्; 'ब्रह्मचर्येण

षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति हि जायमानमेव

णवन्तं पुरुषं दर्शयति श्रुतिः; पशुनिदर्शनाच्च 'अथो अयं वा ...' इत्यादिलोकश्रुतेश्च आत्मनो वृत्तिपरिपिपालयिषया अधर्मणानिव देवाः परतन्त्रान्मनुष्यान्प्रति

अमृतत्वप्राप्ंति प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का। स्वपशून् स्वशरीराणीव च रक्षन्ति देवाः; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां

बहुपशुसमतयैकैकस्य पुरुषस्य; 'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति हि वक्ष्यति, 'यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि

भूतान्यरिष्टिमिच्छन्ति' इति च; ब्रह्मवित्त्वे पारार्थ्यनिवृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रियारिष्टिवचनाभ्यामवगम्यते; तस्माद्ब्रह्मविदो ब्रह्मविद्याफलप्राप्ंति

प्रति कुर्युरेव विघ्नं देवाः। प्रभाववन्तश्च हि ते। ननु वं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विघ्नकरणं पेयपानसमम्; हन्त

तर्ह्यविस्रम्भोऽभ्युदयनिःश्रेयससाधनानुष्ठानेषु; तथा ईश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्रभुत्वम्; तथा कालकर्ममन्त्रौषधितपसाम्; षां हि फलसंपत्तिविपत्तिहेतुत्वं

शास्त्रे लोके च प्रसिध्दम्; अतोऽप्यनाश्वासः शास्त्रार्थानुष्ठाने। न; सर्वपदार्थानां नियतनिमित्तोपादानात् जगद्वैचित्र्यदर्शनाच्च, स्वभावपक्षे च तदुभयानुपपत्तेः,

सुखदुःखादिफलनिमित्तं कर्मेत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् ---

कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम्, क्रियाया हि

कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात्; तस्मात् क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्ंति प्रत्यविस्रम्भः। कर्मणामपि षाम् वशानुगत्वं क्वचित्,

स्वसामर्थ्यस्याप्रणोद्यत्वात्। कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य --- कर्मैव कारकं नान्यत्फलप्राप्ताविति

केचित्; दैवमेवेत्यपरे; काल इत्येके; द्रव्यादिस्वभाव इति केचित्; सर्व ते संहता वेत्यपरे। तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः --- 'पुण्यो वै पुण्येन

कर्मणा भवति पापः पापेन' इत्यादयः। यद्यपि षां स्वविषये कस्यचित्प्राधान्योद्भवः इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्ंति प्रति

अनैकान्तिकत्वम्, शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य। न, अविद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य --- यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र

न देवानां विघ्नकरणे सामर्थ्यम्; कस्मात्? विद्याकालानन्तरितत्वाद्ब्रह्मप्राप्तिफलस्य; कथम्; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल व

रूपाभिव्यक्तिः, वमात्मविषयं विज्ञानं यत्कालम्, तत्काल व तद्विषयाज्ञानतिरोभावः स्यात्; अतो ब्रह्मविद्यायां सत्याम् अविद्याकार्यानुपपत्तेः, प्रदीप इव

तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः --- यत्र आत्मत्वमेव देवानां ब्रह्मविदः। तदेतदाह --- आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, षां

देवानाम्, स ब्रह्मवित्, भवति ब्रह्मविद्यासमकालमेव --- अविद्यामात्रव्यवधानापगमात् शुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम। अतो नात्मनः

प्रतिकूलत्वे देवानां प्रयत्नः संभवति। यस्य हि अनात्मभूतं फलं देशकालनिमित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम्; न त्विह

विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः। एवं तर्हि विद्याप्रत्ययसंतत्यभावात् विपरीतप्रत्ययतत्कार्ययोश्च दर्शनात् अन्त्य व

आत्मप्रत्ययोऽविद्यानिवर्तकः, न तु पूर्व इति। न, प्रथमेनानैकान्तिकत्वात् --- यदि हि प्रथम आत्मविषयः प्रत्ययोऽविद्यां न निवर्तयति, तथा अन्त्योऽपि,

तुल्यविषयत्वात्। वं तर्हि संततोऽविद्यानिवर्तकः न विच्छिन्न इति। न, जीवनादौ सति संतत्यनुपपत्तेः --- न हि जीवनादिहेतुके प्रत्यये सति

