मन्त्रार्थः

वयं तत् शुद्धं ब्रह्म, धीमहि ध्यायेम, सवितुः 'षू' प्रेरणे सकल-प्रेरकस्य, देवस्य क्रीडमानस्य, वरेण्यं श्रेष्ठतमं, भर्गस्तेजः, धियः बुद्धेस्तत्त्वज्ञानस्य वा , यातीति यः प्रापकः, नोऽस्मान्, प्रचोदयात् प्रेरयेत्।।