विद्याप्रत्ययसंततिरुपपद्यते, विरोधात्। अथ जीवनादिप्रत्ययतिरस्करणेनैव आ मरणान्तात् विद्यासंततिरिति चेत्, , प्रत्ययेत्तासंतानानवधारणात्

शास्त्रार्थानवधारणदोषात् --- इयतां प्रत्ययानां संततिरविद्याया निवर्तिकेत्यनवधारणात् शास्त्रार्थो नावध्रियेत; तच्चानिष्टम्। संततिमात्रत्वेऽवधारित वेति चेत्, ,

आद्यन्तयोरविशेषात् --- प्रथमा विद्याप्रत्ययसंततिः मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः प्रत्यययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम्। वं तर्हि अनिवर्तक

वेति चेत्, 'तस्मात्तत्सर्वमभवत्' इति श्रुतेः, 'भिद्यते हृदयग्रन्थिः' 'तत्र को मोहः' इत्यादिश्रुतिभ्यश्च। अर्थवाद इति चेत्, ,

सर्वशाखोपनिषदामर्थवादत्वप्रसङ्गात्; तावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषदः। प्रत्यक्षप्रमितात्मविषयत्वात् अस्त्येवेति चेत्, , उक्तपरिहारत्वात् ---

अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः। तस्मात् आद्यः अन्त्यः संततः असंततश्चेत्यचोद्यमेतत्,

अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्यायाः --- य व अविद्यादिदोषनिवृत्तिफलकृत्प्रत्ययः आद्यः अन्त्यः संततः असंततो वा, स व विद्येत्यभ्युपगमात् न

चोद्यस्यावतारगन्धोऽप्यस्ति। यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न तच्छेषस्थितिहेतुत्वात् --- येन कर्मणा शरीरमारब्धं तत्,

विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं

रागादिदोषं च तावन्मात्रमाक्षिपत्येव --- मुक्तेषुवत् प्रवृत्तफलत्वात् तध्देतुकस्य कर्मणः। तेन न तस्य निवर्तिका विद्या, अविरोधात्; किं तर्हि स्वाश्रयादेव

स्वात्मविरोध अविद्याकार्यं यदुत्पित्सु तन्निरुणध्दि, अनागत्वात्; अतीतं हि इतरत्। किंच न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् ---

अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति; स च विषयविशेषावधारणवतो

अशेषविपरीतप्रत्ययाशयस्योपमर्दितत्वात् न पूर्ववत्संभवति, शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात्। क्वचित्तु विद्यायाः

पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्ययभ्रान्तिम् अकस्मात् कुर्वन्ति --- यथा

विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः। सम्यग्ज्ञानवतोऽपि चेत् पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ

प्रवृत्तिरसमञ्जसा स्यात्, सर्वं च प्रमाणमप्रमाणं संपद्येत, प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः। तेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मादित्येतत्परिहृतम्।

ज्ञानोत्पत्तेः प्राक् ऊर्ध्वं तत्कालजन्मान्तरसंचितानां च कर्मणामप्रवृत्तफलानां विनाशः सिध्दो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव; 'क्षीयन्ते चास्य कर्माणि' 'तस्य

तावदेव चिरम्' 'सर्वे पाप्मानः प्रदूयन्ते' 'तं विदित्वा न लिप्यते कर्मणा पापकेन' 'एतमु हैवैते न तरतः' 'नैनं कृताकृते तपतः' 'तं ह वाव न तपति' '

बिभेति कुतश्चन' इत्यादिश्रुतिभ्यश्च; 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते' इत्यादिस्मृतिभ्यश्च। यत्तु

णैः प्रतिबध्यत इति, तन्न, अविद्यावद्विषयत्वात् --- अविद्यावान्हि

णी, तस्य कर्तृत्वाद्युपपत्तेः, 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्' इति हि वक्ष्यति --- अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात्

तिमिरकृतद्वितीयचन्द्रवत् तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति, तत्रान्योऽन्यत्पश्येदित्यादिना; यत्र पुनर्विद्यायां

सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्, 'तत्केन कं पश्येत्' इति कर्मासंभवं दर्शयति, तस्मादविद्यावद्विषय व

णित्वम्